न प्रयोजनवत्त्वात् ।
परितृप्ताद्ब्रह्मणो जगत्सर्गं वदन् समन्वयो विषयः ।
स किमभ्रान्तश्चेतनो यः स निष्फलं वस्तु न रचयतीति न्यायेन विरुध्यते न वेति सन्देहे पूर्वमदेहस्यापि श्रुतिबलात् शक्तत्वोक्त्या कर्तृत्वमुक्तं तदाक्षेपसङ्गत्या पूर्वपक्षसूत्रं व्याचष्टे -
अन्यथेत्यादिना ।
ईश्वरस्य फलाभावेऽपि परप्रयोजनाय सृष्टौ प्रवृत्तिरस्त्वित्याशङ्क्य श्रुतिमाह -
भवति चेति ।
या प्रेक्षावत्प्रवृत्तिः सा स्वफलार्थेति लोकप्रसिद्धिः । न च दयालुप्रवृत्तौ व्यभिचारः, तस्यापि परदुःखासहनप्रयुक्तस्वचित्तव्याकुलतानिवृत्त्यर्थित्वादिति भावः ।
किञ्च गुरुतरायासस्य फलं वाच्यमित्याह -
गुरुतरेति ।
तर्ह्यस्तीश्वरस्यापि प्रवृत्तिः स्वार्थेत्यत आह -
यदीयमपीति ।
अस्वार्थत्वे प्रवृत्त्यभावः पूर्वोक्तः स्यादित्यर्थः ।
ईश्वरः प्रेक्षावान्न भवतीत्याशङ्क्य श्रुतिविरोधमाह -
अथेत्यादिना ।
बुद्धेरपराधो विवेकाभावः ॥३२॥