सदात्मसमाकर्षादतीन्द्रियार्थकासत्पदेन ब्रह्म लक्ष्यत इत्याह
तस्मादिति ।
नच प्रधानमेव लक्ष्यतामिति वाच्यम् । चेतनार्थकब्रह्मादिशब्दानामनेकेषां लक्षणागौरवादिति भावः ।
तैत्तिरीयकश्रुतौ सूत्रं योजयित्वा छान्दोग्यादौ योजयति
एषैवेति ।
सदेकार्थकतत्पदेन पूर्वोक्तासतः समाकर्षान्न शून्यत्वमित्यर्थः ।
नन्वसत्पदलक्षणा न युक्ता, श्रुतिभिरेव स्वमतभेदेनोदितानुदितहोमवद्विकल्पस्य दर्शितत्वादित्यत आह
तद्धैक इति ।
एके शाखिन इत्यर्थो न भवति, किन्तु अनादिसंसारचक्रस्था वेदबाह्या इत्यर्थः । शून्यनिरासेन श्रुतिभिः सद्वादस्यैवेष्टत्वात्तासां विरोधस्फूर्तिनिरासाय लक्षणा युक्तेति भावः ।
यदुक्तं क्वचिदकर्तृका सृष्टिः कथितेति, तन्नेत्याह
तद्धेदमिति ।
अध्यक्षः कर्ता ।
ननु कर्त्रभाव एव परामृश्यत इत्यत आह
चेतनस्य चायमिति ।
चक्षुर्द्रष्टा, श्रोत्रं श्रोता, मनो मन्तेत्युच्यत इत्यर्थः ।
आद्यकार्यं सकर्तृकम् , कार्यत्वात् , घटवदित्याह
अपिचेति ।
अद्यत्वे इदानीम् ।
ननु कर्मकारकादन्यस्य कर्तुः सत्त्वे कर्मण एव कर्तृवाचिलकारो विरुद्ध इत्यत आह
व्याक्रियत इति ।
अनायासेन सिद्धिमपेक्ष्य कर्मणः । कर्तृत्वमुपचर्यत इत्यर्थः ।
व्याक्रियते जगत्स्वयमेव निष्पन्नमिति व्याख्याय केनचिद्व्याकृतमिति व्याचष्टे
यद्वेति ।
अतः श्रुतीनामविरोधात्कारणद्वारा समन्वय इति सिद्धम् ॥ १५ ॥