ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
दृश्यते तु ॥ ६ ॥
तुशब्दः पक्षं व्यावर्तयति । यदुक्तम् विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकम् इति, नायमेकान्तः; दृश्यते हि लोके — चेतनत्वेन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः, अचेतनत्वेन च प्रसिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनाम् । नन्वचेतनान्येव पुरुषादिशरीराण्यचेतनानां केशनखादीनां कारणानि, अचेतनान्येव च वृश्चिकादिशरीराण्यचेतनानां गोमयादीनां कार्याणीति । उच्यते — एवमपि किञ्चिदचेतनं चेतनस्यायतनभावमुपगच्छति किञ्चिन्नेत्यस्त्येव वैलक्षण्यम् । महांश्चायं पारिणामिकः स्वभावविप्रकर्षः पुरुषादीनां केशनखादीनां च स्वरूपादिभेदात् , तथा गोमयादीनां वृश्चिकादीनां च । अत्यन्तसारूप्ये च प्रकृतिविकारभाव एव प्रलीयेत । अथोच्येत — अस्ति कश्चित्पार्थिवत्वादिस्वभावः पुरुषादीनां केशनखादिष्वनुवर्तमानो गोमयादीनां च वृश्चिकादिष्विति । ब्रह्मणोऽपि तर्हि सत्तालक्षणः स्वभाव आकाशादिष्वनुवर्तमानो दृश्यते । विलक्षणत्वेन च कारणेन ब्रह्मप्रकृतिकत्वं जगतो दूषयता किमशेषस्य ब्रह्मस्वभावस्याननुवर्तनं विलक्षणत्वमभिप्रेयते, उत यस्य कस्यचित् , अथ चैतन्यस्येति वक्तव्यम् । प्रथमे विकल्पे समस्तप्रकृतिविकारभावोच्छेदप्रसङ्गः । न ह्यसत्यतिशये प्रकृतिविकार इति भवति । द्वितीये चासिद्धत्वम् । दृश्यते हि सत्तालक्षणो ब्रह्मस्वभाव आकाशादिष्वनुवर्तमान इत्युक्तम् । तृतीये तु दृष्टान्ताभावः । किं हि यच्चैतन्येनानन्वितं तदब्रह्मप्रकृतिकं दृष्टमिति ब्रह्मकारणवादिनं प्रत्युदाह्रियेत, समस्तस्य वस्तुजातस्य ब्रह्मप्रकृतिकत्वाभ्युपगमात् । आगमविरोधस्तु प्रसिद्ध एव, चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेत्यागमतात्पर्यस्य प्रसाधितत्वात् । यत्तूक्तं परिनिष्पन्नत्वाद्ब्रह्मणि प्रमाणान्तराणि सम्भवेयुरिति, तदपि मनोरथमात्रम् । रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः । लिङ्गाद्यभावाच्च नानुमानादीनाम् । आगममात्रसमधिगम्य एव त्वयमर्थो धर्मवत् । तथा च श्रुतिः — ‘नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ’ (क. उ. १ । २ । ९) इति । ‘को अद्धा वेद क इह प्रवोचत्’ ‘इयं विसृष्टिर्यत आबभूव’ (ऋ. सं. १० । १२९ । ७) इति चैते ऋचौ सिद्धानामपीश्वराणां दुर्बोधतां जगत्कारणस्य दर्शयतः । स्मृतिरपि भवति — ‘अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्’ इति, ‘अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते’ (भ. गी. २ । २५) इति च, ‘न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः’ (भ. गी. १० । २) इति चैवंजातीयका । यदपि श्रवणव्यतिरेकेण मननं विदधच्छब्द एव तर्कमप्यादर्तव्यं दर्शयतीत्युक्तम् , नानेन मिषेण शुष्कतर्कस्यात्रात्मलाभः सम्भवति । श्रुत्यनुगृहीत एव ह्यत्र तर्कोऽनुभवाङ्गत्वेनाश्रीयते — स्वप्नान्तबुद्धान्तयोरुभयोरितरेतरव्यभिचारादात्मनोऽनन्वागतत्वम् , सम्प्रसादे च प्रपञ्चपरित्यागेन सदात्मना सम्पत्तेर्निष्प्रपञ्चसदात्मत्वम् , प्रपञ्चस्य ब्रह्मप्रभवत्वात्कार्यकारणानन्यत्वन्यायेन ब्रह्माव्यतिरेकः — इत्येवंजातीयकः; ‘तर्काप्रतिष्ठानादि’ (ब्र. सू. २ । १ । ११) ति च केवलस्य तर्कस्य विप्रलम्भकत्वं दर्शयिष्यति । योऽपि चेतनकारणश्रवणबलेनैव समस्तस्य जगतश्चेतनतामुत्प्रेक्षेत, तस्यापि ‘विज्ञानं चाविज्ञानं च’ (तै. उ. २ । ६ । १) इति चेतनाचेतनविभागश्रवणं विभावनाविभावनाभ्यां चैतन्यस्य शक्यत एव योजयितुम् । परस्यैव त्विदमपि विभागश्रवणं न युज्यते । कथम् ? परमकारणस्य ह्यत्र समस्तजगदात्मना समवस्थानं श्राव्यते — ‘विज्ञानं चाविज्ञानं चाभवत्’ इति । तत्र यथा चेतनस्याचेतनभावो नोपपद्यते विलक्षणत्वात् , एवमचेतनस्यापि चेतनभावो नोपपद्यते । प्रत्युक्तत्वात्तु विलक्षणत्वस्य यथा श्रुत्येव चेतनं कारणं ग्रहीतव्यं भवति ॥ ६ ॥

किं यत्किञ्चिद्वैलक्षण्यं हेतुः, बहुवैलक्षण्यं वा । आद्ये व्यभिचारमाह -

नायमेकान्तः । दृश्यते हीति ।

हेतोरसत्त्वान्न व्यभिचार इति शङ्कते -

नन्विति ।

यत्किञ्चिद्वैलक्षण्यमस्तीति व्यभिचार इत्याह -

उच्यत इति ।

शरीरस्य केशादीनां च प्राणित्वाप्राणित्वरूपं वैलक्षण्यमस्तीत्यर्थः ।

द्वितीयेऽपि तत्रैव व्यभिचारमाह -

महानिति ।

परिणामिकः । केशादीनां स्वगतपरिणामात्मक इत्यर्थः ।

किञ्च ययोः प्रकृतिविकारभावस्तयोः सादृश्यं वदता वक्तव्यं किमात्यन्तिकं यत्किञ्चिद्वेति । आद्ये दोषमाह -

अत्यन्तेति ।

द्वितीयमाशङ्क्य ब्रह्मजगतोरपि तत्सत्त्वात्प्रकृतिविकृतित्वसिद्धिरित्याह -

अथेत्यादिना ।

विलक्षणत्वं विकल्प्य दूषणान्तरमाह -

विलक्षणत्वेनेत्यादिना ।

जगति समस्तस्य ब्रह्मस्वभावस्य चेतनत्वादेरननुवर्तनान्न ब्रह्मकार्यमिति पक्षे सर्वसाम्ये प्रकृतिविकारत्वमित्युक्तं स्यात् , तदसङ्गतमित्याह -

प्रथम इति ।

तृतीये तु दृष्टान्ताभाव इति ।

न च जगन्न ब्रह्मप्रकृतिकमचेतनत्वादविद्यावदिति दृष्टान्तोऽस्तीति वाच्यम् , अनादित्वस्योपाधित्वात् । न च ध्वंसे साध्याव्यापकता, तस्यापि कार्यसंस्कारात्मकस्य भावत्वेन ब्रह्मप्रकृतिकत्वादभावत्वाग्रहे चानादिभावत्वस्योपाधित्वादिति ।

सम्प्रति कल्पत्रयसाधारणं दोषमाह -

आगमेति ।

पूर्वोक्तमनूद्य ब्रह्मणः शुष्कतर्कविषयत्वासम्भवान्न तर्केणाक्षेप इत्याह -

यत्तूक्तमित्यादिना ।

लिङ्गसादृश्यपदप्रवृत्तिनिमित्तानामभावादनुमानोपमानशब्दानामगोचरः । ब्रह्म लक्षणया वेदैकवेद्यमित्यर्थः । एषा ब्रह्मणि मतिस्तर्केण स्वतन्त्रेण नापनेया न सम्पादनीया । यद्वा कुतर्केण न बाधनीया । कुतार्किकादन्येनैव वेदविदाचार्येण प्रोक्ता मतिः सुज्ञानायानुभवाय फलाय भवति । हे प्रेष्ठ, प्रियतमेति न चिकेतसं प्रति मृत्योर्वचनम् । इयं विविधा सृष्टिर्यतः आ समन्ताद्बभूव तं को वा अद्धा साक्षाद्वेद । तिष्ठतु वेदनम् , क इह लोके तं प्रवोचत्प्रावोचत् । छान्दसो दीर्घलोपः । यथावद्वक्तापि नास्तीत्यर्थः । प्रभवं जन्म न विदुः मम सर्वादित्वेन जन्माभावात् । मिषेण मननविधिव्याजेन । शुष्कः श्रुत्यनपेक्षः । श्रुत्या तत्त्वे निश्चिते सत्यनु पश्चात्पुरुषदोषस्यासम्भावनादेर्निरासाय गृहीतः श्रुत्यनुगृहीतः ।

तमाह -

स्वप्नान्तेति ।

जीवस्यावस्थावतो देहादिप्रपञ्चयुक्तस्य निष्प्रपञ्चब्रह्मैक्यमसम्भवि, द्वैतग्राहिप्रमाणविरोधाद्ब्रह्मणश्चाद्वितीयत्वमयुक्तमित्येवं श्रौतार्थासम्भावनायाम् , तन्निरासाय सर्वास्ववस्थास्वात्मनोऽनुगतस्य व्यभिचारिणीभिरवस्थाभिरनन्वागतत्वमसंस्पृष्टत्वमवस्थानां स्वाभाविकत्वे वह्न्यौष्णवदात्मव्यभिचारायोगात्सुषुप्तौ प्रपञ्चभ्रान्त्यभावे 'सता सोम्य' इत्युक्ताभेददर्शनान्निष्प्रपञ्चब्रह्मैक्यसम्भवः, यथा घटादयो मृदभिन्नास्तथा जगद्ब्रह्माभिन्नं तज्जत्वादित्यादिस्तर्क आश्रीयत इत्यर्थः । इतोऽन्यादृशतर्कस्यात्र ब्रह्मण्यप्रवेशादस्य चानुकूलत्वान्न तर्केणाक्षेपावकाश इति भावः ।

ब्रह्मणि शुष्कतर्कस्याप्रवेशः सूत्रसम्मत इत्याह -

तर्काप्रतिष्ठानादिति ।

विप्रलम्भकत्वमप्रमापकत्वम् । यदुक्तमेकदेशिना सर्वस्य जगतश्चेतनत्वोक्तौ विभागश्रुत्यनुपपत्तिरिति दूषणं साङ्ख्येन । तन्न । तत्र तेनैकदेशिना विभागश्रुतेश्चैतन्याभिव्यक्त्यनभिव्यक्तिभ्यां योजयितुं शक्यत्वात् ।

साङ्ख्यस्य त्विदं दूषणं वज्रलेपायते, प्रधानकार्यत्वे सर्वस्याचेतनत्वेन चेतनाचेतनकार्यविभागासम्भवादित्याह -

योऽपीत्यादिना ।

सिद्धान्ते चेतनाचेतनवैलक्षण्याङ्गीकारे कथं ब्रह्मणः प्रकृतित्वमित्यत आह -

प्रत्युक्तत्वादिति ।

अप्रयोजकत्वव्यभिचाराभ्यां निरस्तत्वादित्यर्थः ॥६॥