प्रधानमचेतनं जगदुपादानमिति साङ्ख्यसिद्धान्तोऽत्र विषयः स किं प्रमाणमूलो भ्रान्तिमूलो वेति सन्देहे 'सर्वधर्मोपपत्तेश्च' इत्युक्तधर्माणां प्रधाने सम्भवात्तदेवोपादानमित्याक्षेपसङ्गत्या प्रमाणमूलत्वं दर्शयन् पूरवपक्षमाह -
तत्र साङ्ख्या इति ।
स्वसिद्धान्तज्ञानस्य परमतनिरासं प्रत्युपजीव्यत्वात्पादयोः सङ्गतिः । परमतनिरासात्मकत्मात्सर्वेषामधिकरणानामेतत्पादसङ्गतिः । पूर्वपक्षे प्रमाणमूलमतविरोधादुक्तश्रुत्यर्थसमन्वयासिद्धिः फलम् , सिद्धान्ते तत्सिद्धिरित्यापादं द्रष्टव्यम् । मूलश्रौतसमन्वयदार्ढ्यार्थत्वादस्य पादस्य श्रुतिसङ्गतिरिति विवेकः ।
भिद्यन्त इति भेदा विकाराः, ये विकारा येनान्वितास्ते तत्प्रकृतिका इति व्याप्तिमाह -
यथेति ।
सर्वं कार्यं सुखदुःखमोहात्मकवस्तुप्रकृतिकम् , तदन्वितत्वात् , घटादिवदित्यनुमानमाह -
तथेति ।
किमर्थं प्रधानं परिणमते, तत्राह -
चेतनस्येति ।
अर्थो भोगापवर्गरूपः, तदर्थं स्वभावत एव प्रवर्तते न तु केन चिच्चेतनेन प्रेर्यत इत्यर्थः । तदुक्तम् 'पुरुषार्थ एव हेतुर्न केन चित्कार्यते करणम्' इति ।
अनुमानान्तराणि तैरुक्तानि स्मारयति -
तथेति ।
उक्तं हि 'भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ ' इति । अत्र कारिकायां समन्वयादिति लिङ्गं व्याख्यातम् । शिष्टानि व्याख्यायन्ते । तथा हि क्षित्यादीनां भेदानां कारणमव्यक्तमस्ति, परिमितत्वात् , घटवत् । न च दृष्टान्ते साध्यवैकल्यम् , घटोत्पत्तेः प्रागनभिव्यक्तघटादिरूपकार्यविशिष्टत्वेन मृदोऽप्यव्यक्तत्वात् । तथा घटादीनां कारणशक्तितः प्रवृत्तेर्महदादिकार्याणामपि कारणशक्तितः प्रवृत्तिर्वाच्या, तच्छक्तिमत्कारणमव्यक्तम् । किञ्च कारणात्कार्यस्य विभागो जन्म दृश्यते क्षितेर्मृत्तिका जायते ततो घट इति । एवमविभागः प्रातिलोम्येन प्रलयो दृश्यते घटस्य मृत्तिकायां लयः तस्याः क्षितौ क्षितेरप्सु अपां तेजसीति । एतौ विभागाविभागौ वैश्वरूप्यस्य विचित्रस्य भावजातस्य दृश्यमानौ पृथक्पक्षीकृतौ क्वचित्कारणे विश्रान्तौ विभागत्वादविभागत्वाच्च मृदि घटविभागाविभागवदित्यर्थः ।