प्रधानस्य न स्वतःप्रवृत्तिः, स्वतःप्रवृत्त्यभ्युपगमे पुरुषार्थस्याप्यपेक्षाभावप्रसङ्गादित्येकोऽर्थः । तत्रेष्टापत्तिं निरस्यति -
इत्यतः प्रधानमिति ।
उक्तप्रसङ्गस्येष्टत्वे प्रतिज्ञाहानिः स्यादित्यर्थः ।
अर्थासम्भवान्न स्वतःप्रवृत्तिरित्यर्थान्तरं शङ्कापूर्वकमाह -
स यदीत्यादिना ।
प्रयोजनमपेक्षितं चेद्वक्तव्यमित्याह -
तथापीति ।
कूटस्थे पुरुषे स्वतःसुखादिरूपस्यातिशयस्याधातुमशक्यत्वादध्यासानङ्गीकाराच्च भोगो न युक्तः । किं च प्रधानप्रवृत्तेर्भोगार्थत्वे मोक्षहेतुविवेकख्यात्यभावादनिर्मोक्षप्रसङ्गश्च, अपवर्गार्थत्वे स्वरूपावस्थानरूपमुक्तेः स्वतःसिद्धत्वात्प्रवृत्तिवैयर्थ्यम् , भोगाभावप्रसङ्गश्चेत्यर्थः ।
तृतीयं दूषयति -
उभयार्थतेति ।
मीयन्ते भुज्यन्त इति मात्रा भोग्याः ।
औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तमिति कारिकोक्तं दूषयति -
न चेति ।
औत्सुक्यमिच्छाविशेषः केवलजडस्यात्मनो वा न युक्त इत्यर्थः ।
अस्ति पुरुषस्य दृक्शक्तिश्चिद्रूपत्वात् , अस्ति च प्रधानस्य सर्गशक्तिस्त्रिगुणत्वात् , तयोः शक्त्योर्दृश्यसृष्टी विना सार्थक्यायोगात्प्रधानस्य सृष्टौ प्रवृत्तिरिति चेत् । न । शक्त्योर्नित्यत्वात्सृष्टिनित्यत्वापत्तिरित्याह -
दृक्शक्तीति ॥६॥