ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
यत्पुनः कारणविषयं विगानं दर्शितम् असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इत्यादि, तत्परिहर्तव्यम्; अत्रोच्यते
यत्पुनः कारणविषयं विगानं दर्शितम् असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इत्यादि, तत्परिहर्तव्यम्; अत्रोच्यते

एवं सृष्टिद्वारकं विरोधमुत्सूत्रं समाधाय कारणस्य सदसत्त्वादिना साक्षाच्छ्रुतिविरोधनिरासार्थं सूत्रमादत्ते

यत्पुनरिति ।

यतोऽस्तित्वलक्षणं ब्रह्म निर्धार्य तस्मिन्नेव श्लोकमुदाहरति, अतोऽत्र श्लोके निरात्मकमसन्न श्राव्यत इति योजना । तत्तत्र सदात्मनि श्लोको मन्त्रो भवति ।