ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ १८ ॥
तत्रेदमभिधीयतेयोऽयमुभयहेतुक उभयप्रकारः समुदायः परेषामभिप्रेतःअणुहेतुकश्च भूतभौतिकसंहतिरूपः, स्कन्धहेतुकश्च पञ्चस्कन्धीरूपःतस्मिन्नुभयहेतुकेऽपि समुदायेऽभिप्रेयमाणे, तदप्राप्तिः स्यात्समुदायाप्राप्तिः समुदायभावानुपपत्तिरित्यर्थःकुतः ? समुदायिनामचेतनत्वात्चित्ताभिज्वलनस्य समुदायसिद्ध्यधीनत्वात्अन्यस्य कस्यचिच्चेतनस्य भोक्तुः प्रशासितुर्वा स्थिरस्य संहन्तुरनभ्युपगमात्निरपेक्षप्रवृत्त्यभ्युपगमे प्रवृत्त्यनुपरमप्रसङ्गात्आशयस्याप्यन्यत्वानन्यत्वाभ्यामनिरूप्यत्वात्क्षणिकत्वाभ्युपगमाच्च निर्व्यापारत्वात्प्रवृत्त्यनुपपत्तेःतस्मात्समुदायानुपपत्तिः; समुदायानुपपत्तौ तदाश्रया लोकयात्रा लुप्येत ॥ १८ ॥

अवयवातिरिक्तावयव्यनुपलब्धेरवयवाः शिष्यन्ते, यत्सत्तत्क्षणिकम् , यथा विद्युदिति तेषां क्षणिकत्वमिति मानमूलोऽयं सिद्धान्त इति प्राप्ते सिद्धान्तसूत्रं योजयति -

योऽयमिति ।

सर्गादौ परमाणूनां च स्कन्धानां च स्वतःसङ्घातस्तावन्न सम्भवति, अचेतनत्वात् । नापि चित्ताख्यमभिज्वलनं विज्ञानं समुदायहेतुः, सङ्घाते देहाकारे जाते विज्ञानं विज्ञाने जाते सङ्घात इत्यन्योन्याश्रयात् । न च क्षणिकविज्ञानादन्यः कश्चिज्जीव ईश्वरो वा त्वयाभ्युपगम्यते यः सङ्घातकर्ता भवेत् । न च कर्तारमनपेक्ष्याणवः स्कन्धाश्च स्वयमेव सङ्घातार्थं प्रवर्तन्त इति वाच्यम् , अनिर्मोक्षप्रसङ्गात् ।

नन्वालयविज्ञानसन्तानः संहन्तास्त्वित्यत आह -

आशयस्येति ।

आशेरतेऽस्मिन् रागादय इत्याशयः सन्तानः, स किं सन्तानिभ्योऽन्यो विज्ञानिभ्योऽन्योऽनन्यो वा । आद्येऽपि स्थिरः क्षणिको वा । नाद्यः, अस्मदिष्टनित्यात्मवादप्रसङ्गात् ।

द्वितीये दोषमाह -

क्षणिकत्वेति ।

क्षणिकस्य जन्मातिरिक्तव्यापारो नास्ति, तस्मात्तस्य परमाण्वादिमेलनार्थं प्रवृत्तिरनुपपन्ना । क्षणिकत्वव्याघातादित्यर्थः । एतेनानन्यः सन्तान इति पक्षो निरस्तः, क्षणिकस्य मेलकत्वानुपपत्तेः । तस्मात्संहन्तुरसत्त्वात्सङ्घातानुपपत्तिरित्यर्थः ॥१८॥