ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥
यदि चाभावाद्भावोत्पत्तिरभ्युपगम्येत, एवं सत्युदासीनानामनीहमानानामपि जनानामभिमतसिद्धिः स्यात् , अभावस्य सुलभत्वात्कृषीवलस्य क्षेत्रकर्मण्यप्रयतमानस्यापि सस्यनिष्पत्तिः स्यात्कुलालस्य मृत्संस्क्रियायामप्रयतमानस्यापि अमत्रोत्पत्तिःतन्तुवायस्यापि तन्तूनतन्वानस्यापि तन्वानस्येव वस्त्रलाभःस्वर्गापवर्गयोश्च कश्चित्कथञ्चित्समीहेत चैतद्युज्यते अभ्युपगम्यते वा केनचित्तस्मादप्यनुपपन्नोऽयमभावाद्भावोत्पत्त्यभ्युपगमः ॥ २७ ॥

अभावादुत्पत्तौ शशविषाणादप्युत्पत्तिः स्यादित्युक्तम् । अतिप्रसङ्गान्तरमाह -

उदासीनानामिति ।

अनीहमानानां प्रयत्नशून्यानाम् । अमत्रं घटादिपात्रम् । तन्वानस्यव्यापारयतः । तस्माद्भ्रान्तिमूलेन क्षणिकबाह्यार्थवादेन कूटस्थनित्यब्रह्मसमन्वयस्य न विरोध इति सिद्धम् ॥२७॥