ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
नाभाव उपलब्धेः ॥ २८ ॥
एवं बाह्यार्थवादमाश्रित्य समुदायाप्राप्त्यादिषु दूषणेषूद्भावितेषु विज्ञानवादी बौद्ध इदानीं प्रत्यवतिष्ठतेकेषाञ्चित्किल विनेयानां बाह्ये वस्तुन्यभिनिवेशमालक्ष्य तदनुरोधेन बाह्यार्थवादप्रक्रियेयं विरचितानासौ सुगताभिप्रायःतस्य तु विज्ञानैकस्कन्धवाद एवाभिप्रेतःतस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन रूपेणान्तस्थ एव प्रमाणप्रमेयफलव्यवहारः सर्व उपपद्यते, सत्यपि बाह्येऽर्थे बुद्ध्यारोहमन्तरेण प्रमाणादिव्यवहारानवतारात्कथं पुनरवगम्यतेअन्तस्थ एवायं सर्वव्यवहारः, विज्ञानव्यतिरिक्तो बाह्योऽर्थोऽस्तीति ? तदसम्भवादित्याह हि बाह्योऽर्थोऽभ्युपगम्यमानः परमाणवो वा स्युः, तत्समूहा वा स्तम्भादयः स्युःतत्र तावत्परमाणवः स्तम्भादिप्रत्ययपरिच्छेद्या भवितुमर्हन्ति, परमाण्वाभासज्ञानानुपपत्तेःनापि तत्समूहाः स्तम्भादयः, तेषां परमाणुभ्योऽन्यत्वानन्यत्वाभ्यां निरूपयितुमशक्यत्वात्एवं जात्यादीनपि प्रत्याचक्षीतअपि अनुभवमात्रेण साधारणात्मनो ज्ञानस्य जायमानस्य योऽयं प्रतिविषयं पक्षपातःस्तम्भज्ञानं कुड्यज्ञानं घटज्ञानं पटज्ञानमिति, नासौ ज्ञानगतविशेषमन्तरेणोपपद्यत इत्यवश्यं विषयसारूप्यं ज्ञानस्याङ्गीकर्तव्यम्अङ्गीकृते तस्मिन्विषयाकारस्य ज्ञानेनैवावरुद्धत्वादपार्थिका बाह्यार्थसद्भावकल्पनाअपि सहोपलम्भनियमादभेदो विषयविज्ञानयोरापतति ह्यनयोरेकस्यानुपलम्भेऽन्यस्योपलम्भोऽस्ति चैतत्स्वभावविवेके युक्तम् , प्रतिबन्धकारणाभावात्तस्मादप्यर्थाभावःस्वप्नादिवच्चेदं द्रष्टव्यम्यथा हि स्वप्नमायामरीच्युदकगन्धर्वनगरादिप्रत्यया विनैव बाह्येनार्थेन ग्राह्यग्राहकाकारा भवन्तिएवं जागरितगोचरा अपि स्तम्भादिप्रत्यया भवितुमर्हन्तीत्यवगम्यते, प्रत्ययत्वाविशेषात्कथं पुनरसति बाह्यार्थे प्रत्ययवैचित्र्यमुपपद्यते ? वासनावैचित्र्यादित्याहअनादौ हि संसारे बीजाङ्कुरवद्विज्ञानानां वासनानां चान्योन्यनिमित्तनैमित्तिकभावेन वैचित्र्यं विप्रतिषिध्यतेअपि अन्वयव्यतिरेकाभ्यां वासनानिमित्तमेव ज्ञानवैचित्र्यमित्यवगम्यते, स्वप्नादिष्वन्तरेणाप्यर्थं वासनानिमित्तस्य ज्ञानवैचित्र्यस्य उभाभ्यामप्यावाभ्यामभ्युपगम्यमानत्वात् , अन्तरेण तु वासनामर्थनिमित्तस्य ज्ञानवैचित्र्यस्य मया अनभ्युपगम्यमानत्वात्तस्मादप्यभावो बाह्यार्थस्येतिएवं प्राप्ते ब्रूमः

नाभाव उपलब्धेः ।

अखण्डनिर्विशेषं ब्रह्म विज्ञानं बाह्यार्थोपादानं वदतां वेदान्तानां भिन्नं साकारं क्षणिकं विज्ञानं न ततोऽन्योऽर्थोऽस्तीति योगाचारमतेन विरुध्यते न वेति तन्मतस्य मानभ्रान्तिमूलत्वाभ्यां संशये पूर्वोक्तबाह्यार्थवादनिरासमुपजीव्य पूर्वपक्षमाह -

एवमित्यादिना ।

पूर्वोत्तरपक्षयोर्विरोधाविरोधौ फलम् ।

नन्वेकस्य सुगतागमस्य कथं बाह्यार्थसत्त्वासत्त्वयोस्तात्पर्यं विरोधादित्याशङ्क्याधिकारिभेदादविरोध इति वदन् विज्ञानवादिनः सुगताभिप्रायज्ञत्वेन मन्दाधिकारिभ्यो बाह्यार्थवादिभ्यः श्रैष्ठ्यमाह -

केषाञ्चिदिति ।

उक्तं च धर्मकीर्तिना 'देशना लोकनाथानां सत्त्वाशयवशानुगाः' इति । सुगतानामुपदेशाः शिष्यमत्यनुसारिण इत्यर्थः ।

नन्वसति बाह्यार्थे मानमेयव्यवहारः कथम् , तत्राह -

तस्मिन्निति ।

विज्ञानमेव कल्पितनीलाद्याकारत्वेन प्रमेयम् , अवभासात्मना मानफलम् , शक्त्यात्मना मानम् , शक्त्याश्रयत्वाकारेण प्रमातेति भेदकल्पनया व्यवहार इत्यर्थः ।

मुख्य एव भेदः किं न स्यादत आह -

सत्यपीति ।

न हि बुद्ध्यनारूढस्य नीलादेः प्रमेयत्वव्यवहारोऽस्ति । अतो बुद्ध्यारूढाकार एव प्रमेयं न बाह्यमित्यर्थः ।

बाह्यार्थासत्त्वे प्रश्नपूर्वकं युक्तीरुपन्यस्यति -

कथमित्यादिना ।

ज्ञेयं ज्ञानातिरेकेणासत् , तदतिरेकेणासम्भवात् , नरशृङ्गवदित्याह -

तदसम्भवादिति ।

असम्भवं विवृणोति -

स हीति ।

परमाणवश्चेदेकस्थूलस्तम्भ इति ज्ञानं न स्यात् । समूहस्त्वसन्नित्यर्थः ।

अवयव्यभावेऽपि जात्यादयो बाह्यार्थाः स्युः, तत्राह -

एवमिति ।

जातिगुणकर्मणां धर्मिणः सकाशादभेदेऽत्यन्तभेदे वा धर्मिवद्धर्म्यन्तरवच्च न धर्मधर्मिभावः । भेदाभेदौ च विरुद्धाविति न सन्ति जात्याद्यर्था इत्यर्थः ।

किञ्च ज्ञानस्य ज्ञेयसारूप्यरूपविशेषसम्बन्धाभावे सर्वविषयत्वापत्तेर्विशेषोऽङ्गीकार्यः, तथा च ज्ञानगतविशेषस्यैव ज्ञानेन विषयीकरणान्न बाह्यार्थसिद्धिर्मानाभावाद्गौरवाच्चेत्याह -

अपि चेति ।

पक्षपातो विषयविशेषवैशिष्ट्यव्यवहारः ।

किञ्च ज्ञेयं ज्ञानाभिन्नम् , ज्ञानोपलम्भक्षणनियतोपलम्भग्राह्यत्वात् , ज्ञानवदित्याह -

अपि चेति ।

ज्ञानार्थयोः वास्तवभेदेऽपि सहोपलम्भनं स्यात् , ग्राह्यग्राहकभावादित्यत आह -

न चैतदिति ।

क्षणिकज्ञानस्यार्थेन सम्बन्धहेत्वभावान्न ग्राह्यग्राहकभाव इत्यर्थः ।

किञ्च जाग्रद्विज्ञानं न बाह्यालम्बनम् , विज्ञानत्वात् , स्वप्नादिज्ञानवदित्याह -

स्वप्नेति ।

विज्ञानानां वैचित्र्यानुपपत्तिबाधितमनुमानमिति शङ्कते -

कथमिति ।

अन्यथोपपत्त्या परिहरति -

वासनेति ।

अनादिसन्तानान्तर्गतपूर्वज्ञानमेव वासना, तद्वशादनेकक्षणव्यवधानेऽपि नीलाद्याकारज्ञानवैचित्र्यं भवति, यथा बीजवासनया कार्पासरक्तत्वं तद्वदित्यर्थः ।

उभयवादिसम्मतत्वाच्च वासना एव ज्ञानवैचित्र्यहेतवो न बाह्यार्था इत्याह -

अपि चेति ।