ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥
यथाभ्युदयहेतुत्वाद्धर्मो जिज्ञास्यः, एवं निःश्रेयसहेतुत्वाद्ब्रह्म जिज्ञास्यमित्युक्तम् । ब्रह्म च ‘जन्माद्यस्य यतः’ (ब्र. सू. १ । १ । २) इति लक्षितम् । तच्च लक्षणं घटरुचकादीनां मृत्सुवर्णादिवत्प्रकृतित्वे कुलालसुवर्णकारादिवन्निमित्तत्वे च समानमित्यतो भवति विमर्शः — किमात्मकं पुनर्ब्रह्मणः कारणत्वं स्यादिति । तत्र निमित्तकारणमेव तावत्केवलं स्यादिति प्रतिभाति । कस्मात् ? ईक्षापूर्वककर्तृत्वश्रवणात् — ईक्षापूर्वकं हि ब्रह्मणः कर्तृत्वमवगम्यते — ‘स ईक्षाञ्चक्रे’ (प्र. उ. ६ । ३) ‘स प्राणमसृजत’ (प्र. उ. ६ । ४) इत्यादिश्रुतिभ्यः । ईक्षापूर्वकं च कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु दृष्टम् । अनेककारकपूर्विका च क्रियाफलसिद्धिर्लोके दृष्टा । स च न्याय आदिकर्तर्यपि युक्तः सङ्क्रमयितुम् । ईश्वरत्वप्रसिद्धेश्च — ईश्वराणां हि राजवैवस्वतादीनां निमित्तकारणत्वमेव केवलं प्रतीयते । तद्वत्परमेश्वरस्यापि निमित्तकारणत्वमेव युक्तं प्रतिपत्तुम् । कार्यं चेदं जगत्सावयवमचेतनमशुद्धं च दृश्यते । कारणेनापि तस्य तादृशेनैव भवितव्यम् , कार्यकारणयोः सारूप्यदर्शनात् । ब्रह्म च नैवंलक्षणमवगम्यते — ‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’ (श्वे. उ. ६ । १९) इत्यादिश्रुतिभ्यः । पारिशेष्याद्ब्रह्मणोऽन्यदुपादानकारणमशुद्ध्यादिगुणकं स्मृतिप्रसिद्धमभ्युपगन्तव्यम् , ब्रह्मकारणत्वश्रुतेर्निमित्तत्वमात्रे पर्यवसानादित्येवं प्राप्ते ब्रूमः —

प्रकृतिश्चेति । लक्षणसूत्रेणास्य सङ्गतिं वक्तुं वृत्तं स्मारयति

यथेति ।

तत्र हि ब्रह्मणो बुद्धिस्थत्वार्थं सामान्यतो जगत्कारणत्वं लक्षणमुक्तम् , तेन बुद्धिस्थे ब्रह्मणि कृत्स्नवेदान्तसमन्वयं प्रतिपाद्य तत्कारणत्वं किं कर्तृत्वमात्रमुत प्रकृतित्वकर्तृत्वोभयरूपमिति । विशेषजिज्ञासायमिदमारभ्यते । तथाच सामान्यज्ञानस्य विशेषचिन्ताहेतुत्वात्तेनास्य सङ्गतिः । यद्यपि तदानन्तर्यमस्य युक्तं तथापि निश्चिततात्पर्यैर्वेदान्तैः कर्तृमात्रेश्वरमतनिरासः सुकर इति समन्वयान्ते इदं लिखितम् । लक्षणसूत्रस्याध्यायादिसङ्गतत्वादस्याप्यध्यायादिसङ्गतिः ।

पूर्वत्र सर्वविज्ञानप्रतिज्ञाया मुख्यत्वाद्वाक्यस्य जीवपरत्वं निरस्तम् , तदयुक्तम् , कर्त्रुपादनयोर्भेदेन प्रतिज्ञाया गौणत्वादित्याक्षिपति

तत्र निमित्तेत्यादिना ।

पूर्वोत्तरपक्षयोर्द्वैताद्वैतसिद्धिः फलम्

ईक्षापूर्वकेति ।

ईक्षणश्रुत्या कर्तृत्वं निश्चितम् , तथा च ब्रह्म न प्रकृतिः, कर्तृत्वात् , यो यत्कर्ता स तत्प्रकृतिर्न, यथा घटकर्ता कुलाल इत्यर्थः ।

जगत्भिन्नकर्त्रुपादानकम् , कार्यत्वात्घटवदित्याह

अनेकेति ।

ब्रह्म नोपादानम् , ईश्वरत्वात् , राजादिवदित्याह

ईश्वरत्वेति ।

जगन्न ब्रह्मप्रकृतिकम् , तद्विलक्षणत्वात् , यदित्थं तत्तथा कुलालविलक्षणघटवदित्याह

कार्यं चेति ।

निष्कलं निरवयवम् , निष्क्रियमचलम् , शान्तमपरिणामि, निरवद्यं निरस्तसमस्तदोषम् । तत्र हेतुः

निरञ्जनमिति ।

अञ्जनतुल्यतमःशून्यमित्यर्थः ।

तर्हि जगतः सदृशोपादानं किमित्यत आह

पारिशेष्यादिति ।