नन्वखण्डैकरूपे ब्रह्मणि कथं जीवेश्वरवैचित्र्यम् , कथं च तत्कार्यवैचित्र्यमित्यनुपपत्तिं दृष्टान्तैः परिहरति सूत्रकारः -
अश्मादिवच्चेति ।
किम्पाको महातालफलम् । तत्तत्कार्यसंस्काररूपानादिशक्तिभेदाद्वैचित्र्यमिति भावः ।
सूत्रस्थचकारार्थमाह -
श्रुतेश्चेति ।
ब्रह्म जीवगतदोषवत् , जीवाभिन्नत्वात् , जीववदित्याद्यनुमानं स्वतःप्रमाणनिरवद्यत्वादिश्रुतिबाधितम् । किञ्च कर्तृत्वभोक्तृत्वादिविकारस्य मिथ्यात्वाज्जीवस्यैव तावद्दोषो नास्ति कुतो बिम्बस्थानीयस्याशेषविशेषदर्शिनः परमेश्वरस्य दोषप्रसक्तिः । यत्तु ब्रह्म न विचित्रकार्यप्रकृति, एकरूपात्वात् , व्यतिरेकेण मृत्तन्त्वादिवदिति । तन्न । एकरूपे स्वप्नदृशीव विचित्रदृश्यवस्तुवैचित्र्यदर्शनेन व्यभिचारादित्यर्थः । तस्मात्प्रत्यगभिन्ने ब्रह्मणि समन्वयस्याविरोध इति सिद्धम् ॥२३॥