ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
वाक्यान्वयात् ॥ १९ ॥
बृहदारण्यके मैत्रेयीब्राह्मणेऽधीयते — ‘ वा अरे पत्युः कामायइत्युपक्रम्य वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदꣳ सर्वं विदितम्’ (बृ. उ. ४ । ५। ६) इतितत्रैतद्विचिकित्स्यतेकिं विज्ञानात्मैवायं द्रष्टव्यश्रोतव्यत्वादिरूपेणोपदिश्यते, आहोस्वित्परमात्मेतिकुतः पुनरेषा विचिकित्सा ? प्रियसंसूचितेनात्मना भोक्त्रोपक्रमाद्विज्ञानात्मोपदेश इति प्रतिभातितथा आत्मविज्ञानेन सर्वविज्ञानोपदेशात्परमात्मोपदेश इतिकिं तावत्प्राप्तम् ? विज्ञानात्मोपदेश इतिकस्मात् ? उपक्रमसामर्थ्यात्पतिजायापुत्रवित्तादिकं हि भोग्यभूतं सर्वं जगत् आत्मार्थतया प्रियं भवतीति प्रियसंसूचितं भोक्तारमात्मानमुपक्रम्यानन्तरमिदमात्मनो दर्शनाद्युपदिश्यमानं कस्यान्यस्यात्मनः स्यात्मध्येऽपिइदं महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति प्रेत्य संज्ञास्ति’(बृ. उ. २। ४ । १२) इति प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन ब्रुवन्विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयतितथाविज्ञातारमरे केन विजानीयात्’(बृ. उ. २। ४ । १४) इति कर्तृवचनेन शब्देनोपसंहरन्विज्ञानात्मानमेवेहोपदिष्टं दर्शयतितस्मादात्मविज्ञानेन सर्वविज्ञानवचनं भोक्त्रर्थत्वाद्भोग्यजातस्यौपचारिकं द्रष्टव्यमित्येवं प्राप्ते ब्रूमः

वाक्यान्वयात् । विषयवाक्यमाह

बृहदिति ।

पत्यादेरात्मशेषत्वेन प्रियत्वादात्मैव सर्वशेषी प्रियतमः, अतोऽन्यत्परित्यज्यात्मैव द्रष्टव्यः । दर्शनार्थं श्रवणादिकं कार्यमित्यर्थः ।

प्रियसंसूचितेनेति ।

पतिजायादिभिः । प्रियैर्भोग्यैर्जीवतयानुमितेनेत्यर्थः ।

यथा 'ब्रह्म ते ब्रवाणि' इत्युपक्रमबलाद्वाक्यस्य ब्रह्मपरत्वं तथात्र जीवोपक्रमादस्य वाक्यस्य जीवपरत्वमिति दृष्टान्तेन पूर्वपक्षयति

किं तावदिति ।

पूर्वपक्षे वाक्यस्य जीवोपास्तिपरत्वम् , सिद्धान्ते ज्ञेये प्रत्यग्ब्रह्मणि समन्वय इति फलम् । इदं प्रत्यक् । महदपरिच्छिन्नम् । भूतं सत्यम् । अनन्तं नित्यम् । अपारं सर्वगतं चिदेकरसम् । एतेभ्यःकार्यकारणात्मना जायमानेभ्यो भूतेभ्यः साम्येनोत्थाय भूतोपाधिकं जन्मानुभूय तान्येव भूतानि नीयमानान्यनुसृत्य विनश्यति । औपाधिकमरणानन्तरं विशेषधीर्नास्तीति श्रुत्यर्थः ।

विज्ञातारं

विज्ञानकर्तारम् । भोक्तरि ज्ञाते भोग्यं ज्ञातमित्युपचारः ।

मोक्षसाधनज्ञानगम्यत्वादिलिङ्गैर्वाक्यस्यान्वयाद्ब्रह्मण्येव तात्पर्यावगमाद्ब्रह्मप्रमापकत्वमिति सिद्धान्तयति

एवमिति ।

न वित्तेन । तत्साध्येन कर्मणेत्यर्थः ।