ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
न भावोऽनुपलब्धेः ॥ ३० ॥
यदप्युक्तम्विनाप्यर्थेन ज्ञानवैचित्र्यं वासनावैचित्र्यादेवावकल्पत इति, तत्प्रतिवक्तव्यम्अत्रोच्यते भावो वासनानामुपपद्यते, त्वत्पक्षेऽनुपलब्धेर्बाह्यानामर्थानाम्अर्थोपलब्धिनिमित्ता हि प्रत्यर्थं नानारूपा वासना भवन्तिअनुपलभ्यमानेषु त्वर्थेषु किंनिमित्ता विचित्रा वासना भवेयुः ? अनादित्वेऽप्यन्धपरम्परान्यायेनाप्रतिष्ठैवानवस्था व्यवहारविलोपिनी स्यात् , नाभिप्रायसिद्धिःयावप्यन्वयव्यतिरेकावर्थापलापिनोपन्यस्तौवासनानिमित्तमेवेदं ज्ञानजातं नार्थनिमित्तमिति, तावप्येवं सति प्रत्युक्तौ द्रष्टव्यौ; विना अर्थोपलब्ध्या वासनानुपपत्तेःअपि विनापि वासनाभिरर्थोपलब्ध्युपगमात् , विना त्वर्थोपलब्ध्या वासनोत्पत्त्यनभ्युपगमात् अर्थसद्भावमेवान्वयव्यतिरेकावपि प्रतिष्ठापयतःअपि वासना नाम संस्कारविशेषाःसंस्काराश्च नाश्रयमन्तरेणावकल्पन्ते; एवं लोके दृष्टत्वात् तव वासनाश्रयः कश्चिदस्ति, प्रमाणतोऽनुपलब्धेः ॥ ३० ॥

सूत्रव्यावर्त्यं स्मारयित्वा दूषयति -

यदप्युक्तमित्यादिना ।

भाव उत्पत्तिः सत्ता वा ।

ननु बाह्यार्थानुपलब्धावपि पूर्वपूर्ववासनाबलादुत्तरोत्तरविज्ञानवैचित्र्यमस्तु बीजाङ्कुरवदनादित्वादित्यत आह -

अनादित्वेऽपीति ।

बीजादङ्कुरो दृष्ट इत्यदृष्टेऽपि तज्जातीययोः कार्यकारणभावकल्पना युक्ता, इह त्वर्थानुभवनिरपेक्षवासनोत्पत्तेरादावेव कल्प्यत्वादनादित्वकल्पना निर्मूलेति नाभिप्रेतधीवैचित्र्यसिद्धिरित्यर्थः ।

ननु निरपेक्षवासनानां सत्त्वे धीवैचित्र्यमसत्त्वे तु नेति स्वप्ने दृष्टमिति समूलानवस्थेत्यत आह -

याविति ।

वासनानां बाह्यार्थानुभवकार्यत्वे सति नैरपेक्ष्यासिद्धेर्नान्वयादिदृष्टिरित्यर्थः ।

कार्यत्वग्राहकं व्यतिरेकमाह -

विनेति ।

अर्थानुभवकार्याणां वासनानां तदनपेक्षत्वायोगान्न त्वदुक्तान्वयादिदृष्टिरित्युक्तम् ।

अभिनवार्थोपलब्धिवैचित्र्यस्य वासनां विनापि भावेन व्यतिरेकव्यभिचाराच्च न क्वापि वासनामात्रकृतं धीवैचित्र्यं किन्त्वर्थानुभवे सति वासनासति नेत्यन्वयव्यतिरेकाभ्यां वासनामूलानुभवावच्छेदकार्थकृतमेवेति बाह्यार्थसद्भावसिद्धिरित्याह -

अपि चेति ।

यः संस्कारः स साश्रयो लोके दृष्टः यथा वेगादिरिष्वाद्याश्रयः, अतो विज्ञानसंस्काराणां न भाव आश्रयानुपलब्धेरित्यर्थान्तरमाह -

अपि चेति ॥३०॥