अत्र पूर्वपक्षे बीजत्रयमुक्तं जीवेनोपक्रमः परस्यैव समुत्थानश्रुत्या जीवाभेदाभिधानं विज्ञातृशब्दश्चेति । तत्राद्यं बीजं त्रिसूत्र्या निरस्तम् । सम्प्रति द्वितीयमनूद्य तथैव निराचष्टे
यदप्युक्तमित्यादिना ।
आत्मज्ञानात्सर्वविज्ञानं यत्प्रतिज्ञातं तत्र हेतुः 'इदं सर्वं यदयमात्मा' इत्यव्यतिरेक उक्तस्तस्य प्रतिपादनात्तदेव प्रतिज्ञातमुपपादितमिति योजना । एकस्मात्प्रसवो यस्य, एकस्मिन्प्रलयो यस्य तद्भावादित्यर्थः । समुत्थानमभेदाभिधानमिति यावत् ।
जन्मनाशावुक्तौ नाभेद इत्याक्षिप्य परिहरति
नन्वित्यादिना ।
मृतस्य संज्ञा नास्तीति वाक्येऽत्रैव मां मोहितवानसि ज्ञानरूपस्यात्मनो ज्ञानाभावे नाशप्रसङ्गादिति मैत्रेय्योक्तो मुनिराह
न वा अरे इति ।
मोहं मोहकरं वाक्यम् , अविनाशी नाशहेतुशून्यः, अत उच्छित्तिधर्मा नाशवान्न भवतीत्यनुच्छित्तिधर्मेत्यर्थः ।
तृतीयं बीजं तृतीयेन मतेनैव निरसनीयमित्याह
यदपीत्यादिना ।
आद्यमतद्वयेऽपि सत्यभेदाङ्गीकारात्केनेत्याक्षेपो न युक्तः । काशकृत्स्नस्य मते त्वत्यन्ताभेदाद्विज्ञानस्य कारकाभावात्स युक्त इति श्रुत्यनुसारित्वात्तन्मते मनःकल्पितं विज्ञातृत्वं मुक्ते ब्रह्मात्मनि भूतपूर्वगत्योक्तमिति परिहरणीयमित्यर्थः ।
किञ्च पूर्वापरपर्यालोचनया वाक्यस्य मुक्तात्मपरत्वावगमाद्विज्ञातृत्वं कल्पितमेवानूद्यत इति न तल्लिङ्गेन जीवपरत्वमित्याह
अपि चेति ।
आर्षेषु पक्षेषु काशकृत्स्नपक्षस्यैवादेयत्वे किं बीजम् , तदाह
दर्शितमिति ।
अतश्चश्रुतिमत्त्वाच्च ।
पुनरपि श्रुतिस्मृतिमत्त्वमाह
सदेवेत्यादिना ।
हेतूनां भेदो न पारमार्थिक इति प्रतिज्ञया सम्बन्धः ।
भेदाभेदपक्षे जीवस्य जन्मादिविकारवत्त्वात्तन्निषेधो न स्यादित्याह
स वा एष इति ।
भेदस्य सत्यत्वे तत्प्रमया बाधादहं ब्रह्मेति निर्बाधं ज्ञानं न स्यादित्याह
अन्यथाचेति ।
अभेदस्यापि सत्त्वात्प्रमेत्याशङ्क्य भेदाभेदयोर्विरोधात्संशयः स्यादित्याह
सुनिश्चितेति ।
मास्तु निर्बाधज्ञानमित्यत आह
निरपवादमिति ।
अहं ब्रह्मेत्यबाधितनिश्चयस्यैव शोकादिनिवर्तकत्वमित्यत्र स्मृतिमप्याह
स्थितेति ।
आत्यन्तिकैकत्वे हि प्रज्ञा प्रतिष्ठिता भवति न भेदाभेदयोरिति भावः ।
ननु जीवपरमात्मानौ स्वतो भिन्नौ, अपर्यायनामवत्त्वात् , स्तम्भकुम्भवदित्यत आह
स्थिते चेति ।
कथं तर्ह्यपर्यायनामभेद इत्याशङ्क्य जीवत्वेश्वरत्वादिनिमित्तभेदादित्याह
एको हीति ।
किञ्चाविद्यातज्जबुद्धिरूपायां गुहायां स्थितो जीवो भवति, तस्यामेव ब्रह्म निहितमिति श्रुतेः ।
स्थानैक्याज्जीव एव ब्रह्मेत्याह
नहीति ।
काञ्चिदेवैकामिति ।
जीवस्थानादन्यामित्यर्थः ।
नन्वेकस्यां गुहायां द्वौ किं न स्यातामित्यत आह
नचेति ।
स्रष्टुरेव प्रवेशेन जीवत्वान्न भेदः । नन्वत्यन्ताभेदे जीवस्य स्पष्टभानाद्ब्रह्मापि स्पष्टं स्यादतः स्पष्टत्वास्पष्टत्वाभ्यां तयोर्भेद इति चेत् । न । दर्पणे प्रतिबिम्बस्य स्फुटत्वेऽपि बिम्बस्यास्फुटत्ववत्कल्पितभेदेन विरुद्धधर्मव्यवस्थोपपत्तेः ।
सत्यभेदे येषामाग्रहस्तेषां दोषमाह
ये त्विति ।
सोऽयमितिवत्तत्त्वमसीत्यकार्यकारणद्रव्यसामानाधिकरण्यादत्यन्ताभेदो वेदान्तार्थस्तद्बोध एव निःश्रेयससाधनं तस्य बाधो न युक्त इत्यर्थः । किञ्च भेदभेदवादिनो ज्ञानकर्मभ्यां कृतकं मोक्षं कल्पयन्ति, तत्रानित्यत्वं दोषः । यत्तु कृतकमपि नित्यमिति, तच्च 'यत्क्रियासाध्यं तदनित्यम्' इति न्यायबाधितम् । अस्माकं त्वनर्थध्वंसस्य ज्ञानसाध्यत्वान्नित्यमुक्तात्ममात्रत्वाच्च नानित्यत्वदोष इति भावः । तस्मान्मैत्रेयीब्राह्मणं प्रत्यग्ब्रह्मणि समन्वितमिति सिद्धम् ॥ २२ ॥