ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ ४ ॥
साङ्ख्यानां त्रयो गुणाः साम्येनावतिष्ठमानाः प्रधानम्; तु तद्व्यतिरेकेण प्रधानस्य प्रवर्तकं निवर्तकं वा किञ्चिद्बाह्यमपेक्ष्यमवस्थितमस्तिपुरुषस्तूदासीनो प्रवर्तको निवर्तकःइत्यतोऽनपेक्षं प्रधानम्अनपेक्षत्वाच्च कदाचित्प्रधानं महदाद्याकारेण परिणमते, कदाचिन्न परिणमते, इत्येतदयुक्तम्ईश्वरस्य तु सर्वज्ञत्वात्सर्वशक्तित्वान्महामायत्वाच्च प्रवृत्त्यप्रवृत्ती विरुध्येते ॥ ४ ॥

अस्तु प्रधानस्यापि धर्मादि कर्म पुरुषो वा प्रवर्तक इत्याशङ्क्य सूत्रं प्रवृत्तम् , तद्व्याचष्टे -

साङ्ख्यानामित्यादिना ।

प्रधानव्यतिरेकेण कर्मणोऽनवस्थितेः पुरुषस्योदासीनत्वात्कदाचित्सृष्टिप्रवृत्तिः कदाचित्प्रलय इत्ययुक्तमित्यर्थः । कर्मणोऽपि प्रधानात्मकस्याचेतनत्वात्सदासत्त्वाच्च न कादाचित्कप्रवृत्तिनियामकत्वमिति भावः ॥४॥