ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
शब्दाच्च ॥ ४ ॥
शब्दः खल्वाकाशस्य अजत्वं ख्यापयति, यत आह — ‘वायुश्चान्तरिक्षं चैतदमृतम्’ (बृ. उ. २ । ३ । ३) इति; न ह्यमृतस्योत्पत्तिरुपपद्यते । ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) इति च आकाशेन ब्रह्म सर्वगतत्वनित्यत्वाभ्यां धर्माभ्यामुपमिमानः आकाशस्यापि तौ धर्मौ सूचयति । न च तादृशस्योत्पत्तिरुपपद्यते । ‘स यथानन्तोऽयमाकाश एवमनन्त आत्मा वेदितव्यः’ इति च उदाहरणम् — ‘आकाशशरीरं ब्रह्म’ (तै. उ. १ । ६ । २) ‘आकाश आत्मा’ (तै. उ. १ । ७ । १) इति च । न ह्याकाशस्योत्पत्तिमत्त्वे ब्रह्मणस्तेन विशेषणं सम्भवति — नीलेनेवोत्पलस्य । तस्मान्नित्यमेवाकाशेन साधारणं ब्रह्मेति गम्यते ॥ ४ ॥

न केवलं तर्कादाकाशस्यानुत्पत्तिः, किन्तु श्रुतितोऽपीत्याहसूत्रकारः -

शब्दाच्चेति ।

नित्यभावस्यानादित्वादिति भावः । आत्मेति च शब्द इहोदाहरणमित्यन्वयः । आकाशः शरीरमस्येति बहुव्रीहिणात्यन्तसाम्यभानाद्ब्रह्मवदाकाशस्यानादित्वमित्यर्थः ॥४॥