ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ७ ॥
यदि चेतनं शुद्धं शब्दादिहीनं च ब्रह्म तद्विपरीतस्याचेतनस्याशुद्धस्य शब्दादिमतश्च कार्यस्य कारणमिष्येत, असत्तर्हि कार्यं प्रागुत्पत्तेरिति प्रसज्येत । अनिष्टं चैतत्सत्कार्यवादिनस्तवेति चेत् — नैष दोषः, प्रतिषेधमात्रत्वात् । प्रतिषेधमात्रं हीदम् । नास्य प्रतिषेधस्य प्रतिषेध्यमस्ति । न ह्ययं प्रतिषेधः प्रागुत्पत्तेः सत्त्वं कार्यस्य प्रतिषेद्धुं शक्नोति । कथम् ? यथैव हीदानीमपीदं कार्यं कारणात्मना सत् , एवं प्रागुत्पत्तेरपीति गम्यते । न हीदानीमपीदं कार्यं कारणात्मानमन्तरेण स्वतन्त्रमेवास्ति — ‘सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद’ (बृ. उ. २ । ४ । ६) इत्यादिश्रवणात् । कारणात्मना तु सत्त्वं कार्यस्य प्रागुत्पत्तेरविशिष्टम् । ननु शब्दादिहीनं ब्रह्म जगतः कारणम् । बाढम् — न तु शब्दादिमत्कार्यं कारणात्मना हीनं प्रागुत्पत्तेरिदानीं वा अस्ति । तेन न शक्यते वक्तुं प्रागुत्पत्तेरसत्कार्यमिति । विस्तरेण चैतत्कार्यकारणानन्यत्ववादे वक्ष्यामः ॥ ७ ॥

कार्यमुत्पत्तेः प्रागसदेव स्यात् , स्वविरुद्धकारणात्मना सत्त्वायोगादित्यपसिद्धान्तापत्तिमाशङ्क्य मिथ्यात्वात्कार्यस्य कालत्रयेऽपि कारणात्मना सत्त्वमविरुद्धमिति समाधत्ते -

असदिति चेदित्यादिना ।

असत्यादिति सत्त्वप्रतिषेधो निरर्थक इत्यर्थः ।

कार्यसत्यत्वाभावे श्रुतिमाह -

सर्वं तमिति ।

मिथ्यात्वमजानतः शङ्कामनूद्य परिहरति -

नन्वित्यादिना ।

विस्तरेण चैतदिति ।

मिथ्यात्वमित्यर्थः ॥७॥