सिद्धान्तमाह
अवस्थितेरिति ।
अत्यन्ताभेदज्ञापनार्थं जीवमुपक्रम्य द्रष्टव्यत्वादयो ब्रह्मधर्मा उक्ता इत्यर्थः । एतेन जीवलिङ्गानां ब्रह्मपरत्वकथनार्थमिदमधिकरणं न भवति, प्रतर्दनाधिकरणे कथितत्वात् । नापि जीवानुवादेन ब्रह्मप्रतिपादनार्थम् , 'सुषुप्त्युत्क्रान्त्योः' इत्यत्र गतत्वात् । अतो व्यर्थमिदमधिकरणमिति निरस्तम् । जीवोद्देशेन ब्रह्मत्वप्रतिपादने भेदोऽप्यावश्यक इति भेदाभेदशङ्काप्राप्तौ कल्पितभेदेनोद्देश्यत्वादिकं स्वतोऽत्यन्ताभेद इति ज्ञापनार्थमस्यारम्भात् । ज्ञापने चात्र लिङ्गमात्मशब्देनोपक्रान्तस्य जीवस्य धर्मिणो ब्रह्मणो धर्म्यन्तरस्य ग्रहणं विनैव ब्रह्मधर्मकथनं भेदाभेदे धर्मिद्वयग्रहः स्यादिति मन्तव्यम् । धीरः सर्वज्ञः ।
सर्वाणि रूपाणि कार्याणि विचित्य सृष्ट्वा तेषां नामानि च कृत्वा तेषु बुद्ध्यादिषु प्रविश्याभिवदनादिकं कुर्वन् यो वर्तते तद्विद्वानिहैवामृतो भवतीति मन्त्रोऽपि जीवपरयोरैक्यं दर्शयतीत्याह
मन्त्रेति ।
जीवस्य ब्रह्मविकारत्वान्नैक्यमित्यत आह
नच तेज इति ।
मतत्रयं विभज्य दर्शयति
काशेत्यादिना ।
कियानपीति ।
अभेदवद्भेदोऽपीत्यर्थः ।
तत्रान्त्यस्य मतस्योपादेयत्वमाह
तत्र काशेति ।
सोऽयं देवदत्त इतिवत्तत्त्वमस्यादिवाक्येभ्यः परापरयोरत्यन्ताभेदः प्रतिपादयितुमिष्टोऽर्थः, तदनुसारित्वादित्यर्थः,
ज्ञानान्मुक्तिश्रुत्यन्यथानुपपत्त्याप्ययमेव पक्ष आदेय इत्याह
एवं चेति ।
अत्यन्ताभेदे सतीत्यर्थः । कल्पितस्य भेदस्य ज्ञानान्निवृत्तिः सम्भवति न सत्यस्येत्यपि द्रष्टव्यम् ।
यदुक्तं नदीदृष्टान्तात्संसारः स्वाभाविक इति, तन्नेत्याह
अतश्चेति ।
अनामरूपब्रह्मत्वाज्जीवस्येत्यर्थः ।
उत्पत्तिश्रुत्या जीवस्य ब्रह्मणा भेदाभेदावित्यत आह
अत एवेति ।
उत्पत्तेः स्वाभाविकत्वे मुक्त्ययोगादेवेत्यर्थः ।