तत्र सृष्टौ विरोधमङ्गीकृत्य स्रष्टरि विरोधं परिहरति
सत्यपीति ।
आकाशादिषु ब्रह्मणः कारणत्वे विरोधो नैवास्तीति प्रतिज्ञायां हेतुमाह
कुत इति ।
यथाभूतत्वमेवाह
सर्वज्ञ इति ।
कारणस्य सर्वज्ञत्वादिकं प्रतिवेदान्तं दृश्यत इत्याह
तद्यथेत्यादिना ।
तद्विषयेण ब्रह्मविषयेण । चेतनं सर्वज्ञम् । 'तदात्मानं स्वयमकुरुत' इति श्रुतेरपरप्रयोज्यत्वम् । 'तस्माद्वा एतस्मादात्मनः' इति प्रत्यगात्मत्वम् । स्वस्य बहुरूपत्वकामनया स्थितिकालेऽप्यद्वितीयत्वम् ।
यथा तैत्तिरीयके सर्वज्ञत्वादिकं कारणस्य तथा छान्दोग्यादावपि दृश्यत इत्याह
तदत्र यल्लक्षणमिति ।
मिषत्सव्यापारम् । अविगीतार्थत्वादविरुद्धार्थकत्वात्कारणे नास्ति विप्रतिपत्तिरिति शेषः ।
तथापि कार्ये विरोधात्कारणेऽपि विरोधः स्यादित्याशङ्क्य निषेधति
कार्यविषयं त्वित्यादिना ।
स्वप्नसृष्टीनां प्रत्यहमन्यथात्वेन सोऽहमिति प्रत्यभिज्ञायमाने द्रष्टर्यपि नानात्वं प्रसज्येतेत्याह
अतिप्रसङ्गादिति ।
सृष्टिविरोधमङ्गीकृत्य स्रष्टरि न विरोध इत्युक्तम् । अधुनाङ्गीकारं त्यजति
समाधास्यति चेति ।
किमर्थं तर्हि श्रुतयः सृष्टिमन्यथान्यथा वदन्तीत्याशङ्क्य सृष्टावतात्पर्यज्ञापनायेत्याह
भवेदित्यादिना ।
अतात्पर्यार्थविरोधो न दोषायेत्यतात्पर्यं साधयति
नहीति ।
फलवद्ब्रह्मवाक्यशेषत्वेन सृष्टिवाक्यानामर्थवत्त्वसम्भवान्न स्वार्थे पृथक्फलं कल्प्यम् , वाक्यभेदापत्तेरित्याह
नच कल्पयितुमिति ।
न्यायादेकवाक्यत्वं सिद्धं श्रुतिरपि दर्शयतीत्याह
दर्शयति चेति ।
शुङ्गेन कार्येण लिङ्गेन कारणब्रह्मज्ञानार्थत्वं सृष्टिश्रुतीनामुक्त्वा कारणस्याद्वयत्वज्ञानं फलान्तरमाह
मृदादीति ।
एवं निष्फलायामन्यार्थायां सृष्टौ तात्पर्याभावाद्विरोधो न दोष इत्यत्र वृद्धसंमतिमाह
तथाचेति ।
अन्यथान्यथेति वीप्सा द्रष्टव्या । अवताराय ब्रह्माधिजन्मने । अतस्तदन्यथात्वेऽपि ब्रह्मणि न भेदः । ज्ञेये न विगानमित्यर्थः ।
ब्रह्मज्ञानस्य सृष्टिशेषित्वमुक्तम् , तन्निर्वाहाय तस्य फलमाह
ब्रह्मेति ।
मृत्युमत्येतीत्यन्वयः ॥ १४ ॥