ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १८ ॥
अपि नैवात्र विवदितव्यम्जीवप्रधानं वेदं वाक्यं स्यात् ब्रह्मप्रधानं वेतियतोऽन्यार्थं जीवपरामर्शं ब्रह्मप्रतिपत्त्यर्थमस्मिन्वाक्ये जैमिनिराचार्यो मन्यतेकस्मात् ? प्रश्नव्याख्यानाभ्याम्प्रश्नस्तावत्सुप्तपुरुषप्रतिबोधनेन प्राणादिव्यतिरिक्ते जीवे प्रतिबोधिते पुनर्जीवव्यतिरिक्तविषयो दृश्यतेक्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदभूत्कुत एतदागात्’ (कौ. ब्रा. ४ । १९) इतिप्रतिवचनमपियदा सुप्तः स्वप्नं कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति’ (कौ. ब्रा. ४ । २०) इत्यादि, ‘एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाःइति सुषुप्तिकाले परेण ब्रह्मणा जीव एकतां गच्छति; परस्माच्च ब्रह्मणः प्राणादिकं जगज्जायत इति वेदान्तमर्यादातस्माद्यत्रास्य जीवस्य निःसम्बोधतास्वच्छतारूपः स्वापःउपाधिजनितविशेषविज्ञानरहितं स्वरूपम् , यतस्तद्भ्रंशरूपमागमनम् , सोऽत्र परमात्मा वेदितव्यतया श्रावित इति गम्यतेअपि चैवमेके शाखिनो वाजसनेयिनोऽस्मिन्नेव बालाक्यजातशत्रुसंवादे स्पष्टं विज्ञानमयशब्देन जीवमाम्नाय तद्व्यतिरिक्तं परमात्मानमामनन्ति एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागात्’ (बृ. उ. २ । १ । १६) इति प्रश्नेप्रतिवचनेऽपि एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’ (बृ. उ. २ । १ । १७) इतिआकाशशब्दश्च परमात्मनि प्रयुक्तः दहरोऽस्मिन्नन्तराकाशः’ (छा. उ. ८ । १ । २) इत्यत्र । ‘सर्व एत आत्मानो व्युच्चरन्तिइति चोपाधिमतामात्मनामन्यतो व्युच्चरणमामनन्तः परमात्मानमेव कारणत्वेनामनन्तीति गम्यतेप्राणनिराकरणस्यापि सुषुप्तपुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपदेशोऽभ्युच्चयः ॥ १८ ॥

जीवलिङ्गेन ब्रह्मैव लक्ष्यत इत्युक्तम् । इदानीं तल्लिङ्गेन जीवोक्तिद्वारा ब्रह्म ग्राह्यमित्याह

अन्यार्थमिति ।

जीवपरामर्शस्य जीवाधिकरणब्रह्मज्ञानार्थत्वे प्रश्नमाह

क्वैष इति ।

हे बालाके, एतच्छयनं विशेषज्ञानाभावरूपं यथा स्यात्तथैष पुरुषः क्वाशयिष्ट । कस्मिन्नधिकरणे शयनं कृतवानित्यर्थः ।

एकीभावाश्रयज्ञानार्थं पृच्छति

क्व वेति ।

एतद्भवनमेकीभावरूपं यथा स्यात्तथा एष पुरुषः क्वाभूत्सुप्तः । केनैक्यं प्राप्नोतीति यावत् ।

उत्थानापादानं पृच्छति

कुत इति ।

एतदागमनमैक्यभ्रंशरूपं यथा स्यात्तथा पुरुषः कुत आगत इत्यर्थः ।

प्रश्नमुक्त्वा व्याख्यानमाह

प्रतिवचनमिति ।

शयनभवनयोराधार उत्थानापादानं च प्राणशब्दितं ब्रह्मैवेत्यर्थः ।

उत्तरे प्राणोक्तेः प्रश्नोऽपि प्राणविशय इत्यत आह

सुषुप्तिकाले चेति ।

जगद्धेतुत्व जीवैक्याभ्यां प्राणोऽत्र ब्रह्मेत्यर्थः ।

जीवोक्तेरन्यार्थत्वमुपसंहरति

तस्मादिति ।

निःसम्बोधता विशेषधीशून्यता । स्वच्छता विक्षेपमलशून्यता ।

भेदभ्रान्तिशून्यता स्वरूपैक्यमाह

उपाधीति ।

प्रश्नव्याख्यानयोर्ब्रह्मविषयत्वे शाखान्तरसंवादमाह

अपि चैवमेके शाखिन इति ।

ननु तत्राकाशः सुषुप्तिस्थानमुक्तं न ब्रह्मेत्यत आह

आकाशेति ।

उपाधिद्वारा प्रमात्रात्मजन्महेतुत्वाच्चाकाशो ब्रह्मेत्याह

सर्व इति ।

एवं जीवनिरासार्थकत्वेन सूत्रं व्याख्याय प्राणनिरासपरत्वेनापि व्याचष्टे

प्राणेति ।

अस्मिन्वाक्ये प्राणोपदेशं ब्रह्मज्ञानार्थं मन्यते जैमिनिः, उक्तप्रश्नव्याख्यानाभ्यां वाक्यस्य ब्रह्मपरत्वावगमात् । अपि चैके शाखिन एवमेव प्राणातिरिक्तं जीवात्मानमामनन्तः प्राणस्य वाक्यार्थत्वं वारयन्तीति सूत्रयोजना । अतिरिक्तजीवोपदेशः प्राणनिराकरणस्याप्यभ्युच्चयो हेत्वन्तरमिति भाष्यार्थः । तस्मादिदं वाक्यं ब्रह्मणि समन्वितमिति सिद्धम् ॥ १८ ॥