पूर्वस्मिन्नेव पूर्वपक्षे विवर्तवादेन मुख्यं समाधानमाह -
तदनन्यत्वमिति ।
समानविषयत्वं सङ्गतिं वदन्नुभयोः परिहारयोः परिणामविवर्ताश्रयत्वेनार्थभेदमाह -
अभ्युपगम्येति ।
प्रत्यक्षादीनाम् उत्सर्गिकप्रामाण्यमङ्गीकृत्य स्थूलबुद्धिसमाधानार्थं परिणामदृष्टान्तेन भेदाभेदावुक्तौ, सम्प्रत्यङ्गीकृतं प्रामाण्यम् , तत्त्वावेदकत्वात्प्रच्याव्य व्यावहारिकत्वे स्थाप्यते, तथा च मिथ्याद्वैतग्राहिप्रमाणैरद्वैतश्रुतेर्न बाधः, एकस्यां रज्ज्वां दण्डस्रगादिद्वैतदर्शनादित्ययं मुख्यः परिहार इति भावः ।
एवमद्वैतसमन्वयस्याविरोधार्थं द्वैतस्य मिथ्यात्वं साधयति -
यस्मात्तयोरिति ।
स्वरूपैक्ये कार्यकारणत्वव्याघात इत्यत आह -
व्यतिरेकेणेति ।
कारणात्पृथक्सत्त्वशून्यत्वं कार्यस्य साध्यते नैक्यमित्यर्थः ।
वागारभ्यं नाममात्रं विकारो न कारणात्पृथगस्तीत्येवकारार्थ इति श्रुतिं योजयति -
एतदुक्तमिति ।
आरम्भणशब्दार्थान्तरमाह -
पुनश्चेति ।
अपागादग्नित्वमपगतं कारणमात्रत्वात् । त्रीणि तेजोबन्नानां रूपाणि रूपतन्मात्रात्मकानि सत्यम् । तेषामपि सन्मात्रत्वात्सदेव शिष्यत इत्यभिप्रायः ।
जीवगजतोर्ब्रह्मान्यत्वे प्रतिज्ञाबाध इत्याह -
न चान्यथेति ।
तयोरनन्यत्वे क्रमेण दृष्टान्तावाह -
तस्माद्यथेति ।
प्रतिज्ञाबलादित्यर्थः । दृष्टं प्रातीतिकं नष्टमनित्यं यत्स्वरूपं तद्रूपेणानुपाख्यत्वात्सत्तास्फूर्तिशून्यत्वादनन्यत्वमिति सम्बन्धः ।