ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
एवं चात्माकार्त्स्न्यम् ॥ ३४ ॥
यथैकस्मिन्धर्मिणि विरुद्धधर्मासम्भवो दोषः स्याद्वादे प्रसक्तः, एवमात्मनोऽपि जीवस्य अकार्त्स्न्यमपरो दोषः प्रसज्येतकथम् ? शरीरपरिमाणो हि जीव इत्यार्हता मन्यन्तेशरीरपरिमाणतायां सत्याम् अकृत्स्नोऽसर्वगतः परिच्छिन्न आत्मेत्यतो घटादिवदनित्यत्वमात्मनः प्रसज्येतशरीराणां चानवस्थितपरिमाणत्वात् मनुष्यजीवो मनुष्यशरीरपरिमाणो भूत्वा पुनः केनचित्कर्मविपाकेन हस्तिजन्म प्राप्नुवन् कृत्स्नं हस्तिशरीरं व्याप्नुयात्पुत्तिकाजन्म प्राप्नुवन् कृत्स्नः पुत्तिकाशरीरे संमीयेतसमान एष एकस्मिन्नपि जन्मनि कौमारयौवनस्थाविरेषु दोषःस्यादेतत्अनन्तावयवो जीवःतस्य एवावयवा अल्पे शरीरे सङ्कुचेयुः , महति विकसेयुरितितेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिहन्यते वा, वेति वक्तव्यम्प्रतिघाते तावत् नानन्तावयवाः परिच्छिन्ने देशे संमीयेरन्अप्रतिघातेऽप्येकावयवदेशत्वोपपत्तेः सर्वेषामवयवानां प्रथिमानुपपत्तेर्जीवस्याणुमात्रत्वप्रसङ्गः स्यात्अपि शरीरमात्रपरिच्छिन्नानां जीवावयवानामानन्त्यं नोत्प्रेक्षितुमपि शक्यम् ॥ ३४ ॥

जीवस्य देहपरिमाणतां दूषयति -

एवं चेति ।

अकार्त्स्न्यं मध्यमपरिमाणत्वम् । तेनानित्यत्वं स्यादित्यर्थः ।

अर्थान्तरमाह -

शरीराणां चेति ।

विपाकः कर्मणामभिव्यक्तिः । जीवस्य कृत्स्नगजशरीरव्यापित्वमकार्त्स्न्यम् । शरीरैकदेशो निर्जीवः स्यादित्यर्थः । पुत्तिकादेहे कृत्स्नो जीवो न प्रविशेत् । देहाद्बहिरपि जीवः स्यादित्यर्थः ।

किञ्च बालदेहमात्र आत्मा ततः स्थूले युवदेहे क्वचित्स्यादिति कृत्स्नदेहः सजीवो न स्यादित्याह -

समान इति ।

यथा दीपावयवानां घटे सङ्कोचो गेहे विकासस्तथा जीवावयवानामिति देहमानत्वनियमं शङ्कते -

स्यादिति ।

दीपांशवज्जीवांशा भिन्नदेशा एकदेशा वेति विकल्प्याद्येऽल्पदेहाद्बहिरपि जीवः स्यादिति दूषयति -

तेषामित्यादिना ।

दीपस्य तु न घटाद्बहिः सत्त्वमधिकावयवानां विनाशात् ।

द्वितीयं दूषयति -

अप्रतिघात इति ।

अवयवानां नित्यत्वं चासिद्धमल्पत्वाद्दीपांशवदित्याह -

अपि चेति ॥३४॥