ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥
तुशब्देनाक्षेपं परिहरति खल्वस्मत्पक्षे कश्चिदपि दोषोऽस्ति तावत्कृत्स्नप्रसक्तिरस्तिकुतः ? श्रुतेःयथैव हि ब्रह्मणो जगदुत्पत्तिः श्रूयते, एवं विकारव्यतिरेकेणापि ब्रह्मणोऽवस्थानं श्रूयतेप्रकृतिविकारयोर्भेदेन व्यपदेशात् सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति, तावानस्य महिमा ततो ज्यायाꣳश्च पूरुषःपादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इति चैवंजातीयकात्तथा हृदयायतनत्ववचनात्; सत्सम्पत्तिवचनाच्चयदि कृत्स्नं ब्रह्म कार्यभावेनोपयुक्तं स्यात् , सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) इति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात् , विकृतेन ब्रह्मणा नित्यसम्पन्नत्वादविकृतस्य ब्रह्मणोऽभावात्तथेन्द्रियगोचरत्वप्रतिषेधात् ब्रह्मणो, विकारस्य चेन्द्रियगोचरत्वोपपत्तेःतस्मादस्त्यविकृतं ब्रह्म निरवयवत्वशब्दकोपोऽस्ति, श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात्शब्दमूलं ब्रह्म शब्दप्रमाणकम्नेन्द्रियादिप्रमाणकम्तद्यथाशब्दमभ्युपगन्तव्यम्शब्दश्चोभयमपि ब्रह्मणः प्रतिपादयतिअकृत्स्नप्रसक्तिं निरवयवत्वं लौकिकानामपि मणिमन्त्रौषधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशाच्छक्तयो विरुद्धानेककार्यविषया दृश्यन्तेता अपि तावन्नोपदेशमन्तरेण केवलेन तर्केणावगन्तुं शक्यन्तेअस्य वस्तुन एतावत्य एतत्सहाया एतद्विषया एतत्प्रयोजनाश्च शक्तय इतिकिमुताचिन्त्यस्वभावस्य ब्रह्मणो रूपं विना शब्देन निरूप्येततथा चाहुः पौराणिकाः — ‘अचिन्त्याः खलु ये भावा तांस्तर्केण योजयेत्प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम्इतितस्माच्छब्दमूल एवातीन्द्रियार्थयाथात्म्याधिगमःननु शब्देनापि शक्यते विरुद्धोऽर्थः प्रत्याययितुम्निरवयवं ब्रह्म परिणमते कृत्स्नमितियदि निरवयवं ब्रह्म स्यात् , नैव परिणमेत, कृत्स्नमेव वा परिणमेतअथ केनचिद्रूपेण परिणमेत केनचिच्चावतिष्ठेतेति, रूपभेदकल्पनात्सावयवमेव प्रसज्येतक्रियाविषये हिअतिरात्रे षोडशिनं गृह्णाति’ ‘नातिरात्रे षोडशिनं गृह्णातिइत्येवंजातीयकायां विरोधप्रतीतावपि विकल्पाश्रयणं विरोधपरिहारकारणं भवति, पुरुषतन्त्रत्वाच्चानुष्ठानस्यइह तु विकल्पाश्रयणेनापि विरोधपरिहारः सम्भवति, अपुरुषतन्त्रत्वाद्वस्तुनःतस्माद्दुर्घटमेतदितिनैष दोषः, अविद्याकल्पितरूपभेदाभ्युपगमात् ह्यविद्याकल्पितेन रूपभेदेन सावयवं वस्तु सम्पद्यते हि तिमिरोपहतनयनेनानेक इव चन्द्रमा दृश्यमानोऽनेक एव भवतिअविद्याकल्पितेन नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यतेपारमार्थिकेन रूपेण सर्वव्यवहारातीतमपरिणतमवतिष्ठते, वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्यइति निरवयवत्वं ब्रह्मणः कुप्यति चेयं परिणामश्रुतिः परिणामप्रतिपादनार्था, तत्प्रतिपत्तौ फलानवगमात्सर्वव्यवहारहीनब्रह्मात्मभावप्रतिपादनार्था त्वेषा, तत्प्रतिपत्तौ फलावगमात्; ‘ एष नेति नेत्यात्माइत्युपक्रम्याह अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४) इति; तस्मादस्मत्पक्षे कश्चिदपि दोषप्रसङ्गोऽस्ति ॥ २७ ॥

परिणामपक्षो दुर्घट इति यदुक्तं तदस्मदिष्टमेवेति विवर्तवादेन सिद्धान्तयति -

श्रुतेरिति ।

स्वपक्षे पूर्वोक्तदोषद्वयं नास्तीति सूत्रयोजनया दर्शयति -

तुशब्देनेत्यादिना ।

ईक्षितृत्वेन व्याकर्तृत्वेन चेक्षणीयव्याकर्तव्यप्रपञ्चात्पृथगीश्वरसत्त्वश्रुतेर्न कृत्स्नप्रसक्तिरित्याह -

सेयं देवतेति ।

न्यूनाधिकभावेनापि पृथक्सत्त्वं श्रुतमित्याह -

तावानिति ।

इतश्चास्त्यविकृतं ब्रह्मेत्याह -

तथेति ।

'स वा एष आत्मा हृदि' इति श्रुतेरस्ति दृश्यातिरिक्तं ब्रह्म । 'तदा' इति सुषुप्तिकालरूपविशेषणाच्चेत्यर्थः ।

लिङ्गान्तरमाह -

तथेन्द्रियेति ।

भूम्यादेर्विकारस्येन्द्रियगोचरत्वात् 'न चक्षुषा गृह्यते' इत्यादिश्रुत्या ब्रह्मणस्तत्प्रतिषेधादवाङ्मनसगोचरत्वश्रुतेश्चास्ति कूटस्थं ब्रह्मेत्यर्थः ।

कृत्स्नप्रसक्तिदोषो नास्तीत्युक्त्वा द्वितीयदोषोऽपि नास्तीत्याह -

न चेति ।

ननु ब्रह्म कार्यात्मनाप्यस्ति, पृथगप्यस्ति चेत्सावयवत्वं दुर्वारम् , निरवयवस्यैकस्य द्विधा सत्त्वायोगात् , अतो यद्द्विधाभूतं तत्सावयमिति तर्कविरुद्धं ब्रह्मणो निरवयवत्वमिति विवर्तमजानतः शङ्कां गूढाशय एव परिहरति -

शब्दमूलं चेति ।

यदा लौकिकानां प्रत्यक्षदृष्टानामपि शक्तिरचिन्त्या तदा शब्दैकसमधिगम्यस्य ब्रह्मणः किमु वक्तव्यम् । अतो ब्रह्मणो निरवयवत्वं द्विधाभावश्चेत्युभयं यथाशब्दमभ्युपगन्तव्यम् । न तर्केण बाधनीयमित्यर्थः । प्रकृतिभ्यः प्रत्यक्षदृष्टवस्तुस्वभावेभ्यो यत्परं विलक्षणं केवलोपदेशगम्यं तदचिन्त्यस्वरूपमिति स्मृत्यर्थः ।

आशयानवबोधेन शङ्कते -

ननु शब्देनापीति ।

यद्वा ब्रह्म परिणामीत्येकदेशिनामियं सिद्धान्तसूत्रव्याख्या दर्शिता तामाक्षिपति -

नन्विति ।

शब्दस्य योग्यताज्ञानसापेक्षत्वादित्यर्थः ।

ननु ब्रह्म सावयवं निरवयवं वेति विकल्पाश्रयणे सर्वश्रुतिसमाधानं स्यादित्यत आह -

क्रियेति ।

निरवयवत्वे ब्रह्मणः प्रकृतित्वश्रुतिविरोधः, सावयवत्वे निरवयवत्वशब्दविरोधः, विकल्पश्च वस्तुन्ययुक्तः, अतः प्रकारान्तरानुपलम्भाच्छ्रुतीनां प्रामाण्यं दुर्घटमिति प्राप्ते स्वाशयमुद्धाटयति -

नैष दोष इति ।

निरवयवस्य वस्तुनः कूटस्थस्याप्यविद्यया कल्पितनामरूपविकाराङ्गीकाराद्दुर्घटत्वदोषो नास्ति । वास्तवकौटस्थ्यस्य कल्पितविकारप्रकृतित्वेनाविरोधादित्यर्थः ।

रूपभेदाङ्गीकारे सावयवत्वं स्यादित्याशङ्क्योक्तं विवृणोति -

न हीत्यादिना ।

कृत्स्नप्रसक्तिं निरस्य दोषान्तरं निरस्यति -

वाचारम्भणेति ।

ननु श्रुतिप्रतिपाद्यस्य परिणामस्य कथं मिथ्यात्मत्वम् , तत्राह -

न चेयमिति ।

निष्प्रपञ्चब्रह्मधीशेषत्वेन सृष्टिरनूद्यते न प्रतिपाद्यत इत्यसकृदावेदितम् , अतो विवर्तवादे न कश्चिद्दोष इत्युपसंहरति -

तस्मादिति ॥२७॥