ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥
सत्यपि प्रतिवेदान्तं सृज्यमानेष्वाकाशादिषु क्रमादिद्वारके विगाने, स्रष्टरि किञ्चिद्विगानमस्तिकुतः ? यथाव्यपदिष्टोक्तेःयथाभूतो ह्येकस्मिन्वेदान्ते सर्वज्ञः सर्वेश्वरः सर्वात्मैकोऽद्वितीयः कारणत्वेन व्यपदिष्टः, तथाभूत एव वेदान्तान्तरेष्वपि व्यपदिश्यतेतद्यथासत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इतिअत्र तावज्ज्ञानशब्देन परेण तद्विषयेण कामयितृत्ववचनेन चेतनं ब्रह्म न्यरूपयत्अपरप्रयोज्यत्वेनेश्वरं कारणमब्रवीत्तद्विषयेणैव परेणात्मशब्देन शरीरादिकोशपरम्परया चान्तरनुप्रवेशनेन सर्वेषामन्तः प्रत्यगात्मानं निरधारयत्बहु स्यां प्रजायेय’ (तै. उ. २ । ६ । १) इति चात्मविषयेण बहुभवनानुशंसनेन सृज्यमानानां विकाराणां स्रष्टुरभेदमभाषततथा इदं सर्वमसृजतयदिदं किं ’ (तै. उ. २ । ६ । १) इति समस्तजगत्सृष्टिनिर्देशेन प्राक्सृष्टेरद्वितीयं स्रष्टारमाचष्टेतदत्र यल्लक्षणं ब्रह्म कारणत्वेन विज्ञातम् , तल्लक्षणमेवान्यत्रापि विज्ञायतेसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इतितथा आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत् ईक्षत लोकान्नु सृजै’ (ऐ. उ. १ । १ । १) इति एवंजातीयकस्य कारणस्वरूपनिरूपणपरस्य वाक्यजातस्य प्रतिवेदान्तमविगीतार्थत्वात्कार्यविषयं तु विगानं दृश्यतेक्वचिदाकाशादिका सृष्टिः क्वचित्तेजआदिकेत्येवंजातीयकम् कार्यविषयेण विगानेन कारणमपि ब्रह्म सर्ववेदान्तेष्वविगीतमधिगम्यमानमविवक्षितं भवितुमर्हतीति शक्यते वक्तुम् , अतिप्रसङ्गात्समाधास्यति चाचार्यः कार्यविषयमपि विगानम् वियदश्रुतेः’ (ब्र. सू. २ । ३ । १) इत्यारभ्यभवेदपि कार्यस्य विगीतत्वमप्रतिपाद्यत्वात् ह्ययं सृष्ट्यादिप्रपञ्चः प्रतिपिपादयिषितः हि तत्प्रतिबद्धः कश्चित्पुरुषार्थो दृश्यते श्रूयते वा कल्पयितुं शक्यते, उपक्रमोपसंहाराभ्यां तत्र तत्र ब्रह्मविषयैर्वाक्यैः साकमेकवाक्यताया गम्यमानत्वात्दर्शयति सृष्ट्यादिप्रपञ्चस्य ब्रह्मप्रतिपत्त्यर्थताम्अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ’ (छा. उ. ६ । ८ । ४) इतिमृदादिदृष्टान्तैश्च कार्यस्य कारणेनाभेदं वदितुं सृष्ट्यादिप्रपञ्चः श्राव्यत इति गम्यतेतथा सम्प्रदायविदो वदन्तिमृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथाउपायः सोऽवताराय नास्ति भेदः कथञ्चन’ (मा. का. ३ । १५) इतिब्रह्मप्रतिपत्तिप्रतिबद्धं तु फलं श्रूयतेब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) तरति शोकमात्मवित्’ (छा. उ. ७ । १ । ३) तमेव विदित्वाति मृत्युमेति’ (श्वे. उ. ३ । ८) इतिप्रत्यक्षावगमं चेदं फलम् , ‘तत्त्वमसिइत्यसंसार्यात्मत्वप्रतिपत्तौ सत्यां संसार्यात्मत्वव्यावृत्तेः ॥ १४ ॥

तत्र सृष्टौ विरोधमङ्गीकृत्य स्रष्टरि विरोधं परिहरति

सत्यपीति ।

आकाशादिषु ब्रह्मणः कारणत्वे विरोधो नैवास्तीति प्रतिज्ञायां हेतुमाह

कुत इति ।

यथाभूतत्वमेवाह

सर्वज्ञ इति ।

कारणस्य सर्वज्ञत्वादिकं प्रतिवेदान्तं दृश्यत इत्याह

तद्यथेत्यादिना ।

तद्विषयेण ब्रह्मविषयेण । चेतनं सर्वज्ञम् । 'तदात्मानं स्वयमकुरुत' इति श्रुतेरपरप्रयोज्यत्वम् । 'तस्माद्वा एतस्मादात्मनः' इति प्रत्यगात्मत्वम् । स्वस्य बहुरूपत्वकामनया स्थितिकालेऽप्यद्वितीयत्वम् ।

यथा तैत्तिरीयके सर्वज्ञत्वादिकं कारणस्य तथा छान्दोग्यादावपि दृश्यत इत्याह

तदत्र यल्लक्षणमिति ।

मिषत्सव्यापारम् । अविगीतार्थत्वादविरुद्धार्थकत्वात्कारणे नास्ति विप्रतिपत्तिरिति शेषः ।

तथापि कार्ये विरोधात्कारणेऽपि विरोधः स्यादित्याशङ्क्य निषेधति

कार्यविषयं त्वित्यादिना ।

स्वप्नसृष्टीनां प्रत्यहमन्यथात्वेन सोऽहमिति प्रत्यभिज्ञायमाने द्रष्टर्यपि नानात्वं प्रसज्येतेत्याह

अतिप्रसङ्गादिति ।

सृष्टिविरोधमङ्गीकृत्य स्रष्टरि न विरोध इत्युक्तम् । अधुनाङ्गीकारं त्यजति

समाधास्यति चेति ।

किमर्थं तर्हि श्रुतयः सृष्टिमन्यथान्यथा वदन्तीत्याशङ्क्य सृष्टावतात्पर्यज्ञापनायेत्याह

भवेदित्यादिना ।

अतात्पर्यार्थविरोधो न दोषायेत्यतात्पर्यं साधयति

नहीति ।

फलवद्ब्रह्मवाक्यशेषत्वेन सृष्टिवाक्यानामर्थवत्त्वसम्भवान्न स्वार्थे पृथक्फलं कल्प्यम् , वाक्यभेदापत्तेरित्याह

नच कल्पयितुमिति ।

न्यायादेकवाक्यत्वं सिद्धं श्रुतिरपि दर्शयतीत्याह

दर्शयति चेति ।

शुङ्गेन कार्येण लिङ्गेन कारणब्रह्मज्ञानार्थत्वं सृष्टिश्रुतीनामुक्त्वा कारणस्याद्वयत्वज्ञानं फलान्तरमाह

मृदादीति ।

एवं निष्फलायामन्यार्थायां सृष्टौ तात्पर्याभावाद्विरोधो न दोष इत्यत्र वृद्धसंमतिमाह

तथाचेति ।

अन्यथान्यथेति वीप्सा द्रष्टव्या । अवताराय ब्रह्माधिजन्मने । अतस्तदन्यथात्वेऽपि ब्रह्मणि न भेदः । ज्ञेये न विगानमित्यर्थः ।

ब्रह्मज्ञानस्य सृष्टिशेषित्वमुक्तम् , तन्निर्वाहाय तस्य फलमाह

ब्रह्मेति ।

मृत्युमत्येतीत्यन्वयः ॥ १४ ॥