ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ १३ ॥
समवायाभ्युपगमाच्चतदभाव इतिप्रकृतेनाणुवादनिराकरणेन सम्बध्यतेद्वाभ्यां चाणुभ्यां द्व्यणुकमुत्पद्यमानमत्यन्तभिन्नमणुभ्यामण्वोः समवैतीत्यभ्युपगम्यते भवता चैवमभ्युपगच्छता शक्यतेऽणुकारणता समर्थयितुम्कुतः ? साम्यादनवस्थितेःयथैव ह्यणुभ्यामत्यन्तभिन्नं सत् द्व्यणुकं समवायलक्षणेन सम्बन्धेन ताभ्यां सम्बध्यते, एवं समवायोऽपि समवायिभ्योऽत्यन्तभिन्नः सन् समवायलक्षणेनान्येनैव सम्बन्धेन समवायिभिः सम्बध्येत, अत्यन्तभेदसाम्यात्ततश्च तस्य तस्यान्योऽन्यः सम्बन्धः कल्पयितव्य इत्यनवस्थैव प्रसज्येतननु इहप्रत्ययग्राह्यः समवायो नित्यसम्बद्ध एव समवायिभिर्गृह्यते, नासम्बद्धः, सम्बन्धान्तरापेक्षो वाततश्च तस्यान्यः सम्बन्धः कल्पयितव्यः येनानवस्था प्रसज्येतेतिनेत्युच्यते; संयोगोऽप्येवं सति संयोगिभिर्नित्यसम्बद्ध एवेति समवायवन्नान्यं सम्बन्धमपेक्षेतअथार्थान्तरत्वात्संयोगः सम्बन्धान्तरमपेक्षेत, समवायोऽपि तर्ह्यर्थान्तरत्वात्सम्बन्धान्तरमपेक्षेत गुणत्वात्संयोगः सम्बन्धान्तरमपेक्षते, समवायः अगुणत्वादिति युज्यते वक्तुम्; अपेक्षाकारणस्य तुल्यत्वात् , गुणपरिभाषायाश्चातन्त्रत्वात्तस्मादर्थान्तरं समवायमभ्युपगच्छतः प्रसज्येतैवानवस्थाप्रसज्यमानायां चानवस्थायामेकासिद्धौ सर्वासिद्धेर्द्वाभ्यामणुभ्यां द्व्यणुकं नैवोत्पद्येततस्मादप्यनुपपन्नः परमाणुकारणवादः ॥ १३ ॥

समवायाभ्युपगमाच्च तदभावः ।

अणुवादासम्भव इति योग्यतया सम्बध्यते द्व्यणुकसमवाययोः परमाणुभिन्नत्वसाम्यात् द्व्यणुकवत्समवायस्यापि समवायान्तरमित्यनवस्थितिरित्यर्थः ।

नन्विह तन्तुषु पट इत्यादिविशिष्टधीनियामकः समवायो न सम्बन्धान्तरमपेक्षते, स्वरूपेणैव नित्यसम्बद्धत्वादिति शङ्कते -

नन्विहेति ।

संयोगस्यापि स्वरूपसम्बन्धोपपत्तेः समवायो न स्यादिति दूषयति -

नेति ।

सम्बन्धिभिन्नत्वाच्चेदपेक्षा समवायस्यापि तुल्या ।

गुणपरिभाषायाश्चेति ।

गुणत्वाभावेऽपि कर्मसामान्यादीनां समवायाङ्गीकाराद्गुणत्वं समवायित्वे न व्यापकम् । नापि व्याप्यम् , गुणस्यापि समवायवत्स्वरूपसम्बन्धसम्भवेन व्याप्त्यनुकूलतर्काभावात् । तस्मात्सम्बन्धिभिन्नत्वमेव सम्बन्धान्तरापेक्षायां कारणम् , तस्य समवायेऽपि तुल्यत्वादनवस्था दुर्वारा । सा च मूलक्षयकारी । तया समवायासिद्धौ समवेतद्व्यणुकासिद्धिरित्यर्थः ॥१३॥