ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥
प्रकृतिश्चोपादानकारणं ब्रह्माभ्युपगन्तव्यम् , निमित्तकारणं केवलं निमित्तकारणमेवकस्मात् ? प्रतिज्ञादृष्टान्तानुपरोधात्एवं हि प्रतिज्ञादृष्टान्तौ श्रौतौ नोपुरुध्येतेप्रतिज्ञा तावत्उत तमादेशमप्राक्ष्यो येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ (छा. उ. ६ । १ । ३) इतितत्र चैकेन विज्ञातेन सर्वमन्यदविज्ञातमपि विज्ञातं भवतीति प्रतीयतेतच्चोपादानकारणविज्ञाने सर्वविज्ञानं सम्भवति, उपादानकारणाव्यतिरेकात्कार्यस्यनिमित्तकारणाव्यतिरेकस्तु कार्यस्य नास्ति, लोके तक्ष्णः प्रासादव्यतिरेकदर्शनात्दृष्टान्तोऽपि यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) इत्युपादानकारणगोचर एवाम्नायतेतथा एकेन लोहमणिना सर्वं लोहमयं विज्ञातꣳ स्यात्’ (छा. उ. ६ । १ । ५) एकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातꣳ स्यात्’ (छा. उ. ६ । १ । ६) इति तथान्यत्रापि कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति प्रतिज्ञा; यथा पृथिव्यामोषधयः सम्भवन्ति’ (मु. उ. १ । १ । ७) इति दृष्टान्तःतथा आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदꣳ सर्वं विदितम्’ (बृ. उ. ४ । ५ । ६) इति प्रतिज्ञा; यथा दुन्दुभेर्हन्यमानस्य बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः’ (बृ. उ. ४ । ५ । ८) इति दृष्टान्तःएवं यथासम्भवं प्रतिवेदान्तं प्रतिज्ञादृष्टान्तौ प्रकृतित्वसाधनौ प्रत्येतव्यौयत इतीयं पञ्चमीयतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इत्यत्र जनिकर्तुः प्रकृतिः’ (पा. सू. १ । ४ । ३०) इति विशेषस्मरणात्प्रकृतिलक्षण एवापादाने द्रष्टव्यानिमित्तत्वं त्वधिष्ठात्रन्तराभावादधिगन्तव्यम्यथा हि लोके मृत्सुवर्णादिकमुपादानकारणं कुलालसुवर्णकारादीनधिष्ठातॄनपेक्ष्य प्रवर्तते, नैवं ब्रह्मण उपादानकारणस्य सतोऽन्योऽधिष्ठातापेक्ष्योऽस्ति, प्रागुत्पत्तेःएकमेवाद्वितीयम्इत्यवधारणात्अधिष्ठात्रन्तराभावोऽपि प्रतिज्ञादृष्टान्तानुपरोधादेवोदितो वेदितव्यःअधिष्ठातरि ह्युपादानादन्यस्मिन्नभ्युपगम्यमाने पुनरप्येकविज्ञानेन सर्वविज्ञानस्यासम्भवात्प्रतिज्ञादृष्टान्तोपरोध एव स्यात्तस्मादधिष्ठात्रन्तराभावादात्मनः कर्तृत्वमुपादानान्तराभावाच्च प्रकृतित्वम् ॥ २३ ॥

ब्रह्मनिषेधे प्रधानं परिशिष्यत इत्यभिमन्यमानः सिद्धान्तयति

प्रकृतिश्चेति ।

चकारान्निमित्तत्वग्रहः ।

एवमुभयरूपे कारणत्वे तयोरबाधो भवतीत्याह

एवमिति ।

कर्तृज्ञानादपि सर्वकार्यज्ञानं किं न स्यादित्यत आह

निमित्तकारणाव्यतिरेकस्त्विति ।

मृदादीनामुपादानानां दृष्टान्तत्वाद्दार्ष्टान्तिकस्य ब्रह्मण उपादानत्वं वाच्यमित्याह

दृष्टान्तोऽपीति ।

वागारभ्यं नाममात्रं विकारो न वस्तुतोऽस्तीति सत्यकारणज्ञानाद्विकारज्ञानं युक्तमित्यर्थः ।

गतिसामान्यार्थं मुण्डकेऽपि प्रतिज्ञादृष्टान्तावाह

तथान्यत्रापीति ।

बृहदारण्यकेऽपि तावाह

तथात्मनीति ।

घटः स्फुरतीत्यनुगतस्फुरणं प्रकृतिस्तदतिरेकेण विकारा न सन्तीति सोऽयमर्थो यथा स्फुटः तथा दृष्टान्तः स उच्यते । हन्यमानदुन्दुभिजन्याच्छब्दसामान्याद्बाह्यान् विशेषशब्दान् सामान्यग्रहणातिरिकेण पृथग्ग्रहीतुं श्रोता न शक्नुयात् । सामान्यस्य तु ग्रहणेन दुन्दुभ्याघातजशब्दविशेषो गृहीतो भवति, तस्य वा ग्रहणेन तदवान्तरविशेषशब्दो गृहीतो भवति । अतः शब्दसामान्यग्रहणग्राह्या विशेषाः सामान्ये कल्पिताः, तद्वदात्मभानभास्या घटादय आत्मनि कल्पिता इत्यर्थः ।

प्रतिज्ञादृष्टान्तानुपरोधाल्लिङ्गाद्ब्रह्मणः प्रकृतित्वमुक्त्वा पञ्चमीश्रुत्याप्याह

यत इति ।

'यतो वा' इत्यत्र श्रुतौ यत इति पञ्चमी प्रकृतौ द्रष्टव्येत्यन्वयः । जनिकर्तुर्जायमानस्य कार्यस्य प्रकृतिरपादानसंज्ञिका भवतीति सूत्रार्थः । संज्ञायाः फलं 'अपादाने पञ्चमी' इति सूत्रात्प्रकृतौ पञ्चमीलाभः ।

एवं ब्रह्मणः प्रकृतित्वं प्रसाध्य कर्तृत्वं साधयति

निमित्तत्वमिति ।

ब्रह्म स्वातिरिक्तकर्त्रधिष्ठेयम् , प्रकृतित्वात् , मृदादिवदित्याद्यनुमानानामागमबाधकमाह

प्रागुत्पत्तेरिति ।

जगत्कर्तृ ब्रह्मैवेत्यत्रापि सूत्रं योजयति

अधिष्ठात्रन्तरेति ॥ २३ ॥