ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
उत्पत्त्यसम्भवात् ॥ ४२ ॥
तत्र भागवता मन्यतेभगवानेवैको वासुदेवो निरञ्जनज्ञानस्वरूपः परमार्थतत्त्वम् चतुर्धात्मानं प्रविभज्य प्रतिष्ठितःवासुदेवव्यूहरूपेण, सङ्कर्षणव्यूहरूपेण, प्रद्युम्नव्यूहरूपेण, अनिरुद्धव्यूहरूपेण वासुदेवो नाम परमात्मा उच्यते; सङ्कर्षणो नाम जीवः; प्रद्युम्नो नाम मनः; अनिरुद्धो नाम अहंकारःतेषां वासुदेवः परा प्रकृतिः, इतरे सङ्कर्षणादयः कार्यम्तमित्थंभूतं परमेश्वरं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैर्वर्षशतमिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यत इतितत्र यत्तावदुच्यतेयोऽसौ नारायणः परोऽव्यक्तात्प्रसिद्धः परमात्मा सर्वात्मा, आत्मनात्मानमनेकधा व्यूह्यावस्थित इतितन्न निराक्रियते, एकधा भवति त्रिधा भवति’ (छा. उ. ७ । २६ । २) इत्यादिश्रुतिभ्यः परमात्मनोऽनेकधाभावस्याधिगतत्वात्यदपि तस्य भगवतोऽभिगमनादिलक्षणमाराधनमजस्रमनन्यचित्ततयाभिप्रेयते, तदपि प्रतिषिध्यते, श्रुतिस्मृत्योरीश्वरप्रणिधानस्य प्रसिद्धत्वात्यत्पुनरिदमुच्यतेवासुदेवात्सङ्कर्षण उत्पद्यते, सङ्कर्षणाच्च प्रद्युम्नः, प्रद्युम्नाच्चानिरुद्ध इति, अत्र ब्रूमः वासुदेवसंज्ञकात्परमात्मनः सङ्कर्षणसंज्ञकस्य जीवस्योत्पत्तिः सम्भवति, अनित्यत्वादिदोषप्रसङ्गात्उत्पत्तिमत्त्वे हि जीवस्य अनित्यत्वादयो दोषाः प्रसज्येरन्ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात् , कारणप्राप्तौ कार्यस्य प्रविलयप्रसङ्गात्प्रतिषेधिष्यति आचार्यो जीवस्योत्पत्तिम्नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः’ (ब्र. सू. २ । ३ । १७) इतितस्मादसङ्गतैषा कल्पना ॥ ४२ ॥

अत्र भागवतपञ्चरात्रागमो विषयः । स किं जीवोत्पत्त्याद्यंशे मानं न वेति सन्देहे बाधानुपलम्भान्मानमिति पूर्वपक्षयति -

तत्रेति ।

पूर्वपक्षे तदागमविरोधाज्जीवाभिन्नब्रह्मसमन्वयासिद्धिः, सिद्धान्ते तदंशे तस्यामानत्वादविरोधात्तत्सिद्धिरिति फलभेदः ।

सावयवत्वं निरस्यति -

निरञ्जनेति ।

कथं तर्ह्यद्वितीये वासुदेवे मूर्तिभेदः, तत्राह -

स इति ।

व्यूहो मूर्तिः ।

सविशेषं शास्त्रार्थमुक्त्वा सहेतुं पुरुषार्थमाह -

तमित्थम्भूतमिति ।

यथोक्तव्यूहवन्तं सर्वप्रकृतिं निरञ्जनं विज्ञानरूपं परमात्मानमिति यावत् । वाक्कायचेतसामवधानपूर्वकं देवतागृहगमनमभिगमनम् । पूजाद्रव्याणामर्जनमुपादानम् । इज्या पूजा । स्वाध्यायोऽष्टाक्षरादि जपः । योगो ध्यानम् ।

तत्राविरुद्धांशमुपादत्ते -

तत्रेति ।

'समाहितः श्रद्धावित्तो भूत्वा' इति, 'तं यथा यथोपासते' इत्याद्या च श्रुतिः । 'मत्कर्मकृन्मत्परमः' इत्याद्या स्मृतिः ।

विरुद्धांशमनूद्य दूषयति -

यत्पुनरिति ।

कृतहान्यादिदोष आदिशब्दार्थः । न्यायोपेतया 'अज आत्मा' इत्यादिश्रुत्या पञ्चरात्रागमस्योत्पत्त्यंशे मानत्वाभावनिश्चयाज्जीवाभिन्नब्रह्मसमन्वयस्थैर्यमिति भावः ॥४२॥