ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥
वैदिकस्य दर्शनस्य प्रत्यासन्नत्वाद्गुरुतरतर्कबलोपेतत्वाद्वेदानुसारिभिश्च कैश्चिच्छिष्टैः केनचिदंशेन परिगृहीतत्वात्प्रधानकारणवादं तावद्व्यपाश्रित्य यस्तर्कनिमित्त आक्षेपो वेदान्तवाक्येषूद्भावितः, परिहृतःइदानीमण्वादिवादव्यपाश्रयेणापि कैश्चिन्मन्दमतिभिर्वेदान्तवाक्येषु पुनस्तर्कनिमित्त आक्षेप आशङ्क्येत इत्यतः प्रधानमल्लनिबर्हणन्यायेनातिदिशतिपरिगृह्यन्त इति परिग्रहाः परिग्रहाः अपरिग्रहाःशिष्टानामपरिग्रहाः शिष्टापरिग्रहाःएतेन प्रकृतेन प्रधानकारणवादनिराकरणकारणेनशिष्टैर्मनुव्यासप्रभृतिभिः केनचिदप्यंशेनापरिगृहीता येऽण्वादिकारणवादाः, तेऽपि प्रतिषिद्धतया व्याख्याता निराकृता द्रष्टव्याःतुल्यत्वान्निराकरणकारणस्य नात्र पुनराशङ्कितव्यं किञ्चिदस्तितुल्यमत्रापि परमगम्भीरस्य जगत्कारणस्य तर्कानवगाह्यत्वम् , तर्कस्य चाप्रतिष्ठितत्वम् , अन्यथानुमानेऽप्यविमोक्षः, आगमविरोधश्चइत्येवंजातीयकं निराकरणकारणम् ॥ १२ ॥

ब्रह्म जगदुपादानमिति ब्रुवन् वेदान्तसमन्वयो विषयः । स किं यद्विभु तन्न द्रव्योपादानमिति वैशेषिकादिन्यायेन विरुध्यते न वेति सन्देहे साङ्ख्यवृद्धानां तर्काकुशलमतित्वेऽपि वैशेषिकादीनां तर्कमतिकुशलत्वप्रसिद्धेस्तदीयन्यायस्याबाधितत्वाद्विरुध्यत इति प्रत्युदाहरणेन प्राप्तेऽतिदिशति -

एतेनेति ।

फलं पूर्ववत् ।

ननु साङ्ख्यमतस्योपदेशस्तार्किकमतस्यातिदेशः किमिति कृतो वैपरीत्यस्यापि सम्भवादित्याशङ्क्य पूर्वोत्तराधिकरणयोरुपदेशातिदेशभावे कारणमाह -

वैदिकस्येति ।

सत्कार्यत्वात्मासङ्गत्वस्वप्रकाशत्वाद्यंशैर्वेदान्तशास्त्रस्य प्रत्यासन्नः प्रधानवादः शिष्टैर्देबलादिभिः सत्कार्यत्वांशेन स्वीकृत इति प्रबलत्वादुपदेशः । अण्वादिवादानां निर्मूलत्वेन दुर्बलत्वेन दुर्बलत्वादतिदेश इति भावः ।

किं निराकरणकारणमिति प्रष्टव्यं नास्तीत्याह -

तुल्यत्वादिति ।

कारणमेवाह -

तुल्यमिति ।

यदुक्तं विभुत्वान्न द्रव्योपादानं ब्रह्मेति, तत्र पक्षसाधकत्वेन श्रुतेरुपजीव्यत्वात्तया बाधः । महापरिमाणवत्त्वस्य सर्वसंयोगिकत्वरूपविभुत्वस्य निर्गुणे ब्रह्मण्यसिद्धेश्चेति द्रष्टव्यम् । अतः समन्वयस्य तार्किकन्यायेन न विरोध इति सिद्धम् ॥१२॥