ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥
नन्वनेकात्मकं ब्रह्मयथा वृक्षोऽनेकशाखः, एवमनेकशक्तिप्रवृत्तियुक्तं ब्रह्मअत एकत्वं नानात्वं चोभयमपि सत्यमेवयथा वृक्ष इत्येकत्वं शाखा इति नानात्वम्यथा समुद्रात्मनैकत्वं फेनतरङ्गाद्यात्मना नानात्वम् , यथा मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वम्तत्रैकत्वांशेन ज्ञानान्मोक्षव्यवहारः सेत्स्यतिनानात्वांशेन तु कर्मकाण्डाश्रयौ लौकिकवैदिकव्यवहारौ सेत्स्यत इतिएवं मृदादिदृष्टान्ता अनुरूपा भविष्यन्तीतिनैवं स्यात् — ‘मृत्तिकेत्येव सत्यम्इति प्रकृतिमात्रस्य दृष्टान्ते सत्यत्वावधारणात् , वाचारम्भणशब्देन विकारजातस्यानृतत्वाभिधानात् , दार्ष्टान्तिकेऽपिऐतदात्म्यमिदꣳ सर्वं तत्सत्यम्इति परमकारणस्यैवैकस्य सत्यत्वावधारणात् , ‘ आत्मा तत्त्वमसि श्वेतकेतोइति शारीरस्य ब्रह्मभावोपदेशात्स्वयं प्रसिद्धं ह्येतच्छारीरस्य ब्रह्मात्मत्वमुपदिश्यते, यत्नान्तरप्रसाध्यम्अतश्चेदं शास्त्रीयं ब्रह्मात्मत्वमवगम्यमानं स्वाभाविकस्य शारीरात्मत्वस्य बाधकं सम्पद्यते, रज्ज्वादिबुद्धय इव सर्पादिबुद्धीनाम्बाधिते शारीरात्मत्वे तदाश्रयः समस्तः स्वाभाविको व्यवहारो बाधितो भवति, यत्प्रसिद्धये नानात्वांशोऽपरो ब्रह्मणः कल्प्येतदर्शयति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिना ब्रह्मात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारकफललक्षणस्य व्यवहारस्याभावम् चायं व्यवहाराभावोऽवस्थाविशेषनिबन्धनोऽभिधीयते इति युक्तं वक्तुम् , ‘तत्त्वमसिइति ब्रह्मात्मभावस्यानवस्थाविशेषनिबन्धनत्वात्तस्करदृष्टान्तेन चानृताभिसन्धस्य बन्धनं सत्याभिसन्धस्य मोक्षं दर्शयन् एकत्वमेवैकं पारमार्थिकं दर्शयति, मिथ्याज्ञानविजृम्भितं नानात्वम्उभयसत्यतायां हि कथं व्यवहारगोचरोऽपि जन्तुरनृताभिसन्ध इत्युच्येतमृत्योः मृत्युमाप्नोति इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) इति भेददृष्टिमपवदन्नेतदेव दर्शयति चास्मिन्दर्शने ज्ञानान्मोक्ष इत्युपपद्यते, सम्यग्ज्ञानापनोद्यस्य कस्यचिन्मिथ्याज्ञानस्य संसारकारणत्वेनानभ्युपगमात्उभयसत्यतायां हि कथमेकत्वज्ञानेन नानात्वज्ञानमपनुद्यत इत्युच्यतेनन्वेकत्वैकान्ताभ्युपगमे नानात्वाभावात्प्रत्यक्षादीनि लौकिकानि प्रमाणानि व्याहन्येरन् , निर्विषयत्वात् , स्थाण्वादिष्विव पुरुषादिज्ञानानितथा विधिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात्तदभावे व्याहन्येतमोक्षशास्त्रस्यापि शिष्यशासित्रादि भेदापेक्षत्वात्तदभावे व्याघातः स्यात्कथं चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मैकत्वस्य सत्यत्वमुपपद्येतेतिअत्रोच्यतेनैष दोषः, सर्वव्यवहाराणामेव प्राग्ब्रह्मात्मताविज्ञानात्सत्यत्वोपपत्तेः, स्वप्नव्यवहारस्येव प्राक्प्रबोधात्यावद्धि सत्यात्मैकत्वप्रतिपत्तिस्तावत्प्रमाणप्रमेयफललक्षणेषु विकारेष्वनृतत्वबुद्धिर्न कस्यचिदुत्पद्यतेविकारानेव तुअहम्’ ‘ममइत्यविद्यया आत्मात्मीयेन भावेन सर्वो जन्तुः प्रतिपद्यते स्वाभाविकीं ब्रह्मात्मतां हित्वातस्मात्प्राग्ब्रह्मात्मताप्रतिबोधादुपपन्नः सर्वो लौकिको वैदिकश्च व्यवहारःयथा सुप्तस्य प्राकृतस्य जनस्य स्वप्ने उच्चावचान्भावान्पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक्प्रबोधात् , प्रत्यक्षाभासाभिप्रायस्तत्काले भवति, तद्वत्कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मत्वस्य प्रतिपत्तिरुपपद्येत ? हि रज्जुसर्पेण दष्टो म्रियतेनापि मृगतृष्णिकाम्भसा पानावगाहनादिप्रयोजनं क्रियत इतिनैष दोषः, शङ्काविषादिनिमित्तमरणादिकार्योपलब्धेः, स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यदर्शनात्तत्कार्यमप्यनृतमेवेति चेद्ब्रूयात् , अत्र ब्रूमःयद्यपि स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतम् , तथापि तदवगतिः सत्यमेव फलम् , प्रतिबुद्धस्याप्यबाध्यमानत्वात् हि स्वप्नादुत्थितः स्वप्नदृष्टं सर्पदंशनोदकस्नानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित्एतेन स्वप्नदृशोऽवगत्यबाधनेन देहमात्रात्मवादो दूषितो वेदितव्यःतथा श्रुतिःयदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यतिसमृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने’ (छा. उ. ५ । २ । ८) इत्यसत्येन स्वप्नदर्शनेन सत्यायाः समृद्धेः प्रतिपत्तिं दर्शयति, तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेषु जातेषु चिरमिव जीविष्यतीति विद्यात्इत्युक्त्वा अथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति एनं हन्ति’(ऐ॰आ॰ ३-२-४) इत्यादिना तेन तेनासत्येनैव स्वप्नदर्शनेन सत्यं मरणं सूच्यत इति दर्शयतिप्रसिद्धं चेदं लोकेऽन्वयव्यतिरेककुशलानामीदृशेन स्वप्नदर्शनेन साध्वागमः सूच्यते, ईदृशेनासाध्वागम इतितथा अकारादिसत्याक्षरप्रतिपत्तिर्दृष्टा रेखानृताक्षरप्रतिपत्तेःअपि चान्त्यमिदं प्रमाणमात्मैकत्वस्य प्रतिपादकम् , नातःपरं किञ्चिदाकाङ्क्ष्यमस्तियथा हि लोके यजेतेत्युक्ते, किं केन कथम् इत्याकाङ्क्ष्यतेनैवंतत्त्वमसि’ ‘अहं ब्रह्मास्मिइत्युक्ते, किञ्चिदन्यदाकाङ्क्ष्यमस्तिसर्वात्मैकत्वविषयत्वावगतेःसति ह्यन्यस्मिन्नवशिष्यमाणेऽर्थे आकाङ्क्षा स्यात् त्वात्मैकत्वव्यतिरेकेणावशिष्यमाणोऽन्योऽर्थोऽस्ति, आकाङ्क्ष्येत चेयमवगतिर्नोत्पद्यत इति शक्यं वक्तुम् , तद्धास्य विजज्ञौ’ (छा. उ. ६ । १६ । ३) इत्यादिश्रुतिभ्यःअवगतिसाधनानां श्रवणादीनां वेदानुवचनादीनां विधानात् चेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम्अविद्यानिवृत्तिफलदर्शनात् , बाधकज्ञानान्तराभावाच्चप्राक्चात्मैकत्वावगतेरव्याहतः सर्वः सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचामतस्मादन्त्येन प्रमाणेन प्रतिपादिते आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वात् अनेकात्मकब्रह्मकल्पनावकाशोऽस्तिननु मृदादिदृष्टान्तप्रणयनात्परिणामवद्ब्रह्म शास्त्रस्याभिमतमिति गम्यतेपरिणामिनो हि मृदादयोऽर्था लोके समधिगता इतिनेत्युच्यते वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५) एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) इत्याद्याभ्यः सर्वविक्रियाप्रतिषेधश्रुतिभ्यः ब्रह्मणः कूटस्थत्वावगमात् ह्येकस्य ब्रह्मणः परिणामधर्मवत्वं तद्रहितत्वं शक्यं प्रतिपत्तुम्स्थितिगतिवत्स्यादिति चेत् , ; कूटस्थस्येति विशेषणात् हि कूटस्थस्य ब्रह्मणः स्थितिगतिवदनेकधर्माश्रयत्वं सम्भवतिकूटस्थं नित्यं ब्रह्म सर्वविक्रियाप्रतिषेधादित्यवोचाम यथा ब्रह्मण आत्मैकत्वदर्शनं मोक्षसाधनम् , एवं जगदाकारपरिणामित्वदर्शनमपि स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते, प्रमाणाभावात्कूटस्थब्रह्मात्मत्वविज्ञानादेव हि फलं दर्शयति शास्त्रम् — ‘ एष नेति नेत्यात्माइत्युपक्रम्य अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४) इत्येवंजातीयकम्तत्रैतत्सिद्धं भवतिब्रह्मप्रकरणे सर्वधर्मविशेषरहितब्रह्मदर्शनादेव फलसिद्धौ सत्याम् , यत्तत्राफलं श्रूयते ब्रह्मणो जगदाकारपरिणामित्वादि, तद्ब्रह्मदर्शनोपायत्वेनैव विनियुज्यते, फलवत्सन्निधावफलं तदङ्गमितिवत् तु स्वतन्त्रं फलाय कल्प्यत इति हि परिणामवत्त्वविज्ञानात्परिणामवत्त्वमात्मनः फलं स्यादिति वक्तुं युक्तम् , कूटस्थनित्यत्वान्मोक्षस्यननु कूटस्थब्रह्मात्मवादिन एकत्वैकान्त्यात् ईशित्रीशितव्याभावे ईश्वरकारणप्रतिज्ञाविरोध इति चेत् , ; अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञत्वस्यतस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इत्यादिवाक्येभ्यः नित्यशुद्धबुद्धमुक्तस्वरूपात्सर्वज्ञात्सर्वशक्तेरीश्वराज्जगज्जनिस्थितिप्रलयाः, नाचेतनात्प्रधानादन्यस्माद्वाइत्येषोऽर्थः प्रतिज्ञातःजन्माद्यस्य यतः’ (ब्र. सू. १ । १ । २) इति; सा प्रतिज्ञा तदवस्थैव, तद्विरुद्धोऽर्थः पुनरिहोच्यतेकथं नोच्यते, अत्यन्तमात्मन एकत्वमद्वितीयत्वं ब्रुवता ? शृणु यथा नोच्यतेसर्वज्ञस्येश्वरस्यात्मभूते इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य मायाशक्तिः प्रकृतिरिति श्रुतिस्मृत्योरभिलप्येतेताभ्यामन्यः सर्वज्ञ ईश्वरः, आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८ । १४ । १) इति श्रुतेः, नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३ । १२ । ७) एकं बीजं बहुधा यः करोति’ (श्वे. उ. ६ । १२) इत्यादिश्रुतिभ्यश्च; एवमविद्याकृतनामरूपोपाध्यनुरोधीश्वरो भवति, व्योमेव घटकरकाद्युपाध्यनुरोधि स्वात्मभूतानेव घटाकाशस्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसङ्घातानुरोधिनो जीवाख्यान्विज्ञानात्मनः प्रतीष्टे व्यवहारविषयेतदेवमविद्यात्मकोपाधिपरिच्छेदापेक्षमेवेश्वरस्येश्वरत्वं सर्वज्ञत्वं सर्वशक्तित्वं , परमार्थतो विद्यया अपास्तसर्वोपाधिस्वरूपे आत्मनि ईशित्रीशितव्यसर्वज्ञत्वादिव्यवहार उपपद्यतेतथा चोक्तम्यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति भूमा’ (छा. उ. ७ । २४ । १) इति; यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादि एवं परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वेतथेश्वरगीतास्वपि कर्तृत्वं कर्माणि लोकस्य सृजति प्रभुः कर्मफलसंयोगं स्वभावस्तु प्रवर्तते’ (भ. गी. ५ । १४)नादत्ते कस्यचित्पापं चैव सुकृतं विभुःअज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’ (भ. गी. ५ । १५) इति परमार्थावस्थायामीशित्रीशितव्यादिव्यवहाराभावः प्रदर्श्यतेव्यवहारावस्थायां तूक्तः श्रुतावपीश्वरादिव्यवहारःएष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय’ (बृ. उ. ४ । ४ । २२) इतितथा चेश्वरगीतास्वपिईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठतिभ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया’ (भ. गी. १८ । ६१) इतिसूत्रकारोऽपि परमार्थाभिप्रायेणतदनन्यत्वम्इत्याहव्यवहाराभिप्रायेण तुस्याल्लोकवत्इति महासमुद्रस्थानीयतां ब्रह्मणः कथयति, अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामप्रक्रियां चाश्रयति सगुणेषूपासनेषूपयोक्ष्यत इति ॥ १४ ॥
नन्विति ; नैवं स्यादिति ; स आत्मेति ; स्वयमिति ; अतश्चेति ; बाधिते चेति ; न चायमिति ; तस्करेति ; मृत्योरिति ; न चास्मिन्निति ; नन्वित्यादिना ; कथं चानृतेनेति ; अत्रोच्यत इत्यादिना ; यथा सुप्तस्य प्राकृतस्येति ; कथं त्वसत्येनेति ; नैष दोष इति ; स्वप्नेति ; तत्कार्यमपीति ; तत्र ब्रूम इत्यादिना ; एतेनेति ; तथा च श्रुतिरिति ; तथेति ; तथाकारादीति ; अपि चान्त्यमिति ; न चेयमिति ; न चेयमिति ; प्राक्चेति ; तस्मादिति ; नन्विति ; नेत्युच्यत इति ; स्थितीति ; नेति ; कूटस्थस्येति ; न च यथेत्यादिना ; न हि परिणामवत्त्वेति ; कूटस्थेति ; नेत्यादिना ; तस्मादित्यादिना ; तत्वान्यत्वाभ्यामिति ; मायेति ; ताभ्यामन्य इति ; आकाश इत्यादिना ; स च स्वात्मभूतानिति ; तथा चेति ; स्वभावस्त्विति ; नादत्त इति ; सूत्रकारोऽपीति ; परिणामप्रक्रियां चेति ;

शुद्धाद्वैतं स्वमतमुक्त्वा भेदाभेदमतमुत्थापयति -

नन्विति ।

अनेकाभिः शक्तिभिस्तदधीनप्रकृतिभिः परिणामैर्युक्तमित्यर्थः ।

भेदाभेदमते सर्वव्यवस्थासिद्धिरत्यन्ताभेदे द्वैतमानबाध इत्यभिमन्यमानो दूषयति -

नैवं स्यादिति ।

एवकारवाचारम्भणशब्दाभ्यां विकारसत्तानिषेधात्परिणामवादः श्रुतिबाह्य इत्यर्थः ।

किञ्च संसारस्य सत्यत्वे तद्विशिष्टस्य जीवस्य ब्रह्मैक्योपदेशो न स्याद्विरोधादित्याह -

स आत्मेति ।

एकत्वं ज्ञानकर्मसमुच्चयसाध्यमित्युपदेशार्थमित्याशङ्क्या असीतिपदविरोधान्मैवमित्याह -

स्वयमिति ।

अतस्तत्त्वज्ञानबाध्यत्वात्संसारित्वं मिथ्येत्याह -

अतश्चेति ।

स्वतःसिद्धोपदेशादित्यर्थः ।

यदुक्तं व्यवहारार्थं नानात्वं सत्यमिति, तत्किं ज्ञानादूर्ध्वं व्यवहारार्थं प्राग्वा । नाद्य इत्याह -

बाधिते चेति ।

स्वभावोऽत्राविद्या तया कृतः स्वाभाविकः । ज्ञानादूर्ध्वं प्रमातृत्वादिव्यवहारस्याभावान्नानात्वं न कल्प्यमित्यर्थः । न द्वितीयः, ज्ञानात्प्राक्कल्पितनानात्वेन व्यवहारोपपत्तौ नानात्वस्य सत्यत्वासिद्धेः ।

यत्तु प्रमातृत्वादिव्यवहारः सत्य एव मोक्षावस्थायां निवर्तत इति, तन्नेत्याह -

न चायमिति ।

संसारसत्यत्वे तदवस्थायां जीवस्य ब्रह्मत्वं न स्यात् , भेदाभेदयोरेकदैकत्र विरोधात् । अतोऽसंसारिब्रह्माभेदस्य सदातनत्वावगमात्संसारोऽपि मिथ्यैवेत्यर्थः । किञ्च यथा लोके कश्चित्तस्करबुद्ध्या भटैर्गृहीतोऽनृतवादी चेत्तप्तपरशुं गृह्णाति स दह्यते बध्यते च, तथा नानात्ववादी दह्यते सत्यवादी चेन्न दह्यते मुच्यते च ।

तथैतदात्म्यमिदं सर्वमित्येकत्वदर्शी मुच्यत इति श्रुतदृष्टान्तेनैकत्वं सत्यं नानात्वं मिथ्येत्याह -

तस्करेति ।

व्यवहारगोचरो नानात्वव्यवहाराश्रयः ।

नानात्वनिन्दयाप्येकत्वमेव सत्यमित्याह -

मृत्योरिति ।

किञ्चास्मिन्भेदाभेदमते जीवस्य ब्रह्माभेदज्ञानाद्भेदज्ञाननिवृत्तेर्मुक्तिरिष्टा सा न युक्ता, भेदज्ञानस्य भ्रमत्वानभ्युपगमात् , प्रमायाः प्रमान्तराबाध्यत्वादित्याह -

न चास्मिन्निति ।

वैपरीत्यस्यापि सम्भवादिति भावः ।

इदानीं प्रत्यक्षादिप्रामाण्यान्यथानुपपत्त्या नानात्वस्य सत्यत्वमिति पूर्वपक्षबीजमुद्घाटयति -

नन्वित्यादिना ।

एकत्वस्यैकान्तः कैवल्यम् । व्याहन्येरन्नप्रमाणानि स्युः । उपजीव्यप्रत्यक्षादिप्रामाण्याय वेदान्तानां भेदाभेदपरत्वमुचितमिति भावः ।

ननु कर्मकारकाणां यजमानादीनां विद्याकारकाणां शिष्यादीनां च कल्पितभेदमाश्रित्य कर्मज्ञानकाण्डयोः प्रवृत्तेः स्वप्रमेयस्य धर्मादेरबाधात्प्रामाण्यमव्याहतमित्याशङ्क्याह -

कथं चानृतेनेति ।

धूलिकल्पितधूमेनानुमितस्य वह्नेरिव प्रमेयबाधापत्तेरिति भावः ।

तत्र द्वैतविषये प्रत्यक्षादीनां यावद्बाधं व्यावहारिकं प्रामाण्यमुपपद्यत इत्याह -

अत्रोच्यत इत्यादिना ।

सत्यत्वं बाधाभावः । बाधो मिथ्यात्वनिश्चयः ।

वस्तुतो मिथ्यात्वेऽपि विकारेषु तन्निश्चयाभावेन प्रत्यक्षादिव्यवहारोपपत्तावुक्तदृष्टान्तं विवृणोति -

यथा सुप्तस्य प्राकृतस्येति ।

एवं द्वैतप्रमाणानां व्यवहारकाले बाधशून्यार्थबोधकत्वं व्यावहारिकं प्रामाण्यमुपपाद्य द्वैतप्रमाणानां वेदान्तानां सर्वकालेषु बाधशून्यब्रह्मबोधकत्वं तात्त्विकं प्रामाण्यमुपपादयितुमुक्तशङ्कामनुवदति -

कथं त्वसत्येनेति ।

किमसत्यात्सत्यं न जायते, किमुत सत्यस्य ज्ञानं न । आद्य इष्ट एव । न हि वयं वाक्योत्थज्ञानं सत्यमित्यङ्गीकुर्मः ।

अङ्गीकृत्यापि दृष्टान्तमाह -

नैष दोष इति ।

सर्पेणादष्टस्यापि दष्टत्वभ्रान्तिकल्पितविषात्सत्यमरणमूर्च्छादिदर्शनादसत्यात्सत्यं न जायत इत्यनियम इत्यर्थः ।

दृष्टान्तान्तरमाह -

स्वप्नेति ।

असत्यात्सर्पोदरादेः सत्यस्य दंशनस्नानादिज्ञानस्य कार्यस्य दर्शनाद्व्यभिचार इत्यर्थः ।

यथाश्रुतमादाय शङ्कते -

तत्कार्यमपीति ।

उक्तमर्थं प्रकटयति -

तत्र ब्रूम इत्यादिना ।

अवगतिर्वृत्तिः घटादिवत्सत्यापि प्रातिभासिकस्वप्नदृष्टवस्तुनः फलं चैतन्यं वा वृत्त्यभिव्यक्तमवगतिशब्दार्थः ।

प्रसङ्गाद्देहात्मवादोऽपि निरस्त इत्याह -

एतेनेति ।

स्वप्नस्थावगतेः स्वप्नदेहधर्मत्व उत्थितस्य मया तादृशः स्वप्नोऽवगत इत्यबाधितावगतिप्रतिसन्धानं न स्यात् । अतो देहभेदेऽप्यनुसन्धानदर्शनाद्देहान्योऽनुसन्धातेत्यर्थः ।

असत्यात्सत्यस्य ज्ञानं न जायत इति द्वितीयनियमस्य श्रुत्या व्यभिचारमाह -

तथा च श्रुतिरिति ।

न च स्त्रियो मिथ्यात्वेऽपि तद्दर्शनात्सत्यादेव सत्यायाः समृद्धेर्ज्ञानमिति वाच्यम् , विषयविशिष्टत्वेन दर्शनस्यापि मिथ्यात्वात्प्रकृतेऽपि सत्ये ब्रह्मणि मिथ्यावेदानुगतचैतन्याज्ज्ञानसम्भवाच्चेति भावः ।

असत्यात्सत्यस्येष्टस्य ज्ञानमुक्त्वानिष्टस्य ज्ञानमाह -

तथेति ।

असत्यात्सत्यस्य ज्ञाने दृष्टान्तान्तरमाह -

तथाकारादीति ।

रेखास्वकारत्वादिभ्रान्त्या सत्या अकारादयो ज्ञायन्त इति प्रसिद्धमित्यर्थः । एवमसत्यात्सत्यस्य जन्मोक्त्या तदर्थक्रियाकारि तत्सत्यमिति नियमो भग्नः, अनृतात्सत्यस्य ज्ञानोक्त्या यदनृतकरणगम्यं तद्बाध्यं कूटलिङ्गानुमितवह्निवदिति व्याप्तिर्भग्ना । तथा च कल्पितानामपि वेदान्तानां सत्यब्रह्मबोधकत्वं सम्भवतीति तात्त्विकं प्रामाण्यमिति भावः ।

यदुक्तमेकत्वनानात्वव्यवहारसिद्धये उभयं सत्यमिति, तन्न । भेदस्य लोकसिद्धस्यापूर्वफलवदभेदविरोधेन सत्यत्वकल्पनायोगात् । किञ्च यद्युभयोरेकदा व्यवहारः स्यात्तदा स्यादपि सत्यत्वम् । नैवमस्ति । एकत्वज्ञानेन चरमेणानपेक्षेण नानात्वस्य निःशेषं बाधात् , शुक्तिज्ञानेनेव रजतस्येत्याह -

अपि चान्त्यमिति ।

ननूपजीव्यद्वैतप्रमाणविरोधादेकत्वावगतिर्नोत्पद्यत इत्यत आह -

न चेयमिति ।

तत्किलात्मतत्त्वमस्य पितुर्वाक्यात्श्वेतकेतुर्विज्ञातवानिति ज्ञानोत्पत्तेः श्रुतत्वात्सामग्रीसत्त्वाच्चेत्यर्थः । व्यावहारिकगुरुशिष्यादिभेदमुपजीव्य ज्ञायमानवाक्यार्थावगतेः प्रत्यक्षादिगतं व्यावहारिकं प्रामाण्यमुपजीव्यम् , तच्च पारमार्थिकैकत्वावगत्या न विरुध्यते । किन्तु तया विरोधादनुपजीव्यं प्रत्यक्षादेस्तात्त्विकं प्रामाण्यं बाध्यत इति भावः ।

किञ्चैकत्वावगतेः फलवत्प्रमात्वान्निष्फलो द्वैतभ्रमो बाध्य इत्याह -

न चेयमिति ।

ननु सर्वस्य द्वैतस्य मिथ्यात्वे स्वप्नो मिथ्या जाग्रत् सत्यमित्यादिर्लौकिको व्यवहारः, सत्यं चानृतं च सत्यमभवदिति वैदिकश्च कथमित्याशङ्क्य यथा स्वप्ने इदं सत्यमिदमनृतमिति तात्कालिकबाधाबाधाभ्यां व्यवहारस्तथा दीर्घस्वप्न 'पीत्युक्तस्वप्नदृष्टान्तं स्मारयति -

प्राक्चेति ।

व्यवहारार्थे नानात्वं सत्यमिति कल्पनमसङ्गतमित्युपसंहरति -

तस्मादिति ।

नेदं कल्पितम् , किन्तु श्रुतमिति शङ्कते -

नन्विति ।

कार्यकारणयोरनन्यत्वांशेऽयं दृष्टान्तः, न परिणामित्वे, ब्रह्मणः कूटस्थत्वश्रुतिविरोधादिति परिहरति -

नेत्युच्यत इति ।

सृष्टौ परिणामित्वं प्रलये तद्राहित्यं च क्रमेणाविरुद्धमिति दृष्टान्तेन शङ्कते -

स्थितीति ।

कूटस्थस्य कदाचिदपि विक्रिया न युक्ता कूटस्थत्वव्याघातादित्याह -

नेति ।

कूटस्थत्वासिद्धिमाशङ्क्याह -

कूटस्थस्येति ।

कूटस्थस्य निरवयवस्य पूर्वरूपत्यागेनावस्थान्तरात्मकपरिणामायोगाच्छुक्तिरजतवद्विवर्त एव प्रपञ्च इति भावः ।

किञ्च निष्फलस्य जगतः फलवन्निष्प्रपञ्चब्रह्मधीशेषत्वेनानुवादान्न सत्यतेत्याह -

न च यथेत्यादिना ।

'तं यथा यथोपासते तदेव भवति' इति श्रुतेर्ब्रह्मणः परिणामित्वविज्ञानात्तत्प्राप्तिर्विदुषः फलमित्याशङ्क्याह -

न हि परिणामवत्त्वेति ।

'ब्रह्मविदाप्नोति परम्' इति श्रुतकूटस्थनित्यमोक्षफलसम्भवे दुःखानित्यपरिणामित्वफलकल्पनायोगादिति भावः ।

ननु पूर्वं 'जन्माद्यस्य यतः' इति ईश्वरकारणप्रतिज्ञा कृता । अधुना तदनन्यत्वमित्यन्ताभेदप्रतिपादने ईशित्रीशितव्यभेदाभावात्तद्विरोधः स्यादिति शङ्कते -

कूटस्थेति ।

कल्पितद्वैतमपेक्ष्येश्वरत्वादिकं परमार्थतोऽनन्यत्वमित्यविरोधमाह -

नेत्यादिना ।

अविद्यात्मके चिदात्मनि लीने नामरूपे एव बीजं तस्य व्याकरणं स्थूलात्मना सृष्टिस्तदपेक्षत्वादीश्वरत्वादेर्न विरोध इत्यर्थः ।

सङ्गृहीतार्थं विवृणोति -

तस्मादित्यादिना ।

तत्वान्यत्वाभ्यामिति ।

नामरूपयोरीश्वरत्वं वक्युमशक्यं जडत्वात् । नापीश्वरादन्यत्वं कल्पितस्य पृथक्सत्तास्फूर्त्योरभावादित्यर्थः ।

संस्कारात्मकनामरूपयोरविद्यैक्यविवक्षया ब्रूते -

मायेति ।

नामरूपे चेदीश्वरस्यात्मभूते तर्हीश्वरो जड इत्यत आह -

ताभ्यामन्य इति ।

अन्यत्वे व्याकरणे च श्रुतिमाह -

आकाश इत्यादिना ।

अविद्याद्युपाधिना कल्पितभेदेन बिम्बस्थानस्येश्वरत्वम् , प्रतिबिम्बभूतानां जीवानां नियम्यत्वमित्याह -

स च स्वात्मभूतानिति ।

न चात्र नानाजीवा भाष्योक्ता इति भ्रमितव्यम् , बुद्ध्यादिसङ्घातभेदेन भेदोक्तेः । अविद्याप्रतिबिम्बस्त्वेक एव जीव इत्युक्तम् ।

परमार्थत ईश्वरत्वादिद्वैताभावे श्रुतिमाह -

तथा चेति ।

कथं तर्हि कर्तृत्वादिकमित्यत आह -

स्वभावस्त्विति ।

अनाद्यविद्यैव कर्तृत्वादिरूपेण प्रवर्तत इत्यर्थः ।

भक्ताभक्तयोः पापसुकृतनाशकत्वादीश्वरस्य वास्तवमीश्वरत्वमित्यत आह -

नादत्त इति ।

न संहरतीत्यर्थः । तेन स्वरूपज्ञानावरणेन कर्ताहमीश्वरो मे नियन्तेत्येवं भ्रमन्ति ।

उक्तार्थः सूत्रकारसम्मत इत्याह -

सूत्रकारोऽपीति ।

न केवलं लौकिकव्यवहारार्थं परिणामप्रक्रियाश्रयणं किन्तूपासनार्थं चेत्याह -

परिणामप्रक्रियां चेति ।

तदुक्तम् 'कृपणाधीः परिणाममुदीक्षते क्षयितकल्मषधीस्तु विवर्तताम्' इति ॥१४॥