ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥
यदप्युक्तं प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन दर्शयन्विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयतीति, तत्रापीयमेव त्रिसूत्री योजयितव्या । ‘प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः’ — इदमत्र प्रतिज्ञातम् — ‘आत्मनि विदिते सर्वमिदं विदितं भवतिइदꣳ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) इति ; उपपादितं सर्वस्य नामरूपकर्मप्रपञ्चस्यैकप्रसवत्वादेकप्रलयत्वाच्च दुन्दुभ्यादिदृष्टान्तैश्च कार्यकारणयोरव्यतिरेकप्रतिपादनात्; तस्या एव प्रतिज्ञायाः सिद्धिं सूचयत्येतल्लिङ्गम् , यन्महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन कथितम् इत्याश्मरथ्य आचार्यो मन्यतेअभेदे हि सत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातमवकल्पत इति । ‘उत्क्रमिष्यत एवंभावादित्यौडुलोमिः’ — उत्क्रमिष्यतो विज्ञानात्मनो ज्ञानध्यानादिसामर्थ्यात्सम्प्रसन्नस्य परेणात्मनैक्यसम्भवादिदमभेदाभिधानमित्यौडुलोमिराचार्यो मन्यते । ‘अवस्थितेरिति काशकृत्स्नः’ — अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदाभिधानमिति काशकृत्स्न आचार्यो मन्यतेनूच्छेदाभिधानमेतत्एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति प्रेत्य संज्ञास्ति’ (बृ. उ. २ । ४ । १२) इतिकथमेतदभेदाभिधानम् ? नैष दोषःविशेषविज्ञानविनाशाभिप्रायमेतद्विनाशाभिधानम् , नात्मोच्छेदाभिप्रायम् । ‘अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तिइति पर्यनुयुज्य, स्वयमेव श्रुत्या अर्थान्तरस्य दर्शितत्वात् — ‘ वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा मात्राऽसंसर्गस्त्वस्य भवतिइतिएतदुक्तं भवतिकूटस्थनित्य एवायं विज्ञानघन आत्मा; नास्योच्छेदप्रसङ्गोऽस्तिमात्राभिस्त्वस्य भूतेन्द्रियलक्षणाभिरविद्याकृताभिरसंसर्गो विद्यया भवतिसंसर्गाभावे तत्कृतस्य विशेषविज्ञानस्याभावात् प्रेत्य संज्ञास्तिइत्युक्तमितियदप्युक्तम् — ‘विज्ञातारमरे केन विजानीयात्इति कर्तृवचनेन शब्देनोपसंहाराद्विज्ञानात्मन एवेदं द्रष्टव्यत्वमिति, तदपि काशकृत्स्नीयेनैव दर्शनेन परिहरणीयम्अपि यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. उ. २ । ४ । १५) इत्यारभ्याविद्याविषये तस्यैव दर्शनादिलक्षणं विशेषविज्ञानं प्रपञ्च्य, ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्इत्यादिना विद्याविषये तस्यैव दर्शनादिलक्षणस्य विशेषविज्ञानस्याभावमभिदधातिपुनश्च विषयाभावेऽप्यात्मानं विजानीयादित्याशङ्क्य, ‘विज्ञातारमरे केन विजानीयात्इत्याहततश्च विशेषविज्ञानाभावोपपादनपरत्वाद्वाक्यस्य विज्ञानधातुरेव केवलः सन्भूतपूर्वगत्या कर्तृवचनेन तृचा निर्दिष्ट इति गम्यतेदर्शितं तु पुरस्तात्काशकृत्स्नीयस्य पक्षस्य श्रुतिमत्त्वम्अतश्च विज्ञानात्मपरमात्मनोरविद्याप्रत्युपस्थापितनामरूपरचितदेहाद्युपाधिनिमित्तो भेदः, पारमार्थिक इत्येषोऽर्थः सर्वैर्वेदान्तवादिभिरभ्युपगन्तव्यःसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २)ब्रह्मैवेदं सर्वम्इदꣳ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) नान्यदतोऽस्ति द्रष्टृ’ (बृ. उ. ३ । ८ । ११) इत्येवंरूपाभ्यः श्रुतिभ्यःस्मृतिभ्यश्चवासुदेवः सर्वमिति’ (भ. गी. ७ । १९) क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ (भ. गी. १३ । २) समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्’ (भ. गी. १३ । २७) इत्येवंरूपाभ्यःभेददर्शनापवादाच्चअन्योऽसावन्योऽहमस्मीति वेद यथा पशुः’ (बृ. उ. १ । ४ । १०) मृत्योः मृत्युमाप्नोति इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) इत्येवंजातीयकात् वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५) इति आत्मनि सर्वविक्रियाप्रतिषेधात्अन्यथा मुमुक्षूणां निरपवादविज्ञानानुपपत्तेः, सुनिश्चितार्थत्वानुपपत्तेश्चनिरपवादं हि विज्ञानं सर्वाकाङ्क्षानिवर्तकमात्मविषयमिष्यतेवेदान्तविज्ञानसुनिश्चितार्थाः’ (मु. उ. ३ । २ । ६) इति श्रुतेःतत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इति स्थितप्रज्ञलक्षणस्मृतेश्चस्थिते क्षेत्रज्ञपरमात्मैकत्वविषये सम्यग्दर्शने क्षेत्रज्ञः परमात्मेति नाममात्रभेदात्क्षेत्रज्ञोऽयं परमात्मनो भिन्नः परमात्मायं क्षेत्रज्ञाद्भिन्न इत्येवंजातीयक आत्मभेदविषयो निर्बन्धो निरर्थकःएको ह्ययमात्मा नाममात्रभेदेन बहुधाभिधीयत इति हि सत्यं ज्ञानमनन्तं ब्रह्मयो वेद निहितं गुहायाम्’ (तै. उ. २ । १ । १) इति काञ्चिदेवैकां गुहामधिकृत्यैतदुक्तम् ब्रह्मणोऽन्यो गुहायां निहितोऽस्ति, तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) इति स्रष्टुरेव प्रवेशश्रवणात्ये तु निर्बन्धं कुर्वन्ति, ते वेदान्तार्थं बाधमानाः श्रेयोद्वारं सम्यग्दर्शनमेव बाधन्तेकृतकमनित्यं मोक्षं कल्पयन्तिन्यायेन सङ्गच्छन्त इति ॥ २२ ॥

अत्र पूर्वपक्षे बीजत्रयमुक्तं जीवेनोपक्रमः परस्यैव समुत्थानश्रुत्या जीवाभेदाभिधानं विज्ञातृशब्दश्चेति । तत्राद्यं बीजं त्रिसूत्र्या निरस्तम् । सम्प्रति द्वितीयमनूद्य तथैव निराचष्टे

यदप्युक्तमित्यादिना ।

आत्मज्ञानात्सर्वविज्ञानं यत्प्रतिज्ञातं तत्र हेतुः 'इदं सर्वं यदयमात्मा' इत्यव्यतिरेक उक्तस्तस्य प्रतिपादनात्तदेव प्रतिज्ञातमुपपादितमिति योजना । एकस्मात्प्रसवो यस्य, एकस्मिन्प्रलयो यस्य तद्भावादित्यर्थः । समुत्थानमभेदाभिधानमिति यावत् ।

जन्मनाशावुक्तौ नाभेद इत्याक्षिप्य परिहरति

नन्वित्यादिना ।

मृतस्य संज्ञा नास्तीति वाक्येऽत्रैव मां मोहितवानसि ज्ञानरूपस्यात्मनो ज्ञानाभावे नाशप्रसङ्गादिति मैत्रेय्योक्तो मुनिराह

न वा अरे इति ।

मोहं मोहकरं वाक्यम् , अविनाशी नाशहेतुशून्यः, अत उच्छित्तिधर्मा नाशवान्न भवतीत्यनुच्छित्तिधर्मेत्यर्थः ।

तृतीयं बीजं तृतीयेन मतेनैव निरसनीयमित्याह

यदपीत्यादिना ।

आद्यमतद्वयेऽपि सत्यभेदाङ्गीकारात्केनेत्याक्षेपो न युक्तः । काशकृत्स्नस्य मते त्वत्यन्ताभेदाद्विज्ञानस्य कारकाभावात्स युक्त इति श्रुत्यनुसारित्वात्तन्मते मनःकल्पितं विज्ञातृत्वं मुक्ते ब्रह्मात्मनि भूतपूर्वगत्योक्तमिति परिहरणीयमित्यर्थः ।

किञ्च पूर्वापरपर्यालोचनया वाक्यस्य मुक्तात्मपरत्वावगमाद्विज्ञातृत्वं कल्पितमेवानूद्यत इति न तल्लिङ्गेन जीवपरत्वमित्याह

अपि चेति ।

आर्षेषु पक्षेषु काशकृत्स्नपक्षस्यैवादेयत्वे किं बीजम् , तदाह

दर्शितमिति ।

अतश्चश्रुतिमत्त्वाच्च ।

पुनरपि श्रुतिस्मृतिमत्त्वमाह

सदेवेत्यादिना ।

हेतूनां भेदो न पारमार्थिक इति प्रतिज्ञया सम्बन्धः ।

भेदाभेदपक्षे जीवस्य जन्मादिविकारवत्त्वात्तन्निषेधो न स्यादित्याह

स वा एष इति ।

भेदस्य सत्यत्वे तत्प्रमया बाधादहं ब्रह्मेति निर्बाधं ज्ञानं न स्यादित्याह

अन्यथाचेति ।

अभेदस्यापि सत्त्वात्प्रमेत्याशङ्क्य भेदाभेदयोर्विरोधात्संशयः स्यादित्याह

सुनिश्चितेति ।

मास्तु निर्बाधज्ञानमित्यत आह

निरपवादमिति ।

अहं ब्रह्मेत्यबाधितनिश्चयस्यैव शोकादिनिवर्तकत्वमित्यत्र स्मृतिमप्याह

स्थितेति ।

आत्यन्तिकैकत्वे हि प्रज्ञा प्रतिष्ठिता भवति न भेदाभेदयोरिति भावः ।

ननु जीवपरमात्मानौ स्वतो भिन्नौ, अपर्यायनामवत्त्वात् , स्तम्भकुम्भवदित्यत आह

स्थिते चेति ।

कथं तर्ह्यपर्यायनामभेद इत्याशङ्क्य जीवत्वेश्वरत्वादिनिमित्तभेदादित्याह

एको हीति ।

किञ्चाविद्यातज्जबुद्धिरूपायां गुहायां स्थितो जीवो भवति, तस्यामेव ब्रह्म निहितमिति श्रुतेः ।

स्थानैक्याज्जीव एव ब्रह्मेत्याह

नहीति ।

काञ्चिदेवैकामिति ।

जीवस्थानादन्यामित्यर्थः ।

नन्वेकस्यां गुहायां द्वौ किं न स्यातामित्यत आह

नचेति ।

स्रष्टुरेव प्रवेशेन जीवत्वान्न भेदः । नन्वत्यन्ताभेदे जीवस्य स्पष्टभानाद्ब्रह्मापि स्पष्टं स्यादतः स्पष्टत्वास्पष्टत्वाभ्यां तयोर्भेद इति चेत् । न । दर्पणे प्रतिबिम्बस्य स्फुटत्वेऽपि बिम्बस्यास्फुटत्ववत्कल्पितभेदेन विरुद्धधर्मव्यवस्थोपपत्तेः ।

सत्यभेदे येषामाग्रहस्तेषां दोषमाह

ये त्विति ।

सोऽयमितिवत्तत्त्वमसीत्यकार्यकारणद्रव्यसामानाधिकरण्यादत्यन्ताभेदो वेदान्तार्थस्तद्बोध एव निःश्रेयससाधनं तस्य बाधो न युक्त इत्यर्थः । किञ्च भेदभेदवादिनो ज्ञानकर्मभ्यां कृतकं मोक्षं कल्पयन्ति, तत्रानित्यत्वं दोषः । यत्तु कृतकमपि नित्यमिति, तच्च 'यत्क्रियासाध्यं तदनित्यम्' इति न्यायबाधितम् । अस्माकं त्वनर्थध्वंसस्य ज्ञानसाध्यत्वान्नित्यमुक्तात्ममात्रत्वाच्च नानित्यत्वदोष इति भावः । तस्मान्मैत्रेयीब्राह्मणं प्रत्यग्ब्रह्मणि समन्वितमिति सिद्धम् ॥ २२ ॥