ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अधिकं तु भेदनिर्देशात् ॥ २२ ॥
तुशब्दः पक्षं व्यावर्तयतियत्सर्वज्ञं सर्वशक्ति ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं शारीरादधिकमन्यत् , तत् वयं जगतः स्रष्टृ ब्रूमः तस्मिन्हिताकरणादयो दोषाः प्रसज्यन्ते हि तस्य हितं किञ्चित्कर्तव्यमस्ति, अहितं वा परिहर्तव्यम् , नित्यमुक्तस्वभावत्वात् तस्य ज्ञानप्रतिबन्धः शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति, सर्वज्ञत्वात्सर्वशक्तित्वाच्चशारीरस्त्वनेवंविधःतस्मिन्प्रसज्यन्ते हिताकरणादयो दोषाः तु तं वयं जगतः स्रष्टारं ब्रूमःकुत एतत् ? भेदनिर्देशात्आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) सोऽन्वेष्टव्यः विजिज्ञासितव्यः’ (छा. उ. ८ । ७ । १) सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) शारीर आत्मा प्राज्ञेनात्मनान्वारूढः’ (बृ. उ. ४ । ३ । ३५) इत्येवंजातीयकः कर्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्रह्म दर्शयतिनन्वभेदनिर्देशोऽपि दर्शितः — ‘तत्त्वमसिइत्येवंजातीयकःकथं भेदाभेदौ विरुद्धौ सम्भवेताम् ? नैष दोषः, आकाशघटाकाशन्यायेनोभयसम्भवस्य तत्र तत्र प्रतिष्ठापितत्वात्अपि यदातत्त्वमसिइत्येवंजातीयकेनाभेदनिर्देशेनाभेदः प्रतिबोधितो भवति; अपगतं भवति तदा जीवस्य संसारित्वं ब्रह्मणश्च स्रष्टृत्वम्समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात्तत्र कुत एव सृष्टिः कुतो वा हिताकरणादयो दोषाःअविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसङ्घातोपाध्यविवेककृता हि भ्रान्तिर्हिताकरणादिलक्षणः संसारः, तु परमार्थतोऽस्तीत्यसकृदवोचामजन्ममरणच्छेदनभेदनाद्यभिमानवत्अबाधिते तु भेदव्यवहारेसोऽन्वेष्टव्यः विजिज्ञासितव्यःइत्येवंजातीयकेन भेदनिर्देशेनावगम्यमानं ब्रह्मणोऽधिकत्वं हिताकरणादिदोषप्रसक्तिं निरुणद्धि ॥ २२ ॥

जीवेशयोरभेदाज्जीवजगतेर्देषा ब्रह्मणि स्युः ब्रह्मगताश्च सृष्टिसंहारशक्तिसर्वस्मर्तृत्वादयो गुणा जीवे स्युः । न चेष्टापत्तिः । जीवस्य स्वशरीरेऽपि संहारसामर्थ्यादर्शनादिति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे -

तुशब्द इत्यादिना ।

जीवेश्वरयोर्लोके बिम्बप्रतिबिम्बयोरिव कल्पितभेदाङ्गीकाराद्धर्मव्यवस्थेति सिद्धान्तग्रन्थार्थः । यदि वयं जीवं स्रष्टारं ब्रूमस्तदा दोषाः प्रसज्यन्ते न तु तं ब्रूम इत्यन्वयः ।

किञ्चाभेदाज्ञानादूर्ध्वं वा दोषा आपाद्यन्ते, पूर्वं वा । नाद्य इत्याह -

अपि चेति ।

उक्तं मिथ्याज्ञानविजृम्भितत्वं स्फुटयति -

अविद्येति ।

कर्तृत्वादिबुद्धिधर्माध्यासे देहधर्माध्यासं दृष्टान्तयति -

जन्मेति ।

द्वितीयं प्रत्याह -

अबाधिते त्विति ।

ज्ञानादूर्ध्वं स्रष्टृत्वादिधर्माणां बाधात्पूर्वं च कल्पितभेदेन व्यवस्थोपपत्तेर्न किञ्चिदवद्यमित्यर्थः ॥२२॥