आत्मसम्बन्धिनी कृतिरात्मकृतिः । सम्बन्धश्चात्मनः कृतिं प्रति विषयत्वमाश्रयत्वं च । ननु कृतेराश्रयःसिद्धोभवति विषयस्तु साध्य इत्येकस्योभयं विरुद्धमित्याशङ्कते
कथं पुनरिति ।
यथा मृदः साध्यपरिणामाभेदेन कृतिविषयत्वं तद्वदात्मन इत्याह
परिणामादिति ।
आत्मानमिति ।
अविरोध इति शेषः ।
सिद्धस्यापि साध्यत्वे दृष्टान्तमाह
विकारात्मनेति ।
ननु ब्रह्मण आत्मानमिति द्वितीयया कार्यात्मना साध्यत्वश्रुत्यास्तु प्रकृतित्वं कर्ता त्वन्योऽस्त्वित्यत आह
स्वयमिति चेति ।
ब्रह्मणः कृतिकर्मत्वोपपादनार्थं परिणामादिति पदं व्याख्यायान्यथापि व्याचष्टे
पृथक्सूत्रमिति ।
मृद्घट इतिवद्ब्रह्म सच्च त्यच्चेति परिणामसामानाधिकरण्यश्रुतेर्ब्रह्मणः प्रकृतित्वमित्यर्थः । सत्प्रत्यक्षं भूतत्रयम् , त्यत्परोक्षं भूतद्वयम् , निरुक्तं वक्तुं शक्यं घटादि, अनिरुक्तं वक्तुमशक्यं कपोतरूपादिकं च ब्रह्मैवाभवदित्यर्थः । अत्र सूत्रे परिणामशब्दः कार्यमात्रपरः, नतु सत्यकार्यात्मकपरिणामपरः, 'तदनन्यत्वम्' इति विवर्तवादस्य वक्ष्यमाणत्वात् ॥ २६ ॥