ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
योनिश्च हि गीयते ॥ २७ ॥
इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्म योनिरित्यपि पठ्यते वेदान्तेषु — ‘कर्तारमीशं पुरुषं ब्रह्मयोनिम्’ (मु. उ. ३ । १ । ३) इति ‘यद्भूतयोनिं परिपश्यन्ति धीराः’ (मु. उ. १ । १ । ६) इति च । योनिशब्दश्च प्रकृतिवचनः समधिगतो लोके — ‘पृथिवी योनिरोषधिवनस्पतीनाम्’ इति । स्त्रीयोनेरप्यस्त्येवावयवद्वारेण गर्भं प्रत्युपादानकारणत्वम् । क्वचित्स्थानवचनोऽपि योनिशब्दो दृष्टः ‘योनिष्ट इन्द्र निषदे अकारि’ (ऋ. सं. १ । १०४ । १) इति । वाक्यशेषात्त्वत्र प्रकृतिवचनता परिगृह्यते — ‘यथोर्णनाभिः सृजते गृह्णते च’ (मु. उ. १ । १ । ७) इत्येवंजातीयकात् । तदेवं प्रकृतित्वं ब्रह्मणः प्रसिद्धम् । यत्पुनरिदमुक्तम् , ईक्षापूर्वकं कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु लोके दृष्टम् , नोपादानेष्वित्यादि; तत्प्रत्युच्यते — न लोकवदिह भवितव्यम् । न ह्ययमनुमानगम्योऽर्थः । शब्दगम्यत्वात्त्वस्यार्थस्य यथाशब्दमिह भवितव्यम् । शब्दश्चेक्षितुरीश्वरस्य प्रकृतित्वं प्रतिपादयतीत्यवोचाम । पुनश्चैतत्सर्वं विस्तरेण प्रतिवक्ष्यामः ॥ २७ ॥

योनिशब्दाच्च प्रकृतित्वमित्याह

योनिश्चेति ।

कर्तारं क्रियाशक्तिमन्तम् , ईशं नियन्तारम् , पुरुषं प्रत्यञ्चम् , ब्रह्म पूर्णम् , योनिं प्रकृतिम् , धीरा ध्यानेन पश्यन्तीत्यर्थः ।

नन्वनुपादानेऽपि स्त्रीयोनौ योनिशब्दो दृष्ट इत्यत आह

स्त्रीयोनेरिति ।

शोणितमवयवशब्दार्थः ।

योनिशब्दस्य स्थानमप्यर्थो भवति सोऽत्र भूतयोन्यादिशब्दैर्न ग्राह्यः, उर्णनाभ्यादिप्रकृतदृष्टान्तवाक्यशेषविरोधादित्याह

क्वचिदिति ।

हे इन्द्र, ते तव निषदे उपवेशनाय योनिः, स्थानं मया अकारि कृतमित्यर्थः ।

पूर्वपक्षोक्तानुमानानि अनूद्यागमबाधमाह

यत्पुनरित्यादिना ।

नन्वनुमानस्य श्रुत्यनपेक्षत्वान्न तया बाध इत्यत आह

नहीति ।

जगत्कर्ता पक्षः श्रुत्यैव सिद्ध्यति, या कृतिः सा शरीरजन्येति व्याप्तिविरोधेन नित्यकृतिमतोऽनुमानासम्भवात् । अतः श्रौतमीश्वरं पक्षीकृत्यानुपादानत्वसाधने भवत्येवोपजीव्यया प्रकृतित्वबोधकश्रुत्या बाध इत्यर्थः ।

यदुक्तं विलक्षणत्वाद्ब्रह्मणो न जगदुपादानत्वमिति, तत्राह

पुनश्चेति ।

'न विलक्षणत्वात्' इत्यारभ्येत्यर्थः । अत उभयरूपं कारणत्वं ब्रह्मणो लक्षणमिति सिद्धम् ॥ २७ ॥