ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अन्यत्राभावाच्च न तृणादिवत् ॥ ५ ॥
स्यादेतत्यथा तृणपल्लवोदकादि निमित्तान्तरनिरपेक्षं स्वभावादेव क्षीराद्याकारेण परिणमते, एवं प्रधानमपि महदाद्याकारेण परिणंस्यत इतिकथं निमित्तान्तरनिरपेक्षं तृणादीति गम्यते ? निमित्तान्तरानुपलम्भात्यदि हि किञ्चिन्निमित्तमुपलभेमहि, ततो यथाकामं तेन तेन तृणाद्युपादाय क्षीरं सम्पादयेमहि; तु सम्पादयामहेतस्मात्स्वाभाविकस्तृणादेः परिणामःतथा प्रधानस्यापि स्यादितिअत्रोच्यतेभवेत्तृणादिवत्स्वाभाविकः प्रधानस्यापि परिणामः, यदि तृणादेरपि स्वाभाविकः परिणामोऽभ्युपगम्येत; त्वभ्युपगम्यते, निमित्तान्तरोपलब्धेःकथं निमित्तान्तरोपलब्धिः ? अन्यत्राभावात्धेन्वैव ह्युपभुक्तं तृणादि क्षीरीभवति, प्रहीणम् अनडुदाद्युपभुक्तं वायदि हि निर्निमित्तमेतत्स्यात् , धेनुशरीरसम्बन्धादन्यत्रापि तृणादि क्षीरीभवेत् यथाकामं मानुषैर्न शक्यं सम्पादयितुमित्येतावता निर्निमित्तं भवतिभवति हि किञ्चित्कार्यं मानुषसम्पाद्यम् , किञ्चिद्दैवसम्पाद्यम्मनुष्या अपि शक्नुवन्त्येवोचितेनोपायेन तृणाद्युपादाय क्षीरं सम्पादयितुम्प्रभूतं हि क्षीरं कामयमानाः प्रभूतं घासं धेनुं चारयन्ति; ततश्च प्रभूतं क्षीरं लभन्तेतस्मान्न तृणादिवत्स्वाभाविकः प्रधानस्य परिणामः ॥ ५ ॥

पुनरपि दृष्टान्तबलात्प्रधानस्य स्वत एव कादाचित्कप्रवृत्तिरित्याशङ्क्य निषेधति सूत्रकारः -

अन्यत्रेत्यादिना ।

पृच्छति -

कथमिति ।

उत्तरम् -

निमित्तान्तरेति ।

धेन्वादिनिमित्तान्तरमस्तीति सिद्धान्तयति -

अत्रोच्यत इति ।

प्रहीणं नष्टम् ।

यदुक्तं क्षीरस्य स्वेच्छया सम्पादयितुमशक्यत्वात्स्वाभाविकत्वमिति, तत्राह -

न च यथाकाममिति ॥५॥