ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ १३ ॥
अन्यथा पुनर्ब्रह्मकारणवादस्तर्कबलेनैवाक्षिप्यतेयद्यपि श्रुतिः प्रमाणं स्वविषये भवति, तथापि प्रमाणान्तरेण विषयापहारेऽन्यपरा भवितुमर्हति, यथा मन्त्रार्थवादौतर्कोऽपि स्वविषयादन्यत्राप्रतिष्ठितः स्यात् , यथा धर्माधर्मयोःकिमतो यद्येवम् ? अत इदमयुक्तम् , यत्प्रमाणान्तरप्रसिद्धार्थबाधनं श्रुतेःकथं पुनः प्रमाणान्तरप्रसिद्धोऽर्थः श्रुत्या बाध्यत इतिअत्रोच्यतेप्रसिद्धो ह्ययं भोक्तृभोग्यविभागो लोकेभोक्ता चेतनः शारीरः, भोग्याः शब्दादयो विषया इतियथा भोक्ता देवदत्तः, भोज्य ओदन इतितस्य विभागस्याभावः प्रसज्येत, यदि भोक्ता भोग्यभावमापद्येत भोग्यं वा भोक्तृभावमापद्येततयोश्चेतरेतरभावापत्तिः परमकारणाद्ब्रह्मणोऽनन्यत्वात्प्रसज्येत चास्य प्रसिद्धस्य विभागस्य बाधनं युक्तम्यथा त्वद्यत्वे भोक्तृभोग्ययोर्विभागो दृष्टः, तथातीतानागतयोरपि कल्पयितव्यःतस्मात्प्रसिद्धस्यास्य भोक्तृभोग्यविभागस्याभावप्रसङ्गादयुक्तमिदं ब्रह्मकारणतावधारणमिति चेत्कश्चिच्चोदयेत् , तं प्रति ब्रूयात्स्याल्लोकवदितिउपपद्यत एवायमस्मत्पक्षेऽपि विभागः, एवं लोके दृष्टत्वात्तथा हिसमुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनवीचीतरङ्गबुद्बुदादीनामितरेतरविभाग इतरेतरसंश्लेषादिलक्षणश्च व्यवहार उपलभ्यते समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनतरङ्गादीनामितरेतरभावापत्तिर्भवति तेषामितरेतरभावानापत्तावपि समुद्रात्मनोऽन्यत्वं भवतिएवमिहापि भोक्तृभोग्ययोरितरेतरभावापत्तिः, परस्माद्ब्रह्मणोऽन्यत्वं भविष्यतियद्यपि भोक्ता ब्रह्मणो विकारः तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) इति स्रष्टुरेवाविकृतस्य कार्यानुप्रवेशेन भोक्तृत्वश्रवणात् , तथापि कार्यमनुप्रविष्टस्यास्त्युपाधिनिमित्तो विभाग आकाशस्येव घटाद्युपाधिनिमित्तःइत्यतः, परमकारणाद्ब्रह्मणोऽनन्यत्वेऽप्युपपद्यते भोक्तृभोग्यलक्षणो विभागः समुद्रतरङ्गादिन्यायेनेत्युक्तम् ॥ १३ ॥

अद्वितीयाद्ब्रह्मणो जगत्सर्गादिवादी वेदान्तसमन्वयो विषयः । स किं यन्मिथो भिन्नं तन्नाद्वितीयकारणाभिन्नं यथा मृत्तन्तुजौ घटपठाविति तर्कसहितभेदप्रत्यक्षादिना विरुध्यते न वेति सन्देहे ब्रह्मणि तर्कस्याप्रतिष्ठितत्वेऽपि जगद्भेदे प्रतिष्ठितत्वाद्विरुध्यत इति पूर्वपक्षयति -

भोक्त्रापत्तेरिति ।

विरोधादद्वैतासिद्धिः पूर्वपक्षफलम् , सिद्धान्ते तत्सिद्धिरिति भेदः ।

अनपेक्षश्रुत्या स्वार्थनिर्णयात्तर्केणाक्षेपो न युक्त इत्युक्तमिति शङ्कते -

यद्यपीति ।

मानान्तरायोग्यश्रुत्यर्थे भवत्यनाक्षेपः ।

यस्त्वद्वितीयब्रह्माभेदाद्भूजलादीनामभेदो ब्रह्मोपादानकत्वश्रुतिविषयः स 'आदित्यो यूपः' इत्यर्थवादार्थवन्मानान्तरयोग्य एवेति द्वैतप्रमाणैरपह्रियत इति समाधत्ते -

तथापीति ।

अन्यपरत्वं गौणार्थकत्वम् ।

स्वविषये जगद्भेदे तर्कस्य प्रतिष्ठितत्वात्तेनाक्षेप इत्याह -

तर्कोऽपीति ।

तर्कादेर्द्वैते प्रामाण्येऽपि ततः समन्वयविरोधे किमायातमिति शङ्कते -

किमत इति ।

पूर्वपक्षी समाधत्ते -

अत इति ।

तर्कादेः प्रामाण्यात् द्वैतबाधकत्वं श्रुतेरयुक्तमित्यद्वैतसमन्वयबाधो युक्त इत्यर्थः ।

इयमर्थं शङ्कापूर्वकं स्फुटयति -

कथमित्यादिना ।

ननु भोक्तृभोग्ययोर्मिथ एकत्वं केनोक्तमित्याशङ्क्य श्रुतार्थापत्त्येत्याह -

तयोश्चेति ।

तयोरेकब्रह्माभेदश्रवणादेकत्वं कल्प्यते, एकस्मादभिन्नयोर्भेदे एकस्यापि भेदापत्तेः । ततश्च भेदो बाध्येतेत्यर्थः ।

इष्टापत्तिं वारयति -

न चास्येति ।

श्रुतेर्गौणार्थत्वेन सावकाशत्वान्निरवकाशद्वैतमानबाधो न युक्त इत्यर्थः ।

ननु विभागस्याधुनिकत्वादनाद्यद्वैतश्रुत्या बाध इत्यत आह -

यथेति ।

अतीतानागतकालौ भोक्त्रादिविभागाश्रयौ, कालत्वात् , वर्तमानकालवदित्यनुमानाद्विभागोऽनाद्यनन्त इत्यर्थः ।

एवं प्राप्ते परिणामदृष्टान्तेनापाततः सिद्धान्तमाह -

स्याल्लोकवदिति ।

दृष्टान्तेऽपि कथमेकसमुद्राभिन्नानां परिणामानां मिथो भेदः, कथं वा तेषां भेदे सत्येकस्मादभिन्नत्वमित्याशङ्क्य न हि दृष्टेनुपपत्तिरिति न्यायेनाह -

न चेति ।

एवं भोक्तृभोग्ययोर्मिथो भेदो ब्रह्माभेदश्चेत्याह -

एवमिहेति ।

जीवस्य ब्रह्मविकारत्वाभावाद्दृष्टान्तवैषम्यमिति शङ्कते -

यद्यपीति ।

औपाधिकं जन्मास्तीति तरङ्गादिसाम्यमाह -

तथापीति ।

विभागो जन्म । यद्वा तथापीतिशब्देनैवोक्तः परिहारः ।

ननु भोक्तुः प्रतिदेहं विभागः कथमित्यत आह -

कार्यमनुप्रविष्टस्येति ।

औपाधिकविभागे फलितमुपसंहरति -

इत्यत इति ।

एकब्रह्माभिन्नत्वेऽपि भोक्त्रादेस्तरङ्गादिवद्भेदाङ्गीकारान्न द्वैतमानेनाद्वैतसमन्वयस्य विरोध इत्यर्थः ॥१३॥