ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
क्षणिकत्वाच्च ॥ ३१ ॥
यदप्यालयविज्ञानं नाम वासनाश्रयत्वेन परिकल्पितम् , तदपि क्षणिकत्वाभ्युपगमादनवस्थितस्वरूपं सत् प्रवृत्तिविज्ञानवन्न वासनानामधिकरणं भवितुमर्हति हि कालत्रयसम्बन्धिन्येकस्मिन्नन्वयिन्यसति कूटस्थे वा सर्वार्थदर्शिनि देशकालनिमित्तापेक्षवासनाधानस्मृतिप्रतिसन्धानादिव्यवहारः सम्भवतिस्थिरस्वरूपत्वे त्वालयविज्ञानस्य सिद्धान्तहानिःअपि विज्ञानवादेऽपि क्षणिकत्वाभ्युपगमस्य समानत्वात् , यानि बाह्यार्थवादे क्षणिकत्वनिबन्धनानि दूषणान्युद्भावितानि — ‘उत्तरोत्पादे पूर्वनिरोधात्इत्येवमादीनि, तानीहाप्यनुसन्धातव्यानिएवमेतौ द्वावपि वैनाशिकपक्षौ निराकृतौबाह्यार्थवादिपक्षो विज्ञानवादिपक्षश्चशून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते ह्ययं सर्वप्रमाणसिद्धो लोकव्यवहारोऽन्यत्तत्त्वमनधिगम्य शक्यतेऽपह्नोतुम् , अपवादाभावे उत्सर्गप्रसिद्धेः ॥ ३१ ॥

अस्त्वालयविज्ञानमाश्रय इत्यत आह -

क्षणिकत्वाच्चेति ।

सूत्रं व्याचष्टे -

यदपीति ।

सहोत्पन्नयोः सव्येतरविषाणवदाश्रयाश्रयिभावायोगात् , पौर्वापर्ये चाधेयक्षणेऽसत आधारत्वायोगात् , सत्त्वे क्षणिकत्वव्याघातान्नाधारत्वमालयविज्ञानस्य क्षणिकत्वान्नीलादिविज्ञानवदित्यर्थः ।

अस्तु तर्ह्यालयविज्ञानसन्तानाश्रया वासनेत्यत आह -

न हीति ।

सविकारः कूटस्थो वा स्थाय्यात्मा यदि नास्ति तदा सन्तानस्यावस्तुत्वाद्देशाद्यपेक्षया यद्वासनानामाधानं निक्षेपो ये च स्मृतिप्रत्यभिज्ञे यश्च तन्मूलो व्यवहारः, तत्सर्वं न सम्भवतीत्यर्थः ।

यदि व्यवहारार्थमात्मस्थायित्वं तदापसिद्धान्त इत्याह -

स्थिरेति ।

सूत्रमतिदेशार्थत्वेनापि व्याचष्टे -

अपि चेति ।

मतद्वयनिरासमुपसंहरति -

एवमिति ।

ज्ञानज्ञेयात्मकस्य सर्वस्य सत्त्वासत्त्वाभ्यां विचारासहत्वाच्छून्यतावशिष्यत इति माध्यमिकपक्षस्यापि मानमूलत्वमाशङ्क्य सूत्रकारः किमिति न निराचकारेत्यत आह -

शून्येति ।

आदरः पृथक्सूत्रारम्भो न क्रियते । एतान्येव तन्मतनिरासार्थत्वेनापि योज्यन्त इत्यर्थः । तथा हि ज्ञानार्थयोर्नाभावः, प्रमाणत उपलब्धेः ।

ननु जाग्रत्स्वप्नौ ज्ञानार्थशून्यौ, अवस्थात्वात् , सुषुप्तिवदित्यत आह 'वैधर्म्याच्च न स्वप्नादिवत्' । स्वप्न आदिर्यस्याः सुषुप्तेस्तद्वन्नेतरावस्थयोः शून्यत्वम् , उपलब्ध्यनुपलब्धिवैधर्म्यलक्षणाबाधितज्ञानार्थोपलब्धिबाधात् । सुषुप्तावप्यात्मज्ञानसत्त्वेन साध्यवैकल्याच्च नानुमानमित्यर्थः । किञ्च निरधिष्ठाननिषेधायोगादधिष्ठानमेव तत्त्वं वाच्यम् , तस्य त्वन्मते न भावः । मानतोऽनुपलब्धेरित्याह 'न भावोऽनुपलब्धेः' । तदर्थमाह -

न ह्ययमिति ।

यद्भाति तन्नासदित्युत्सर्गतः प्रपञ्चस्य न शून्यत्वम् । बाधाभावादित्यर्थः । न च सत्त्वासत्त्वाभ्यां विचारासहत्वाच्छून्यत्वम् । मिथ्यात्वसम्भवादिति भावः । 'क्षणिकत्वाच्च' इति सूत्रं 'क्षणिकत्वोपदेशाच्च' इति पठनीयम् । शून्यत्वविरुद्धक्षणिकत्वोपदेशादसङ्गतप्रलापी सुगत इत्यर्थः ॥३१॥