ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
नाभाव उपलब्धेः ॥ २८ ॥
नाभाव उपलब्धेरिति खल्वभावो बाह्यस्यार्थस्याध्यवसातुं शक्यतेकस्मात् ? उपलब्धेःउपलभ्यते हि प्रतिप्रत्ययं बाह्योऽर्थःस्तम्भः कुड्यं घटः पट इति चोपलभ्यमानस्यैवाभावो भवितुमर्हतियथा हि कश्चिद्भुञ्जानो भुजिसाध्यायां तृप्तौ स्वयमनुभूयमानायामेवं ब्रूयात् — ‘नाहं भुञ्जे वा तृप्यामिइतितद्वदिन्द्रियसन्निकर्षेण स्वयमुपलभमान एव बाह्यमर्थम् , ‘नाहमुपलभे सोऽस्तिइति ब्रुवन् , कथमुपादेयवचनः स्यात्ननु नाहमेवं ब्रवीमि — ‘ कञ्चिदर्थमुपलभेइतिकिं तुउपलब्धिव्यतिरिक्तं नोपलभेइति ब्रवीमिबाढमेवं ब्रवीषि निरङ्कुशत्वात्ते तुण्डस्य, तु युक्त्युपेतं ब्रवीषि, यत उपलब्धिव्यतिरेकोऽपि बलादर्थस्याभ्युपगन्तव्यः, उपलब्धेरेव हि कश्चिदुपलब्धिमेव स्तम्भः कुड्यं चेत्युपलभतेउपलब्धिविषयत्वेनैव तु स्तम्भकुड्यादीन्सर्वे लौकिका उपलभन्तेअतश्च एवमेव सर्वे लौकिका उपलभन्ते, यत् प्रत्याचक्षाणा अपि बाह्यमर्थम् एवमाचक्षते — ‘यदन्तर्ज्ञेयरूपं तद्बहिर्वदवभासतेइतितेऽपि हि सर्वलोकप्रसिद्धां बहिरवभासमानां संविदं प्रतिलभमानाः, प्रत्याख्यातुकामाश्च बाह्यमर्थम् , ‘बहिर्वत्इति वत्कारं कुर्वन्तिइतरथा हि कस्मात्बहिर्वत्इति ब्रूयुः हिविष्णुमित्रो वन्ध्यापुत्रवदवभासतेइति कश्चिदाचक्षीततस्मात् यथानुभवं तत्त्वम् अभ्युपगच्छद्भिः बहिरेवावभासते इति युक्तम् अभ्युपगन्तुम् , तु बहिर्वत् अवभासत इतिननु बाह्यस्यार्थस्यासम्भवात् बहिर्वदवभासते इत्यध्यवसितम्नायं साधुरध्यवसायः, यतः प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ सम्भवासम्भवाववधार्येते, पुनः सम्भवासम्भवपूर्विके प्रमाणप्रवृत्त्यप्रवृत्तीयद्धि प्रत्यक्षादीनामन्यतमेनापि प्रमाणेनोपलभ्यते, तत्सम्भवतियत्तु केनचिदपि प्रमाणेनोपलभ्यते, तन्न सम्भवतिइह तु यथास्वं सर्वैरेव प्रमाणैर्बाह्योऽर्थ उपलभ्यमानः कथं व्यतिरेकाव्यतिरेकादिविकल्पैर्न सम्भवतीत्युच्येतउपलब्धेरेव ज्ञानस्य विषयसारूप्याद्विषयनाशो भवति, असति विषये विषयसारूप्यानुपपत्तेः, बहिरुपलब्धेश्च विषयस्यअत एव सहोपलम्भनियमोऽपि प्रत्ययविषययोरुपायोपेयभावहेतुकः, अभेदहेतुकःइत्यभ्युपगन्तव्यम्अपि घटज्ञानं पटज्ञानमिति विशेषणयोरेव घटपटयोर्भेदः, विशेष्यस्य ज्ञानस्ययथा शुक्लो गौः कृष्णो गौरिति शौक्ल्यकार्ष्ण्ययोरेव भेदः, गोत्वस्यद्वाभ्यां भेद एकस्य सिद्धो भवति, एकस्माच्च द्वयोःतस्मादर्थज्ञानयोर्भेदःतथा घटदर्शनं घटस्मरणमित्यत्रापि प्रतिपत्तव्यम्अत्रापि हि विशेष्ययोरेव दर्शनस्मरणयोर्भेदः, विशेषणस्य घटस्ययथा क्षीरगन्धः क्षीररस इति विशेष्ययोरेव गन्धरसयोर्भेदः, विशेषणस्य क्षीरस्य, तद्वत्अपि द्वयोर्विज्ञानयोः पूर्वोत्तरकालयोः स्वसंवेदनेनैव उपक्षीणयोः इतरेतरग्राह्यग्राहकत्वानुपपत्तिःततश्चविज्ञानभेदप्रतिज्ञा क्षणिकत्वादिधर्मप्रतिज्ञा स्वलक्षणसामान्यलक्षणवास्यवासकत्वाविद्योपप्लवसदसद्धर्मबन्धमोक्षादिप्रतिज्ञाश्च स्वशास्त्रगताःता हीयेरन्किञ्चान्यत्विज्ञानं विज्ञानमित्यभ्युपगच्छता बाह्योऽर्थः स्तम्भः कुड्यमित्येवंजातीयकः कस्मान्नाभ्युपगम्यत इति वक्तव्यम्विज्ञानमनुभूयत इति चेत् , बाह्योऽप्यर्थोऽनुभूयत एवेति युक्तमभ्युपगन्तुम्अथ विज्ञानं प्रकाशात्मकत्वात्प्रदीपवत्स्वयमेवानुभूयते, तथा बाह्योऽप्यर्थ इति चेत्अत्यन्तविरुद्धां स्वात्मनि क्रियामभ्युपगच्छसिअग्निरात्मानं दहतीतिवत्अविरुद्धं तु लोकप्रसिद्धम्स्वात्मव्यतिरिक्तेन विज्ञानेन बाह्योऽर्थोऽनुभूयत इति नेच्छसि; अहो पाण्डित्यं महद्दर्शितम् चार्थाव्यतिरिक्तमपि विज्ञानं स्वयमेवानुभूयते, स्वात्मनि क्रियाविरोधादेवननु विज्ञानस्य स्वरूपव्यतिरिक्तग्राह्यत्वे, तदप्यन्येन ग्राह्यं तदप्यन्येनइत्यनवस्था प्राप्नोतिअपि प्रदीपवदवभासात्मकत्वाज्ज्ञानस्य ज्ञानान्तरं कल्पयतः समत्वादवभास्यावभासकभावानुपपत्तेः कल्पनानर्थक्यमिति तदुभयमप्यसत्विज्ञानग्रहणमात्र एव विज्ञानसाक्षिणो ग्रहणाकाङ्क्षानुत्पादादनवस्थाशङ्कानुपपत्तेः, साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपलब्ध्रुपलभ्यभावोपपत्तेः, स्वयंसिद्धस्य साक्षिणोऽप्रत्याख्येयत्वात्किञ्चान्यत्प्रदीपवद्विज्ञानमवभासकान्तरनिरपेक्षं स्वयमेव प्रथते इति ब्रुवता अप्रमाणगम्यं विज्ञानमनवगन्तृकमित्युक्तं स्यात्शिलाघनमध्यस्थप्रदीपसहस्रप्रथनवत्बाढमेवम्अनुभवरूपत्वात्तु विज्ञानस्येष्टो नः पक्षस्त्वया अनुज्ञायत इति चेत् , ; अन्यस्यावगन्तुश्चक्षुःसाधनस्य प्रदीपादिप्रथनदर्शनात्अतो विज्ञानस्याप्यवभास्यत्वाविशेषात्सत्येवान्यस्मिन्नवगन्तरि प्रथनं प्रदीपवदित्यवगम्यतेसाक्षिणोऽवगन्तुः स्वयंसिद्धतामुपक्षिपता स्वयं प्रथते विज्ञानम् इत्येष एव मम पक्षस्त्वया वाचोयुक्त्यन्तरेणाश्रित इति चेत् , ; विज्ञानस्योत्पत्तिप्रध्वंसानेकत्वादिविशेषवत्त्वाभ्युपगमात्अतः प्रदीपवद्विज्ञानस्यापि व्यतिरिक्तावगम्यत्वमस्माभिः प्रसाधितम् ॥ २८ ॥

क्षणिकविज्ञानमात्रवादस्य मानमूलत्वात्तेन नित्यविज्ञानवादो विरुध्यत इति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे -

नाभाव इत्यादिना ।

किं बाह्यार्थस्यानुपलब्धेरभाव उत ज्ञानाद्भेदेनानुपलब्धेः ।

नाद्य इत्युक्तम् -

उपलब्धेरिति ।

द्वितीयं शङ्कते -

ननु नाहमिति ।

ज्ञानज्ञेययोर्विषयिविषयभावेन भेदस्य साक्षिप्रत्यक्षसिद्धत्वात्प्रत्यक्षविरुद्धमभेदाभिधानमित्याह -

बाढमित्यादिना ।

त्वद्वचनादपि जनो बाह्यार्थं ज्ञानाद्भेदेनैवोपलभत इत्याह -

अतश्चेति ।

बाह्यार्थस्यात्यन्तासत्त्वे प्रत्यक्षोपलम्भायोगात् , दृष्टान्तत्वासम्भवाच्च बहिर्वच्छब्दो न स्यादित्याह -

इतरथेति ।

अबाधितभेदानुभवादेवकारो युक्तो न वत्कार इत्याह -

तस्मादिति ।

ज्ञेयार्थो ज्ञानातिरेकेणासन्नसम्भवादित्युक्तबाधाद्वत्करणमिति शङ्कते -

नन्विति ।

कोऽसावसम्भवः, असत्त्वं वा असत्त्वनिश्चयो वा अयुक्तत्वं वा उत्कटकोटिकसंशयात्मकसम्भवस्याभावो वा । नाद्यः, साध्याभेदात् ।

न द्वितीयः, स्थूलौ घटस्तम्भाविति समूहालम्बने स्थूलत्वद्वित्वघटत्वस्तम्भत्वरूपविरुद्धधर्मवतोरर्थयोरस्थूलादेकस्माद्वयावगाहिविज्ञानाद्भेदसत्त्वनिश्चये नासम्भवासिद्धरित्याह -

नायं साधुरिति ।

सम्भवः सत्तानिश्चयः प्रमाणाधीनः ।

असम्भवोऽसत्त्वनिश्चयः प्रमाणाभावाधीनो न वैपरीत्यमिति व्यवस्थामेव स्फुटयति -

यद्धीति ।

उक्तव्यवस्थायाः फलं बाह्यार्थस्य प्रत्यक्षादिभिः सम्भवं वदन्नेव तृतीयं दूषयति -

इहेति ।

प्रमाणनिश्चितबाह्यार्थस्य स्तम्भादेः परमाणुभ्यो भेदाभेदविकल्पैरयुक्तत्वमात्रेणासत्त्वनिश्चयो न युक्तः, त्वत्पक्षेऽप्ययुक्तत्वस्य तुल्यत्वात् । न ह्यस्थूलस्यैकस्य विज्ञानस्य स्थूलानेकसमूहालम्बनस्य विषयाभेदो युक्तः, स्थूलत्वानेकत्वप्रसङ्गात् । न चेष्टापत्तिः, समूहालम्बनोच्छेदे विज्ञानानां मिथो वार्तानभिज्ञतया विषयद्वित्वादिव्यवहारलोपापत्तेः । तस्मादयुक्तत्वेऽपि यथानुभवं व्यवहारयोग्योऽर्थः स्वीकार्यः । न चतुर्थः, निश्चिते तादृशसम्भवस्यानुपयोगात् । तस्य क्वचित्प्रमाणप्रवृत्तेः पूर्वाङ्गत्वादिति भावः ।

यच्चोक्तं ज्ञानगतार्थसारूप्यस्यैव ज्ञानालम्बनत्वोपपत्तेर्बहिरर्थाभाव इति, तत्राह -

न चेति ।

यत्तु गौरवमुक्तम् , तन्न दूषणम् , प्रामाणिकत्वादित्याह -

बहिरिति ।

यत एव ज्ञानार्थयोर्भेदः सर्वलोके साक्ष्यनुभवसिद्धः, अत एव सहोपलम्भनियमोऽपि नाभेदसाधक इत्याह -

अत एवेति ।

यथा चाक्षुषद्रव्यरूपस्यालोकोपलम्भनियतोपलब्धिकत्वेऽपि नालोकाभेदः, तथार्थस्य न ज्ञानाभेदः, भेदेऽपि ग्राह्यग्राहकभावेन नियमेपपत्तेः । न च ज्ञानस्य क्षणिकत्वात्स्वभिन्नग्राह्यसम्बन्धायोगः, स्थायित्वादिति भावः ।

विज्ञानमनेकार्थेभ्यो भिन्नम् , एकत्वात् , गोत्ववदिति सत्प्रतिपक्षमाह -

अपि चेति ।

न च हेत्वसिद्धिः, ज्ञानं ज्ञानमित्येकाकारप्रतीतेर्ज्ञानैक्यनिश्चयात् ।

न च सा जातिविषया, व्यक्तिभेदानिश्चयादित्याह -

न विशेष्यस्येति ।

घटादेश्चैतन्याद्भेदमुक्त्वा वृत्तिज्ञानाद्भेदमाह -

तथेति ।

घटो द्वाभ्यां भिन्नः एकत्वात् , क्षीरवदित्यर्थः ।

ज्ञानभिन्नार्थानङ्गीकारे स्वशास्त्रव्यवहारलोपं बाधकमाह -

अपि चेति ।

क्रमिकयोः स्वप्रकाशयोः क्षणिकज्ञानयोर्मिथो ग्राह्यग्राहकत्वमयुक्तमनभ्युपगतं च । तथा च तयोर्भेदप्रतिज्ञा न युक्ता, धर्मिप्रतियोगिनोर्मिथः परेण चाग्रहेण भेदग्रहायोगात् । तथा च तयोर्भेदग्राहकः स्थाय्यात्मा तद्भिन्न एवैष्टव्यः । एवं पक्षसाध्यहेतुदृष्टान्तभेदाभावे इदं क्षणिकमसदिति प्रतिज्ञा न युक्ता । सर्वतो व्यावृत्तं व्यक्तिमात्रत्वं स्वलक्षणम् , अनेकानुगतं सामान्यमतद्व्यावृत्तिरूपमिति प्रतिज्ञा न युक्ता, सर्वानेकार्थानां ज्ञानमात्रत्वे मिथः परेण वा दुर्ज्ञानत्वातुत्तरनीलज्ञानं वास्यं पूर्वनीलज्ञानं वासकमिति प्रतिज्ञा न युक्ता, तयोर्भिन्नस्य ज्ञातुरभावात् । किञ्चाविद्योपप्लवोऽविद्यासंसर्गः, तेन नीलमिति सद्धर्मः, नरविषाणमित्यसद्धर्मः, अमूर्तमिति सदसद्धर्मः, सतो विज्ञानस्यासतो नरविषाणस्य वामूर्तत्वादिप्रतिज्ञा दुर्लभा, अनेकार्थज्ञानसाध्यत्वात् । अज्ञानेनास्य बन्धो ज्ञानेनास्य मोक्ष इति च प्रतिज्ञा बह्वर्थज्ञानसाध्या । आदिपदेन सामान्यत इष्टं ग्राह्यमनिष्टं त्याज्यमिति शिष्यहितेपदेशोऽनेकज्ञानसाध्यो गृहीतः । तस्मात्प्रतिज्ञादिव्यवहाराय ग्राह्यग्राहकभेदोऽङ्गीकार्य इत्यर्थः ।

ज्ञानार्थयोभेदे युक्त्यन्तरमस्तीत्याह -

किञ्चान्यदिति ।

ज्ञानवदर्थस्याप्यनुभवाविशेषात्स्वीकारो युक्त इत्यर्थः ।

स्वविषयत्वाद्विज्ञानं स्वीक्रियते नार्थः परग्राह्यत्वादिति शङ्कते -

अथ विज्ञानमिति ।

विरुद्धं स्वीकृत्याविरुद्धं त्यजता बौद्धतनयेन मौढ्यं दर्शितमित्याह -

अत्यन्तेति ।

ज्ञानं स्ववेद्यमित्यङ्गीकृत्य मौर्ख्यमापादितम् , वस्तुतः स्ववेद्यत्वमयुक्तमित्याह -

न चेति ।

कर्तरि क्रियां प्रति गुणभूते प्रधानत्वाख्यकर्मत्वायोगात्स्वकर्तृकवेदनकर्मत्वमसदित्यर्थः । न च स्वविषयत्वमात्रं स्ववेद्यत्वमिति वाच्यम् , अभेदे विषयविषयित्वस्याप्यसम्भवादिति भावः ।

ज्ञानस्य स्ववेद्यत्वाभावे दोषद्वयं स्यादिति शङ्कते -

नन्विति ।

अनवस्था च साम्यं चेति दोषद्वयं परिहरति -

तदुभयमपीति ।

अनित्यज्ञानस्य जन्मादिमत्वेन घटवज्जडस्य स्वेन स्वीयजन्मादिग्रहायोगादस्ति ग्राहकाकाङ्क्षा, साक्षिणस्तु सत्तायां स्फूर्तौ च निरपेक्षत्वान्नानवस्था । नापि साम्यम् । चिज्जडत्ववैषम्यादित्यर्थः ।

साक्षी क्वेत्यत आह -

स्वयंसिद्धस्येति ।

निरपेक्षस्य साक्षिणोऽसत्त्वे क्षणिकविज्ञानभेदासिद्धेः सोऽङ्गीकार्य इत्यर्थः ।

अनित्यज्ञानस्वरूपसाधकत्वाच्च साक्षी स्वीकार्य इत्याह -

किञ्चेति ।

विज्ञानं ज्ञानान्तरानपेक्षमिति ब्रुवता तस्याप्रामाणिकत्वमुक्तं स्यात् , स्वयं प्रथत इति ब्रुवता ज्ञातृशून्यत्वं चोक्तं स्यात् , तथा च ज्ञातृज्ञानाविषयत्वाच्छिलास्थप्रदीपवदसदेव विज्ञानं स्यात् । अतस्तत्साक्ष्येष्टव्य इत्यर्थः ।

विज्ञानस्य स्वान्यज्ञातृशून्यत्वमिष्टमेव त्वयापाद्यते न चासत्त्वापत्तिः ज्ञात्रभावादिति वाच्यम् , स्वस्यैव ज्ञातृत्वादिति शाक्यः शङ्कते -

बाढमिति ।

अभेदे ज्ञातृज्ञेयत्वायोगाज्ज्ञात्रन्तरमावश्यकमिति परिहरति -

नेति ।

विमतं विज्ञानं स्वातिरिक्तवेद्यम् , वेद्यत्वात् , देहवदित्यर्थः ।

अतिरिक्तः साक्षी किमन्यवेद्यः स्ववेद्यो वा । आद्येऽनवस्था । द्वितीये विज्ञानवाद एव भङ्ग्यन्तरेणोक्तः स्यादितिशङ्कते -

साक्षिण इति ।

त्वया विज्ञानं जन्मविनाशयुक्तमुच्यते । अतः कार्यस्य जडत्वनियमात्स्वातिरिक्तवेद्यत्वमस्माभिः साधितम् , कूटस्थचिदात्मनो ग्राहकानपेक्षत्वान्नानवस्थेति चोक्तमतो महद्वैलक्षण्यमावयोरेति परिहरति -

न । विज्ञानस्येति ॥२८॥