ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
उभयथा च दोषात् ॥ १६ ॥
गन्धरसरूपस्पर्शगुणा स्थूला पृथिवी, रूपरसस्पर्शगुणाः सूक्ष्मा आपः, रूपस्पर्शगुणं सूक्ष्मतरं तेजः, स्पर्शगुणः सूक्ष्मतमो वायुःइत्येवमेतानि चत्वारि भूतान्युपचितापचितगुणानि स्थूलसूक्ष्मसूक्ष्मतरसूक्ष्मतमतारतम्योपेतानि लोके लक्ष्यन्तेतद्वत्परमाणवोऽप्युपचितापचितगुणाः कल्प्येरन् वा ? उभयथापि दोषानुषङ्गोऽपरिहार्य एव स्यात्कल्प्यमाने तावदुपचितापचितगुणत्वे, उपचितगुणानां मूर्त्युपचयादपरमाणुत्वप्रसङ्गः चान्तरेणापि मूर्त्युपचयं गुणोपचयो भवतीत्युच्येत, कार्येषु भूतेषु गुणोपचये मूर्त्युपचयदर्शनात्अकल्प्यमाने तूपचितापचितगुणत्वेपरमाणुत्वसाम्यप्रसिद्धये यदि तावत्सर्व एकैकगुणा एव कल्प्येरन् , ततस्तेजसि स्पर्शस्योपलब्धिर्न स्यात् , अप्सु रूपस्पर्शयोः, पृथिव्यां रसरूपस्पर्शानाम् , कारणगुणपूर्वकत्वात्कार्यगुणानाम्अथ सर्वे चतुर्गुणा एव कल्प्येरन् , ततोऽप्स्वपि गन्धस्योपलब्धिः स्यात् , तेजसि गन्धरसयोः, वायौ गन्धरूपरसानाम् चैवं दृश्यतेतस्मादप्यनुपपन्नः परमाणुकारणवादः ॥ १६ ॥

यद्यस्मादधिकगुणवत्तत्तस्मात्स्थूलमिति व्याप्तिमुक्त्वा विकल्पयति -

तद्वदिति ।

पार्थिवः परमाणुरधिकगुणस्तत एकैकन्यूनगुणा जलादिपरमाणव इति कल्प्यते, न वा । आद्ये दोषमाह -

कल्प्यमान इति ।

मूर्त्युपचयात्स्थौल्यादित्यर्थः । पार्थिवोऽणुराप्यात्स्थूलः, अधिकगुणत्वात् , घटवदित्येवं प्रयोक्तव्यः ।

अप्रयोजकत्वं निरस्यति -

न चान्तरेणेति ।

दृष्टविरोधः स्यादिति भावः ।

नेति पक्षे सर्वेषामणूनां साम्यार्थमेकैकगुणवत्त्वं वा स्याच्चतुर्गुणवत्वं वा । उभयथापि दोषमाह -

अकल्प्यमाने त्वित्यादिना ॥१६॥