ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
वैधर्म्याच्च न स्वप्नादिवत् ॥ २९ ॥
यदुक्तं बाह्यार्थापलापिनास्वप्नादिप्रत्ययवज्जागरितगोचरा अपि स्तम्भादिप्रत्यया विनैव बाह्येनार्थेन भवेयुः, प्रत्ययत्वाविशेषादिति, तत्प्रतिवक्तव्यम्अत्रोच्यते स्वप्नादिप्रत्ययवज्जाग्रत्प्रत्यया भवितुमर्हन्तिकस्मात् ? वैधर्म्यात्वैधर्म्यं हि भवति स्वप्नजागरितयोःकिं पुनर्वैधर्म्यम् ? बाधाबाधाविति ब्रूमःबाध्यते हि स्वप्नोपलब्धं वस्तु प्रतिबुद्धस्यमिथ्या मयोपलब्धो महाजनसमागम इति, ह्यस्ति मम महाजनसमागमः, निद्राग्लानं तु मे मनो बभूव, तेनैषा भ्रान्तिरुद्बभूवेतिएवं मायादिष्वपि भवति यथायथं बाधःनैवं जागरितोपलब्धं वस्तु स्तम्भादिकं कस्याञ्चिदप्यवस्थायां बाध्यतेअपि स्मृतिरेषा, यत्स्वप्नदर्शनम्उपलब्धिस्तु जागरितदर्शनम्स्मृत्युपलब्ध्योश्च प्रत्यक्षमन्तरं स्वयमनुभूयते अर्थविप्रयोगसम्प्रयोगात्मकम्इष्टं पुत्रं स्मरामि, नोपलभे, उपलब्धुमिच्छामीतितत्रैवं सति शक्यते वक्तुम्मिथ्या जागरितोपलब्धिः, उपलब्धित्वात् , स्वप्नोपलब्धिवदितिउभयोरन्तरं स्वयमनुभवता स्वानुभवापलापः प्राज्ञमानिभिर्युक्तः कर्तुम्अपि अनुभवविरोधप्रसङ्गाज्जागरितप्रत्ययानां स्वतो निरालम्बनतां वक्तुमशक्नुवता स्वप्नप्रत्ययसाधर्म्याद्वक्तुमिष्यते यो यस्य स्वतो धर्मो सम्भवति सोऽन्यस्य साधर्म्यात्तस्य सम्भविष्यति ह्यग्निरुष्णोऽनुभूयमान उदकसाधर्म्याच्छीतो भविष्यतिदर्शितं तु वैधर्म्यं स्वप्नजागरितयोः ॥ २९ ॥

एवं वेद्यविज्ञानवदर्थस्याप्युपलब्धेर्न बाह्यार्थाभाव इत्युक्तम् । सम्प्रति जाग्रद्विज्ञानं स्वप्नादिविज्ञानवन्न बाह्यालम्बनमित्यनुमानं दूषयति -

वैधर्म्याच्चेति ।

किमत्र निर्विषयत्वं साध्यमुत पारमार्थिकविषयशून्यत्वम् , अथवा व्यावहारिकविषयशून्यत्वम् । नाद्यः, स्वप्नादिविभ्रमाणामपि मिथ्यार्थालम्बनत्वेन दृष्टान्ते साध्यवैकल्यात् । न द्वितीयः, सिद्धसाधनादिति सूत्रस्थचकारार्थः ।

तृतीये तु व्यवहारदशायां बाधितार्थग्राहित्वमुपाधिरित्याह -

बाध्यते हीत्यादिना ।

निद्राग्लानमिति ।

करणदोषोक्तिः ।

साधनव्यापकत्वनिरासायाह -

न चैवमिति ।

किञ्च प्रमाणजानुभव उपलब्धिः पक्षोऽप्रमाणजं स्वप्नज्ञानं दृष्टान्त इति वैधर्म्यान्तरम् ।

परमतेन स्वप्नस्य स्मृतित्वमङ्गीकृत्याह -

अपि चेति ।

स्मृतिप्रत्यक्षोपलब्ध्योर्वैधर्म्यान्तरमाह -

अर्थविप्रयोरेति ।

असम्बन्धश्चावर्तमानश्च स्मृतेरर्थो विषय इति निरालम्बनत्वमप्यस्याः कदाचिद्भवेत् , न सम्प्रयुक्तवर्तमानार्थमात्रग्राहिण्या उपलब्धेरिति भावः ।

पूर्वोक्तप्रमाणाप्रमाणजत्ववैधर्म्योक्तिफलमाह -

तत्रैवंसतीति ।

वैधर्म्ये सतीत्यर्थः । अप्रमाणजत्वोपाधेर्निरालम्बनत्वानुमानं न युक्तमिति भावः ।

वैधर्म्यासिद्धिं निरस्यति -

न चेति ।

बाधमप्याह -

अपि चेति ।

वस्तुतो घटाद्यनुभवस्य निरालम्बनत्वं धर्मो यदि स्यात्तदा किं दृष्टान्ताग्रहेण, प्रत्यक्षतोऽपि वक्तुं शक्यत्वात् । न हि वह्नेरौष्ण्यं दृष्टान्तेन वक्तव्यम् । यदि न वस्तुतो धर्मोऽस्ति तदा किं दृष्टान्तेन, बाधितस्य दृष्टान्तसहस्रेणापि दुःसाध्यत्वात् । अतः स्वतो निरालम्बनत्वोक्तौ सालम्बनत्वानुभवबाधभिया त्वयानुमातुमारब्धं तथापि बाधो न मुञ्चतीत्यर्थः ।

उक्तोपाधिरपि न विस्मर्तव्य इत्याह -

दर्शितं त्विति ॥२९॥