ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
पयोम्बुवच्चेत्तत्रापि ॥ ३ ॥
स्यादेतत्यथा क्षीरमचेतनं स्वभावेनैव वत्सविवृद्ध्यर्थं प्रवर्तते, यथा जलमचेतनं स्वभावेनैव लोकोपकाराय स्यन्दते, एवं प्रधानमचेतनं स्वभावेनैव पुरुषार्थसिद्धये प्रवर्तिष्यत इतिनैतत्साधूच्यते, यतस्तत्रापि पयोम्बुनोश्चेतनाधिष्ठितयोरेव प्रवृत्तिरित्यनुमिमीमहे, उभयवादिप्रसिद्धे रथादावचेतने केवले प्रवृत्त्यदर्शनात्शास्त्रं योऽप्सु तिष्ठन्योऽपोऽन्तरो यमयति’ (बृ. उ. ३ । ७ । ४) एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते’ (बृ. उ. ३ । ८ । ९) इत्येवंजातीयकं समस्तस्य लोकपरिस्पन्दितस्येश्वराधिष्ठिततां श्रावयतितस्मात्साध्यपक्षनिक्षिप्तत्वात्पयोम्बुवदित्यनुपन्यासःचेतनायाश्च धेन्वाः स्नेहेच्छया पयसः प्रवर्तकत्वोपपत्तेः, वत्सचोषणेन पयस आकृष्यमाणत्वात् चाम्बुनोऽप्यत्यन्तमनपेक्षा, निम्नभूम्याद्यपेक्षत्वात्स्यन्दनस्य; चेतनापेक्षत्वं तु सर्वत्रोपदर्शितम्उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि’ (ब्र. सू. २ । १ । २४) इत्यत्र तु बाह्यनिमित्तनिरपेक्षमपि स्वाश्रयं कार्यं भवतीत्येतल्लोकदृष्ट्या निदर्शितम्शास्त्रदृष्ट्या पुनः सर्वत्रैवेश्वरापेक्षत्वमापद्यमानं पराणुद्यते ॥ ३ ॥

अनादिजडस्य प्रवृत्तिश्चेतनादिना, प्रवृत्तित्वात् , रथादिप्रवृत्तिवदिति स्थितम् । तत्र क्षीरादौ व्यभिचारमाशङ्क्य तस्यापि पक्षसमत्वेनोक्तानुमानादागमेन च साध्यसिद्धिर्न व्यभिचार इति सूत्रं व्याचष्टे -

स्यादेतदित्यादिना ।

साध्यपक्षेति ।

साध्यवता पक्षेणतुल्यत्वादित्यर्थः ।

अनुपन्यासः ।

न व्यभिचारभूमिरिति यावत् ।

क्षीरे प्रवर्तकत्वेन धेन्वादेः सत्त्वाच्च न व्यभिचार इत्याह -

चेतनायाश्चेति ।

उपदर्शितम् । अनुमानागमाभ्यामिति शेषः ।

सूत्रकारस्य 'क्षीरवद्धि', 'तत्रापि' इति च वक्तुः पूर्वापरविरोधमाशङ्क्य लोकदृष्ट्या शास्त्रदृष्ट्या च सूत्रद्वयमित्यविरोधमाह -

उपसंहारेति ॥३॥