ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ॥ १७ ॥
अथ यदुक्तं वाक्यशेषगताज्जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च तयोरेवान्यतरस्येह ग्रहणं न्याय्यं परमेश्वरस्येति, तत्परिहर्तव्यम्अत्रोच्यतेपरिहृतं चैतत् नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्’ (ब्र. सू. १ । १ । ३१) इत्यत्रत्रिविधं ह्यत्रोपासनमेवं सति प्रसज्येतजीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति चैतन्न्याय्यम्उपक्रमोपसंहाराभ्यां हि ब्रह्मविषयत्वमस्य वाक्यस्यावगम्यतेतत्रोपक्रमस्य तावद्ब्रह्मविषयत्वं दर्शितम्उपसंहारस्यापि निरतिशयफलश्रवणाद्ब्रह्मविषयत्वं दृश्यते — ‘सर्वान्पाप्मनोऽपहत्य सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति एवं वेदइतिनन्वेवं सति प्रतर्दनवाक्यनिर्णयेनैवेदमपि वाक्यं निर्णीयेत निर्णीयते, ‘यस्य वैतत्कर्मइत्यस्य ब्रह्मविषयत्वेन तत्र अनिर्धारितत्वात्तस्मादत्र जीवमुख्यप्राणशङ्का पुनरुत्पद्यमाना निवर्त्यतेप्राणशब्दोऽपि ब्रह्मविषयो दृष्टः प्राणबन्धनं हि सोम्य मनः’ (छा. उ. ६ । ८ । २) इत्यत्रजीवलिङ्गमप्युपक्रमोपसंहारयोर्ब्रह्मविषयत्वादभेदाभिप्रायेण योजयितव्यम् ॥ १७ ॥

सिद्धान्तमुक्त्वा पूर्वपक्षबीजमनूद्य दूषयति

जीवमुख्यप्राणलिङ्गादिति ।

उक्तमेव स्मारयति

त्रिविधमिति ।

श्रैष्ठ्यं गुणाधिक्यम् , आधिपत्यं नियन्तृत्वम् । स्वाराज्यमनियम्यत्वमिति भेदः ।

'सम्भवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यते' इत्युक्तं चेत्पुनरुक्तिः स्यादिति शङ्कते

नन्वेवमिति ।

कर्मपदस्य रूढ्या पूर्वपक्षप्राप्तौ तन्निरासार्थमस्यारम्भो युक्त इत्याह

नेत्यादिना ।

प्राणशब्दजीवलिङ्गयोर्गतिमाह

प्राणशब्दोऽपीति ।

मनो जीवः ॥ १७ ॥