ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
जगद्वाचित्वात् ॥ १६ ॥
परमेश्वर एवायमेतेषां पुरुषाणां कर्ता स्यात्कस्मात् ? उपक्रमसामर्थ्यात्इह हि बालाकिरजातशत्रुणा सहब्रह्म ते ब्रवाणिइति संवदितुमुपचक्रमे कतिचिदादित्याद्यधिकरणान्पुरुषानमुख्यब्रह्मदृष्टिभाज उक्त्वा तूष्णीं बभूवतमजातशत्रुःमृषा वै खलु मा संवदिष्ठा ब्रह्म ते ब्रवाणिइत्यमुख्यब्रह्मवादितयापोद्य, तत्कर्तारमन्यं वेदितव्यतयोपचिक्षेपयदि सोऽप्यमुख्यब्रह्मदृष्टिभाक्स्यात् , उपक्रमो बाध्येततस्मात्परमेश्वर एवायं भवितुमर्हतिकर्तृत्वं चैतेषां पुरुषाणां परमेश्वरादन्यस्य स्वातन्त्र्येणावकल्पते । ‘यस्य वैतत्कर्मइत्यपि नायं परिस्पन्दलक्षणस्य धर्माधर्मलक्षणस्य वा कर्मणो निर्देशः, तयोरन्यतरस्याप्यप्रकृतत्वात् , असंशब्दितत्वाच्चनापि पुरुषाणामयं निर्देशः, ‘एतेषां पुरुषाणां कर्ताइत्येव तेषां निर्दिष्टत्वात् , लिङ्गवचनविगानाच्चनापि पुरुषविषयस्य करोत्यर्थस्य क्रियाफलस्य वायं निर्देशः, कर्तृशब्देनैव तयोरुपात्तत्वात्पारिशेष्यात्प्रत्यक्षसन्निहितं जगत्सर्वनाम्नैतच्छब्देन निर्दिश्यतेक्रियत इति तदेव जगत्कर्मननु जगदप्यप्रकृतमसंशब्दितं सत्यमेतत्तथाप्यसति विशेषोपादाने साधारणेनार्थेन सन्निधानेन सन्निहितवस्तुमात्रस्यायं निर्देश इति गम्यते, विशिष्टस्य कस्यचित् , विशेषसन्निधानाभावात्पूर्वत्र जगदेकदेशभूतानां पुरुषाणां विशेषोपादानादविशेषितं जगदेवेहोपादीयत इति गम्यतेएतदुक्तं भवति एतेषां पुरुषाणां जगदेकदेशभूतानां कर्ताकिमनेन विशेषेण ? — यस्य कृत्स्नमेव जगदविशेषितं कर्मेति वाशब्द एकदेशावच्छिन्नकर्तृत्वव्यावृत्त्यर्थःये बालाकिना ब्रह्मत्वाभिमताः पुरुषाः कीर्तिताः, तेषामब्रह्मत्वख्यापनाय विशेषोपादानम्एवं ब्राह्मणपरिव्राजकन्यायेन सामान्यविशेषाभ्यां जगतः कर्ता वेदितव्यतयोपदिश्यतेपरमेश्वरश्च सर्वजगतः कर्ता सर्ववेदान्तेष्ववधारितः ॥ १६ ॥

स च बालाकिर्ब्रह्मत्वभ्रान्त्या व्यष्टिलिङ्गरूपान्पुरुषानुक्त्वा राज्ञा निरस्तस्तूष्णीं स्थितः । त्वदुक्तं ब्रह्म मृषेत्युक्त्वा राज्ञोच्यमानं ब्रह्मैवेति वक्तव्यमन्यथाराज्ञोऽपि मृषावादित्वप्रसङ्गादित्याह

यदि सोऽपीति ।

वेदितव्योऽपीत्यर्थः ।

मुख्यं पुरुषकर्तृत्वं ब्रह्मण एव लिङ्गम् , प्राणजीवयोस्तन्नियम्यत्वेनास्वातन्त्र्यादित्याह

कर्तृत्वं चेति ।

यदुक्तं चलनादृष्टयोर्वाचकः कर्मशब्दः प्राणजीवयोरुपस्थापक इति, तन्नेत्याह

यस्येति ।

अनेकार्थकाच्छब्दादन्यतरार्थस्य प्रकरणादुपपदाद्वा ग्रहणं न्याय्यम् । अत्र प्रकरणोपपदयोरसत्त्वात्कस्य ग्रहणमिति संशये पुरुषकर्तृपदसांनिध्यात्क्रियत इति योगाज्जगद्ग्रहणमित्यर्थः ।

एतत्कर्मेतिप्रकृतपरामर्शात्पुरुषाः पूर्वोक्तः कर्मशब्देन निर्दिश्यन्तामित्यत आह

नापीति ।

पौनरुक्त्यातात्पुरुषाणां नपुंसकैकवचनेन परामर्शायोगाच्चेत्यर्थः ।

ननु पुरुषोत्पादकस्य कर्तुर्व्यापारः करोत्यर्थमुत्पादनं तस्यफलं पुरुषजन्म तदन्यतरवाची कर्मशब्दोऽस्त्वित्यत आह

नापीति ।

कर्तृशब्देनेति ।

क्रियाफलाभ्यां विना कर्तृत्वायोगात्कर्तृशब्देनैव तयोर्ग्रहणमित्यर्थः ।

जगतोऽपि प्रकरणोपपदे न स्त इत्युक्तमङ्गीकरोति

सत्यमिति ।

प्रकरणादिकं हि सर्वनाम्नः सङ्कोचकम् , तस्मिन्नसति सामान्येन बुद्धिस्थं सर्वमेव गृह्यते । अत्र च सङ्कोचकासत्त्वात्सर्वार्थकेन सर्वनाम्ना बुद्धिस्थस्य कार्यमात्रस्य कर्मशब्दो वाचक इत्याह

तथापीति ।

किञ्च जगदेकदेशोक्त्या जगत्प्रकृतमित्याह

पूर्वत्रेति ।

जगद्ग्रहे पुरुषाणामपि ग्रहात्पृथगुक्तिर्व्यर्थेत्यत आह

एतदुक्तमिति ।

स वेदितव्य इति सम्बन्धः । पुरुषमात्रनिरूपितं कर्तृत्वमिति भ्रान्तिनिरासार्थो वाशब्दः ।

ब्राह्मणा भोजयितव्याः परिव्राजकाश्चेत्यत्र यथा ब्राह्मणशब्दः परिव्राजकान्यविषयः तथात्र कर्मशब्दः पुरुषान्यजगद्वाचीत्याह

एवमिति ।

अस्तु जगत्कर्ता वेदितव्यः, परमेश्वरस्य किमायातमित्यत आह

परमेश्वरेति ॥ १६ ॥