ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८ ॥
‘ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) इत्यारभ्य प्रधानकारणवादः सूत्रैरेव पुनः पुनराशङ्क्य निराकृतः — तस्य हि पक्षस्योपोद्बलकानि कानिचिल्लिङ्गाभासानि वेदान्तेष्वापातेन मन्दमतीन्प्रति भान्तीति । स च कार्यकारणानन्यत्वाभ्युपगमात्प्रत्यासन्नो वेदान्तवादस्य देवलप्रभृतिभिश्च कैश्चिद्धर्मसूत्रकारैः स्वग्रन्थेष्वाश्रितः । तेन तत्प्रतिषेधे यत्नोऽतीव कृतः, नाण्वादिकारणवादप्रतिषेधे । तेऽपि तु ब्रह्मकारणवादपक्षस्य प्रतिपक्षत्वात्प्रतिषेद्धव्याः । तेषामप्युपोद्बलकं वैदिकं किञ्चिल्लिङ्गमापातेन मन्दमतीन्प्रति भायादिति । अतः प्रधानमल्लनिबर्हणन्यायेनातिदिशति — एतेन प्रधानकारणवादप्रतिषेधन्यायकलापेन सर्वेऽण्वादिकारणवादा अपि प्रतिषिद्धतया व्याख्याता वेदितव्याः । तेषामपि प्रधानवदशब्दत्वाच्छब्दविरोधित्वाच्चेति । व्याख्याता व्याख्याता इति पदाभ्यासोऽध्यायपरिसमाप्तिं द्योतयति ॥ २८ ॥

एतेन सर्वे व्याख्याताः । अस्यातिदेशाधिकरणस्य तात्पर्यं वक्तुं वृत्तमनुवदति

ईक्षतेरिति ।

प्रधानवादस्य प्राधान्येन निराकरणे हेतूनाह

तस्य हीत्यादिना ।

तर्ह्यण्वादिवादा उपेक्षणीयाः, दुर्बलत्वादित्यत आह

तेऽपि त्विति ।

निर्मूलास्ते कथं प्रतिपक्षा इत्यत आह

तेषामिति ।

तथा हि छान्दोग्ये जगत्कारणत्वज्ञापनार्थं पिता पुत्रमुवाच, आसां वटधानानां मध्ये एकां भिन्धीति । भिन्ना भगव इत्युवाच पुत्रः । पुनः पित्रा किमत्र पश्यसीत्युक्ते न किञ्चन भगव इत्याह । तत्र पित्राणिमानं न पश्यसीत्युक्तम् , तथा च न किञ्चनशब्दाच्छून्यस्वभाववादौ प्रतीयेते, अणुशब्दात्परमाणुवाद इति । एवं 'असदेवेदमग्र आसीत्','अणोरणीयान्' इत्यादिलिङ्गं द्रष्टव्यम् ।

अत्राण्वादिवादाः श्रौता न वेति संशये सत्यसदण्वादिशब्दबलाच्छ्रौता इति प्राप्तेऽतिदिशति

एतेनेति ।

अस्यातिदेशत्वान्न पृथक्सङ्गत्याद्यपेक्षा । न किञ्चनासच्छब्दयोः प्रत्यक्षायोग्यवस्तुपरत्वादाणुशब्दस्य सूक्ष्माभिप्रायत्वादशब्दत्वम् , तेषां वादानां प्रधानवादवदश्रौतत्वम् , ब्रह्मकारणश्रुतिबाधितत्वं च, तस्माद्ब्रह्मैव परमकारणम् , तस्मिन्नेव सर्वेषां वेदान्तानां समन्वय इति सिद्धम् ॥ २८ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्यायस्य यतुर्थः पादः ॥ ४ ॥