ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥ १९ ॥
यद्यपि भोक्ता प्रशासिता वा कश्चिच्चेतनः संहन्ता स्थिरो नाभ्युपगम्यते, तथाप्यविद्यादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रातस्यां चोपपद्यमानायां किञ्चिदपरमपेक्षितव्यमस्तिते चाविद्यादयःअविद्या संस्कारः विज्ञानं नाम रूपं षडायतनं स्पर्शः वेदना तृष्णा उपादानं भवः जातिः जरा मरणं शोकः परिदेवना दुःखं दुर्मनस्ताइत्येवंजातीयका इतरेतरहेतुकाः सौगते समये क्वचित्संक्षिप्ता निर्दिष्टाः, क्वचित्प्रपञ्चिताःसर्वेषामप्ययमविद्यादिकलापोऽप्रत्याख्येयःतदेवमविद्यादिकलापे परस्परनिमित्तनैमित्तिकभावेन घटीयन्त्रवदनिशमावर्तमानेऽर्थाक्षिप्त उपपन्नः सङ्घात इति चेत् , तन्नकस्मात् ? उत्पत्तिमात्रनिमित्तत्वात्भवेदुपपन्नः सङ्घातः, यदि सङ्घातस्य किञ्चिन्निमित्तमवगम्येत; त्ववगम्यते; यत इतरेतरप्रत्ययत्वेऽप्यविद्यादीनां पूर्वपूर्वम् उत्तरोत्तरस्योत्पत्तिमात्रनिमित्तं भवत् भवेत् , तु सङ्घातोत्पत्तेः किञ्चिन्निमित्तं सम्भवतिनन्वविद्यादिभिरर्थादाक्षिप्यते सङ्घात इत्युक्तम्; अत्रोच्यतेयदि तावदयमभिप्रायःअविद्यादयः सङ्घातमन्तरेणात्मानमलभमाना अपेक्षन्ते सङ्घातमिति, ततस्तस्य सङ्घातस्य किञ्चिन्निमित्तं वक्तव्यम्तच्च नित्येष्वप्यणुष्वभ्युगम्यमानेष्वाश्रयाश्रयिभूतेषु भोक्तृषु सत्सु सम्भवतीत्युक्तं वैशेषिकपरीक्षायाम्; किमङ्ग पुनः क्षणिकेष्वणुषु भोक्तृरहितेष्वाश्रयाश्रयिशून्येषु वाभ्युपगम्यमानेषु सम्भवेत्अथायमभिप्रायःअविद्यादय एव सङ्घातस्य निमित्तमिति, कथं तमेवाश्रित्यात्मानं लभमानास्तस्यैव निमित्तं स्युःअथ मन्यसेसङ्घाता एवानादौ संसारे सन्तत्यानुवर्तन्ते, तदाश्रयाश्चाविद्यादय इति, तदपि सङ्घातात्संघातान्तरमुत्पद्यमानं नियमेन वा सदृशमेवोत्पद्येत, अनियमेन वा सदृशं विसदृशं वोत्पद्येतनियमाभ्युपगमे मनुष्यपुद्गलस्य देवतिर्यग्योनिनारकप्राप्त्यभावः प्राप्नुयात्अनियमाभ्युपगमेऽपि मनुष्यपुद्गलः कदाचित्क्षणेन हस्ती भूत्वा देवो वा पुनर्मनुष्यो वा भवेदिति प्राप्नुयात्उभयमप्यभ्युपगमविरुद्धम्अपि यद्भोगार्थः सङ्घातः स्यात् , जीवो नास्ति स्थिरो भोक्ता इति तवाभ्युपगमःततश्च भोगो भोगार्थ एव, नान्येन प्रार्थनीयःतथा मोक्षो मोक्षार्थ एवेति मुमुक्षुणा नान्येन भवितव्यम्अन्येन चेत्प्रार्थ्येतोभयम् , भोगमोक्षकालावस्थायिना तेन भवितव्यम्अवस्थायित्वे क्षणिकत्वाभ्युपगमविरोधःतस्मादितरेतरोत्पत्तिमात्रनिमित्तत्वमविद्यादीनां यदि भवेत् , भवतु नाम; तु सङ्घातः सिध्येत् , भोक्त्रभावात्इत्यभिप्रायः ॥ १९ ॥

संहन्तुरभावेऽपि सङ्घातोपपत्तिमाशङ्क्य निषेधति -

इतरेति ।

कार्यं प्रत्ययते गच्छतीति प्रत्ययः कारणम् । अविद्यादिभिरेवार्थात्सङ्घातसिद्धौ व्यवहारोपपत्तिरित्यर्थः ।

अविद्यादीनाह -

ते चेति ।

क्षणिकेषु स्थिरत्वबुद्धिरविद्या, ततो रागद्वेषमोहाः संस्कारा भवन्ति, तेभ्यो गर्भस्थस्याद्यं विज्ञानमुत्पद्यते, तस्माच्चालयविज्ञानात्पृथिव्यादिचतुष्टयं नामाश्रयत्वान्नाम भवति । ततो रूपं सितासितात्मकं शुक्रशोणितं निष्पद्यते ।गर्भस्य कललबुद्बुदावस्था नामरूपशब्दार्थ इति निष्कर्षः । विज्ञानं पृथिव्यादिचतुष्टयं रूपं चेति षडायतनानि यस्येन्द्रियजातस्य तत्षडायतनम् , नामरूपेन्द्रियाणां मिथः संयोगः स्पर्शः, ततः सुखादिका वेदना, तया पुनर्विषयतृष्णा, तया प्रवृत्तिरूपादानम् , तेन भवत्यस्माज्जन्मेति भवो धर्मादिः, ततो जातिर्देहजन्म पञ्चस्कन्धसमुदाय इति यावत् । जातानां स्कन्धानां परिपाको जरास्कन्धः, मरणं नाशः, म्रियमाणस्य पुत्रादिस्नेहादन्तर्दाहः शोकः, तेन हा पुत्रेत्यादिविलापः परिदेवना, अनिष्टानुभवो दुःखम् , तेनं दुर्मनस्ता मानसी व्यथा, इतिशब्दो मानापमानादिक्लेशसङ्ग्रहार्थः ।

न केवलं सुगतानामेवाविद्यादयः सम्मताः, किन्तु सर्ववादिनामपीत्याह -

सर्वेषामिति ।

अविद्यादिहेतुका जन्मादयो जन्मादिहेतुकाश्चाविद्यादय इति मिथो हेतुहेतुमद्भावादर्थात्सङ्घातसिद्धिरिति शङ्कामुपसंहरति -

तदेवमिति ।

सिद्धान्तभागं व्याचष्टे -

तन्नेति ।

अविद्यादीनामुत्तरोत्तरहेतुत्वमङ्गीकृत्य सङ्घातहेत्वभावात्सङ्घातो न स्यादित्युक्ते पूर्वोक्तं स्मारयति -

नन्विति ।

किमविद्यादयः सङ्घातस्य गमका उतोत्पादका इति विकल्प्याद्ये सङ्घातस्योत्पादकं किञ्चिद्वाच्यम् , तन्नास्तीत्याह -

अत्रोच्यते, यदीति ।

आश्रयाश्रयिभूतेष्विति भोक्तृविशेषणम् । अदृष्टाश्रयेष्वित्यर्थः ।

यदा स्थिरेष्वणुषु सङ्घातयोग्येषु कर्तृषु चादृष्टसहायेषु सत्सु ज्ञानाभावमात्रेण संहतिकर्तृत्वायोगात्सङ्घातापत्तेर्निमित्तं नास्तीत्युक्तं तदा क्षणिकपक्षे तन्नास्तीति किमु वक्तव्यमित्याह -

किमिति ।

आश्रयाश्रयः सङ्घातकर्ता तच्छून्येष्वित्यर्थः । 'आश्रयाश्रयिशून्येषु' इति पाठे उपकार्योपकारकत्वशून्येष्वित्यर्थः ।

द्वितीयं शङ्कते -

अथायमिति ।

सङ्घातस्याविद्यादीनां चोत्पत्तावन्योन्याश्रयः स्यादिति दूषयति -

कथमिति ।

स्वाभाविकः खल्वयं सङ्घातानां हेतुहेतुमद्भावेन प्रवाहो न संहन्तारमपेक्षते, पूर्वसङ्घाताश्रया अविद्यादय उत्तरसङ्घातप्रवर्तका इति नान्योन्याश्रयदोषोऽपीत्याशङ्कते -

अथ मन्यस इति ।

स्वभावस्य नियमानियमयोरपसिद्धान्तापातः स्यादिति परिहारार्थः । पूर्यते गलति चेति पुद्गलो देहः ।

किञ्च भोक्तुः क्षणिकत्वपक्षे भोगापवर्गव्यवहारोऽपि दुर्घट इत्याह -

अपि चेति ।

यो यदिच्छति स तत्काले नास्ति चेदिच्छा व्यर्था, अस्ति चेत्क्षणिकत्वभङ्ग इत्यर्थः ।

प्रकृतं सङ्घातनिरासमुपसंहरति -

तस्मादिति ॥१९॥