ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
यद्यपीदं वेदान्तवाक्यानामैदंपर्यं निरूपयितुं शास्त्रं प्रवृत्तम् , तर्कशास्त्रवत्केवलाभिर्युक्तिभिः कञ्चित्सिद्धान्तं साधयितुं दूषयितुं वा प्रवृत्तम् , तथापि वेदान्तवाक्यानि व्याचक्षाणैः सम्यग्दर्शनप्रतिपक्षभूतानि साङ्ख्यादिदर्शनानि निराकरणीयानीति तदर्थः परः पादः प्रवर्ततेवेदान्तार्थनिर्णयस्य सम्यग्दर्शनार्थत्वात्तन्निर्णयेन स्वपक्षस्थापनं प्रथमं कृतम्तद्ध्यभ्यर्हितं परपक्षप्रत्याख्यानादितिननु मुमुक्षूणां मोक्षसाधनत्वेन सम्यग्दर्शननिरूपणाय स्वपक्षस्थापनमेव केवलं कर्तुं युक्तम्किं परपक्षनिराकरणेन परविद्वेषकरेण ? बाढमेवम्तथापि महाजनपरिगृहीतानि महान्ति साङ्ख्यादितन्त्राणि सम्यग्दर्शनापदेशेन प्रवृत्तान्युपलभ्य भवेत्केषाञ्चिन्मन्दमतीनाम्एतान्यपि सम्यग्दर्शनायोपादेयानिइत्यपेक्षा, तथा युक्तिगाढत्वसम्भवेन सर्वज्ञभाषितत्वाच्च श्रद्धा तेषुइत्यतस्तदसारतोपपादनाय प्रयत्यतेननु ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) कामाच्च नानुमानापेक्षा’ (ब्र. सू. १ । १ । १८) एतेन सर्वे व्याख्याता व्याख्याताः’ (ब्र. सू. १ । ४ । २८) इति पूर्वत्रापि साङ्ख्यादिपक्षप्रतिक्षेपः कृतः; किं पुनः कृतकरणेनेतितदुच्यतेसाङ्ख्यादयः स्वपक्षस्थापनाय वेदान्तवाक्यान्यप्युदाहृत्य स्वपक्षानुगुण्येनैव योजयन्तो व्याचक्षते, तेषां यद्व्याख्यानं तद्व्याख्यानाभासम् , सम्यग्व्याख्यानम्इत्येतावत्पूर्वं कृतम्; इह तु वाक्यनिरपेक्षः स्वतन्त्रस्तद्युक्तिप्रतिषेधः क्रियत इत्येष विशेषः

साङ्ख्यतार्किकबौद्धाश्च जैनाः पाशुपतादयः ।
यस्य तत्त्वं न जानन्ति तं वन्दे रघुपुङ्गवम् ॥१॥

ब्रह्मणि सर्वधर्मोपपत्तिवत्प्रधानेऽपि तदुपपत्तिमाशङ्क्य निराचष्टे -

रचनानुपपत्तेश्च नानुमानम् ।

ननु मुमुक्षूणां वाक्यार्थनिर्णयप्रतिबन्धनिरासाय वेदान्तानां तात्पर्यं निश्चेतुमिदं शास्त्रमारब्धं तच्च निर्देषतया निश्चितम् , ततः परपक्षनिरासात्मकोऽयं पादोऽस्मिन् शास्त्रे न सङ्गतः, तन्निरासस्य मुमक्ष्वनपेक्षितत्वादित्याक्षिपति -

यद्यपीति ।

परपक्षनिराकरणं विनास्वपक्षस्थैर्यायोगात्तत्कर्तव्यमित्याह -

तथापीति ।

तर्हि स्वपक्षस्थापनात्प्रागेव परपक्षप्रत्याख्यानं कार्यमित्यत आह -

वेदान्तार्थेति ।

वेदान्ततात्पर्यनिर्णयस्य फलवज्ज्ञानकरणान्तर्भावादभ्यर्हितत्वम् ।

ननु रागद्वेषकरणत्वात्परमतनिराकरणं न कार्यमिति शङ्कते -

नन्विति ।

तत्त्वनिर्णयप्रधाना खल्वियं कथारब्धा,तत्त्वनिर्णयश्च परमतेष्वश्रद्धां विना न सिध्यति, सा च तेषु भ्रान्तिमूलत्वनिश्चयं विना न सिध्यति, स च इमं पादं विना नेति स्वसिद्धान्तसंरक्षणार्थत्वात्प्रधानसिध्यर्थत्वादयं पादोऽस्मिन् शास्त्रे सङ्गतः, सङ्गतत्वाद्वीतरागेणापि कर्तव्य इत्यभिसन्धायोक्ताङ्गीकारेण समाधत्ते -

बाढमित्यादिना ।

अपदेशेन व्याजेन । मन्दमतीनां तेषु श्रद्धानिमित्तानि बहूनि सन्तीति तन्निरासाय यत्नः क्रियत इत्यर्थः । स्वमतश्रद्धापरमतद्वेषौ तु प्रधानसिद्ध्यर्थत्वादङ्गीकृतौ । नाप्ययं द्वेषः । परपक्षत्वबुद्ध्या हि निरासो द्वेषमावहति न तु तत्त्वनिर्णयेच्छया कृत इति मन्तव्यम् ।

पौनरुक्त्यं शङ्कते -

नन्वीक्षतेरिति ।

पूर्वं साङ्ख्यादीनां श्रुत्यर्थानुग्राहकतर्कनिरासादश्रौतत्वमुक्तम् , सम्प्रति श्रुत्यनपेक्षास्तदीयाः स्वतन्त्रा युक्तयो निरस्यन्त इत्यर्थभेदान्न पुनरुक्तिरित्याह -

तदुच्यत इति ।