ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्रवृत्तेश्च ॥ २ ॥
आस्तां तावदियं रचनातत्सिद्ध्यर्था या प्रवृत्तिःसाम्यावस्थानात्प्रच्युतिः, सत्त्वरजस्तमसामङ्गाङ्गिभावरूपापत्तिः, विशिष्टकार्याभिमुखप्रवृत्तितासापि नाचेतनस्य प्रधानस्य स्वतन्त्रस्योपपद्यते, मृदादिष्वदर्शनाद्रथादिषु हि मृदादयो रथादयो वा स्वयमचेतनाः सन्तश्चेतनैः कुलालादिभिरश्वादिभिर्वानधिष्ठिता विशिष्टकार्याभिमुखप्रवृत्तयो दृश्यन्तेदृष्टाच्चादृष्टसिद्धिःअतः प्रवृत्त्यनुपपत्तेरपि हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवतिननु चेतनस्यापि प्रवृत्तिः केवलस्य दृष्टासत्यमेतत्तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृत्तिर्दृष्टा; त्वचेतनसंयुक्तस्य चेतनस्य प्रवृत्तिर्दृष्टाकिं पुनरत्र युक्तम्यस्मिन्प्रवृत्तिर्दृष्टा तस्य सा, उत यत्सम्प्रयुक्तस्य दृष्टा तस्य सेति ? ननु यस्मिन्दृश्यते प्रवृत्तिस्तस्यैव सेति युक्तम् , उभयोः प्रत्यक्षत्वात्; तु प्रवृत्त्याश्रयत्वेन केवलश्चेतनो रथादिवत्प्रत्यक्षःप्रवृत्त्याश्रयदेहादिसंयुक्तस्यैव तु चेतनस्य सद्भावसिद्धिःकेवलाचेतनरथादिवैलक्षण्यं जीवद्देहस्य दृष्टमितिअत एव प्रत्यक्षे देहे सति दर्शनादसति चादर्शनाद्देहस्यैव चैतन्यमपीति लोकायतिकाः प्रतिपन्नाःतस्मादचेतनस्यैव प्रवृत्तिरितितदभिधीयते ब्रूमः यस्मिन्नचेतने प्रवृत्तिर्दृश्यते तस्य सेतिभवतु तस्यैव सासा तु चेतनाद्भवतीति ब्रूमः, तद्भावे भावात्तदभावे चाभावात्यथा काष्ठादिव्यपाश्रयापि दाहप्रकाशादिलक्षणा विक्रिया, अनुपलभ्यमानापि केवले ज्वलने, ज्वलनादेव भवति, तत्संयोगे दर्शनात्तद्वियोगे चादर्शनात्तद्वत्लोकायतिकानामपि चेतन एव देहोऽचेतनानां रथादीनां प्रवर्तको दृष्ट इत्यविप्रतिषिद्धं चेतनस्य प्रवर्तकत्वम्ननु तव देहादिसंयुक्तस्याप्यात्मनो विज्ञानस्वरूपमात्रव्यतिरेकेण प्रवृत्त्यनुपपत्तेरनुपपन्नं प्रवर्तकत्वमिति चेत् , अयस्कान्तवद्रूपादिवच्च प्रवृत्तिरहितस्यापि प्रवर्तकत्वोपपत्तेःयथायस्कान्तो मणिः स्वयं प्रवृत्तिरहितोऽप्ययसः प्रवर्तको भवति, यथा वा रूपादयो विषयाः स्वयं प्रवृत्तिरहिता अपि चक्षुरादीनां प्रवर्तका भवन्ति, एवं प्रवृत्तिरहितोऽपीश्वरः सर्वगतः सर्वात्मा सर्वज्ञः सर्वशक्तिश्च सन् सर्वं प्रवर्तयेदित्युपपन्नम्एकत्वात्प्रवर्त्याभावे प्रवर्तकत्वानुपपत्तिरिति चेत् , अविद्याप्रत्युपस्थापितनामरूपमायावेशवशेनासकृत्प्रत्युक्तत्वात्तस्मात्सम्भवति प्रवृत्तिः सर्वज्ञकारणत्वे, त्वचेतनकारणत्वे ॥ २ ॥

स्वतन्त्रमचेतनं कारणत्वेन नानुमातव्यम् , तस्य सृष्ट्यर्थं प्रवृत्तेरनुपपत्तेरिति चकारेणानुपपत्तिपदमनुषज्य सूत्रं योजनीयम् । रचनाप्रवृत्त्योः को भेद इत्याशङ्क्य प्रवृत्तिस्वरूपमाह -

साम्येति ।

गुणानां किल साम्यावस्था तत्त्वानां प्रलयः, तदा न किञ्चित्कार्यं भवति प्रलयाभावप्रसङ्गात् । किन्त्वादौ साम्यप्रच्युतिरूपं वैषम्यं भवति, ततः कस्यचिद्गुणस्याङ्गित्वमुद्भूतत्वेन प्राधान्यं कस्यचिदङ्गत्वं शेषत्वमित्यङ्गाङ्गिभावो भवति, तस्मिन् सति महदादिकार्योत्पादनात्मिका प्रवृत्तिः, तया विविधकार्यविन्यासो रचनेति भेद इत्यर्थः ।

गुणानां प्रवृत्तिश्चेतनाधिष्ठानपूर्विका, प्रवृत्तित्वात् , रथादिप्रवृत्तिवदित्याह -

सापीति ।

विपक्षे स्वतन्त्रे प्रवृत्त्यनुपपत्तिरित्यर्थः । केचित्तु भेदानां प्रवृत्तिशक्तिमत्वाच्चेतनानधिष्ठताचेतनप्रकृतिकत्वमिति शक्तितः प्रवृत्तिरिति लिङ्गं व्याचक्षते । अस्यापि गुणेषु व्यभिचारः । कार्यत्वविशेषणे च विरुद्धता, प्रवृत्तिशक्तिमत्वे सति कार्यत्वस्य घटादिषु चेतनाधिष्टितप्रकृतिकत्वेनोक्तसाध्यविरुद्धेन व्याप्तिदर्शनादिति 'प्रवृत्तेश्च' इति सूत्रेण ज्ञापितम् ।

ननु लोके स्वतन्त्राचेतनानां प्रवृत्यदर्शनेऽपि प्रधाने सा प्रवृत्तिः सिध्यतु, तत्राह -

दृष्टाच्चेति ।

अनुमानशरणस्य तव दृष्टन्तं विनातीन्द्रियार्थसिद्ध्ययोगादिति भावः ।

ननु प्रधानस्य प्रवृत्तिं खण्डयता चेतनस्य सृष्टौ प्रवृत्तिर्वाच्या सा न युक्तेति साङ्ख्यः शङ्कते -

नन्विति ।

शुद्धचेतनस्य प्रवृत्त्ययोगमङ्गीकरोति -

सत्यमिति ।

तर्हि केवलस्याचेतनस्य प्रवृत्तिसिद्धिरन्यथा सृष्ट्ययोगात् , तत्राह -

तथापीति ।

केवलस्य चेतनस्याप्रवृत्तावपि चेतनाचेतनयोर्मिथः सम्बन्धात्सृष्टिप्रवृत्तिरिति भावः ।

इमं वेदान्तसिद्धान्तं साङ्ख्यो दूषयति -

न त्विति ।

सर्वा प्रवृत्तिरचेतनाश्रयैव दृष्टा । न त्वचेतनसम्बन्धेनापि चेतनस्य क्वचित्प्रवृत्तिर्दृष्टा । तस्मान्न चेतनात्सृष्टिरित्यर्थः ।

मतद्वयं श्रुत्वा मध्यस्थः पृच्छति -

किं पुनरिति ।

यस्मिन्न चेतने रथादौ प्रवृत्तिर्दृष्टा तस्यैव सा न चेतनस्तत्र हेतुरिति किं साङ्ख्यमतं साधु उत येन चेतनेनाश्वादिना संयोगादचेतनस्य प्रवृत्तिस्तत्प्रयुक्ता सेति वेदान्तिमतं वा साध्विति प्रश्नार्थः ।

साङ्ख्य आह -

नन्विति ।

उभयोः ।

प्रवृत्तितदाश्रययोरित्यर्थः । दृष्टाश्रयेणैव प्रवृत्तेरुपपत्तावदृष्टचेतनप्रवृत्तिर्न कल्प्येति भावः ।

आत्मनोऽप्रत्यक्षत्वे कथं सिद्धिः, तत्राह -

प्रवृत्तीति ।

जीवद्देहस्य रथादिभ्यो वैलक्षण्यं प्राणादिसत्त्वं लिङ्गं दृष्टमिति कृत्वा चेतनस्य सिद्धिरित्यन्वयः । जीवद्देहः सात्मकः प्राणादिमत्वात् , व्यतिरेकेण रथादिवदित्यात्मसिद्धिरित्यर्थः । देहप्रवृत्तिः स्वाश्रयादन्येन ज्ञानवता सहभूता, प्रवृत्तित्वात् , रथप्रवृत्तिवदित्यनुमानान्तरसूचनाय प्रवृत्त्याश्रयेत्युक्तम् , सद्भावसिद्धिरेव न प्रवर्तकत्वमित्येवकारार्थः । अनुमितस्य सद्भावमात्रेण प्रवृत्तिहेतुत्वे सर्वत्राकाशस्यापि हेतुत्वप्रसङ्गादिति भावः ।

आत्मनोऽप्रत्यक्षत्वे चार्वाकाणां भ्रमोऽपि लिङ्गमित्याह -

अत एवेति ।

अप्रत्यक्षत्वादेवेत्यर्थः । देहान्यात्मनः प्रत्यक्षत्वे भ्रमासम्भवादिति भावः ।

दर्शनात् ।

प्रवृत्तिचैतन्ययोरिति शेषः ।

प्रवृत्तिं प्रत्याश्रयत्वमचेतनस्यैवेत्युक्तमङ्गीकृत्य चेतनस्य प्रयोजकत्वं सिद्धान्ती साधयति -

तदभिधीयत इति ।

रथादिप्रवृत्तावश्वादिचेतनस्यान्वयव्यतिरेकौ स्फुटौ ताभ्यां चेतनस्य प्रवर्तकत्वं बाह्यानामपि सम्मतमित्याह -

लौकायतिकानामपीति ।

यः प्रवर्तकः सः स्वयं प्रवृत्तिमानश्वादिवदिति व्याप्तेरात्मनि व्यापकाभावान्न प्रवर्तकत्वमिति कश्चिच्छङ्कते -

नन्विति ।

मण्यादौ व्यभिचारान्न व्याप्तिरिति परिहरति -

नेति ।

वस्तुत एकत्वेऽपि कल्पितं द्वैतं प्रवर्त्यमस्तीत्याह -

न । अविद्येति ।

अविद्याकल्पिते नामरूपप्रपञ्चे तयैवाविद्यारूपया मायया य आवेशश्चिदात्मनः कल्पितः सम्बन्धस्तस्य वशः सामर्थ्यं तेनान्तर्यामित्वादिकमीश्वरस्येत्युक्तत्वान्न चोद्यावसर इत्यर्थः ॥२॥