तस्य भ्रान्तिमूलत्वादविरोध इति सिद्धान्तयति -
तत्रेदमिति ।
प्रलये विभक्तानां परमाणूनामन्यतरकर्मणोभयकर्मणा वा संयोगो वाच्यः, कर्मणश्च निमित्तं प्रयत्नादिकं दृष्टम् , यथा प्रयत्नवदात्मकसंयोगाद्देहचेष्टा, वाय्वाद्यभिघाताद्वृक्षादिचलनम् , हस्तनोदनादिष्वादिगमनम् , तद्वदणुकर्मणो दृष्टं निमित्तमभ्युपगम्यते न वा । द्वितीये कर्मानुत्पत्तिः नाद्यः, प्रयत्नादेः सृष्ट्युत्तरकालीनत्वादित्युभयथापि न कर्म सम्भवति । अतः कर्मासम्भवात्तस्य संयोगपूर्वकद्व्यणुकादिसर्गस्याभाव इति सूत्रार्थः । स्थिरस्य वेगवद्द्रव्यसंयोगाविशेषोऽभिघातः स एव चलस्य नोदनमिति भेदः ।
दृष्टनिमित्ताभावेऽप्यदृष्टवदात्मसंयोगादणुषु कर्मेति शङ्कते -
अथादृष्टमिति ।
विकल्पपुरःसरं दूषयति -
तत्पुनरिति ।
जडात्मवदणोराश्रयत्वं किं न स्यादिति मत्वा विकल्पः कृत इति मन्तव्यम् ।
अत्रापि सूत्रं योजयति -
उभयथेति ।
जीवाधिष्ठितमदृष्टं निमित्तमस्त्वित्यत आह -
आत्मनश्चेति ।
अचेतनत्वान्नाधिष्ठातृत्वमिति शेषः । भिन्नेश्वरस्याधिष्ठातृत्वमग्रे निराकरिष्यते । अचेतनत्वमदृष्टस्य कर्मनिमित्तत्वाभावे हेतुरुक्तः ।
हेत्वन्तरमाह -
आत्मसमवायित्वेति ।
गुरुत्ववददृष्टमपि स्वाश्रयसंयुक्ते क्रियाहेतुरिति शङ्कते -
अदृष्टवतेति ।
विभुसंयोगस्याणुषु सदा सत्त्वात्क्रियासातत्ये प्रलयाभावः स्यादिति दूषयति -
सम्बन्धेति ।
कादाचित्कप्रवृत्तेरदृष्टनियम्यत्वायोगेऽपीश्वरान्नियम इत्यत आह -
नियामकान्तरेति ।
यज्ज्ञानं तच्छरीरजन्यमिति व्याप्तिविरोधेन नित्यज्ञानासिद्धेस्तद्गुण ईश्वरो नास्ति, अस्तित्वेऽपि सदा सत्त्वान्न नियामकत्वमिति भावः ।
सूत्रार्थं निगमयति -
तदेवमिति ।
संयोगस्य हेतुत्वं खण्डयित्वा स्वरूपं खण्डयति -
संयोगश्चाणोरिति ।
संयोगस्य व्याप्यवृत्तित्वे एकस्मिन्नितरस्यान्तर्भावात्कार्यस्य पृथुत्वायोगात्सर्वं कार्यं परमाणुमात्रं स्यादित्यर्थः ।
किञ्च सांशद्रव्ये संयोगस्यैकांशवृत्तित्वं दृष्टं तद्विरोधाद्व्याप्यवृत्तित्वं न कल्प्यमित्याह -
दृष्टेति ।
परमाणोः संयोग एकदेशेन चेदिति सम्बन्धः । दिग्भेदेन कल्पितप्रदेशस्थसंयोगस्यापि कल्पितत्वात्ततः कार्यं नोत्पद्येत, उत्पन्नं वा मिथ्या स्यादित्यपसिद्धान्त इत्यर्थः ।
काणादानां सर्गप्रत्युक्तौ सूत्रं योजयित्वा प्रलयनिरासेऽपि सूत्रं योजयति -
यथा चेति ।
परमाणूनां कर्मणा संयोगात्सर्गः, विभागात्प्रलय इति प्रक्रिया न युक्ता, युगपदनन्तपरमाणूनां विभागे नियतस्याभिघातादेर्दृष्टस्य निमित्तस्यासत्त्वात् धर्माधर्मरूपादृष्टस्य सुखदुःखार्थत्वेन सुखदुःखशून्यप्रलयप्रयोजकत्वायोगान्नादृष्टनिमित्तेन कर्मणा विभागः सम्भवति । तथा च दृष्टादृष्टनिमित्तयोरसत्त्वादुभयथापि संयोगार्थत्वेन विभागार्थत्वेन च कर्म नास्ति, अतः कर्माभावात्तयोः संयोगविभागपूर्वकयोः सर्गप्रलययोरभाव इति सूत्रयोजना ॥१२॥