ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५ ॥
इदं पदोत्तरं सूत्रम् । स्यादेतत् । कथं पुनरेकस्य सम्भूतशब्दस्य ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इत्यस्मिन्नधिकारे परेषु तेजःप्रभृतिष्वनुवर्तमानस्य मुख्यत्वं सम्भवति, आकाशे च गौणत्वमिति । अत उत्तरमुच्यते — स्याच्चैकस्यापि सम्भूतशब्दस्य विषयविशेषवशाद्गौणो मुख्यश्च प्रयोगः — ब्रह्मशब्दवत्; यथैकस्यापि ब्रह्मशब्दस्य ‘तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्म’ (तै. उ. ३ । २ । १) इत्यस्मिन्नधिकारेऽन्नादिषु गौणः प्रयोगः, आनन्दे च मुख्यः । यथा च तपसि ब्रह्मविज्ञानसाधने ब्रह्मशब्दो भक्त्या प्रयुज्यते, अञ्जसा तु विज्ञेये ब्रह्मणि — तद्वत् । कथं पुनरनुत्पत्तौ नभसः ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इतीयं प्रतिज्ञा समर्थ्यते ? ननु नभसा द्वितीयेन सद्वितीयं ब्रह्म प्राप्नोति । कथं च ब्रह्मणि विदिते सर्वं विदितं स्यादिति, तदुच्यते — ‘एकमेव’ इति तावत्स्वकार्यापेक्षयोपपद्यते । यथा लोके कश्चित्कुम्भकारकुले पूर्वेद्युर्मृद्दण्डचक्रादीनि उपलभ्य अपरेद्युश्च नानाविधान्यमत्राणि प्रसारितान्युपलभ्य ब्रूयात् — ‘मृदेवैकाकिनी पूर्वेद्युरासीत्’ इति, स च तयावधारणया मृत्कार्यजातमेव पूर्वेद्युर्नासीदित्यभिप्रेयात् , न दण्डचक्रादि — तद्वदद्वितीयश्रुतिरधिष्ठात्रन्तरं वारयति — यथा मृदोऽमत्रप्रकृतेः कुम्भकारोऽधिष्ठाता दृश्यते, नैवं ब्रह्मणो जगत्प्रकृतेरन्योऽधिष्ठाता अस्तीति । न च नभसापि द्वितीयेन सद्वितीयं ब्रह्म प्रसज्यते । लक्षणान्यत्वनिमित्तं हि नानात्वम् । न च प्रागुत्पत्तेर्ब्रह्मनभसोर्लक्षणान्यत्वमस्ति, क्षीरोदकयोरिव संसृष्टयोः , व्यापित्वामूर्तत्वादिधर्मसामान्यात् । सर्गकाले तु ब्रह्म जगदुत्पादयितुं यतते, स्तिमितमितरत्तिष्ठति, तेनान्यत्वमवसीयते । तथा च ‘आकाशशरीरं ब्रह्म’ (तै. उ. १ । ६ । २) इत्यादिश्रुतिभ्योऽपि ब्रह्माकाशयोरभेदोपचारसिद्धिः । अत एव च ब्रह्मविज्ञानेन सर्वविज्ञानसिद्धिः । अपि च सर्वं कार्यमुत्पद्यमानमाकाशेनाव्यतिरिक्तदेशकालमेवोत्पद्यते, ब्रह्मणा च अव्यतिरिक्तदेशकालमेवाकाशं भवतीत्यतो ब्रह्मणा तत्कार्येण च विज्ञातेन सह विज्ञातमेवाकाशं भवति — यथा क्षीरपूर्णे घटे कतिचिदब्बिन्दवः प्रक्षिप्ताः सन्तः क्षीरग्रहणेनैव गृहीता भवन्ति; न हि क्षीरग्रहणादब्बिन्दुग्रहणं परिशिष्यते; एवं ब्रह्मणा तत्कार्यैश्चाव्यतिरिक्तदेशकालत्वात् गृहीतमेव ब्रह्मग्रहणेन नभो भवति । तस्माद्भाक्तं नभसः सम्भवश्रवणमिति ॥ ५ ॥

पदोत्तरमिति ।

शङ्कोत्तरमिति यावत् ।

तान्येव शङ्कापदानि पठति -

स्यादेतदिति ।

अधिकारे प्रकरणे ।

यथैकस्मिन्ब्रह्मप्रकरणे 'अन्नं ब्रह्म', 'आनन्दो ब्रह्म' इति वाक्ययोर्ब्रह्मशब्दस्यान्ने गौणत्वमानन्दे मुख्यता तथैकवाक्यस्थस्यैकस्यापि सम्भूतशब्दस्य गुणमुख्यार्थभेदो योग्यताबलादित्याह -

स्याच्चेति ।

उदाहरणान्तरमाह -

यथा चेति ।

अभेदोपचारो भक्तिः ।

मुख्यसिद्धान्त्याक्षिपति -

कथं पुनरिति ।

स एवाक्षेपद्वयं स्पष्टयति -

नन्विति ।

अद्वितीयत्वश्रुतिबाधः सर्वविज्ञानप्रतिज्ञाबाधश्चेत्यर्थः ।

प्रथमाक्षेपं दृष्टान्तेन परिहरति -

एकमेवेति ।

कार्यरूपद्वितीयशून्यत्वं प्रागवस्थायामवधारणश्रुत्यर्थ इत्यर्थः । कुले गृहे । अमत्राणि घटादीनि पात्राणि ।

एकमेवेत्यवधारणव्यावर्त्यं कार्यमिति व्याख्यायाद्वितीयपदव्यावर्त्यमाह -

अद्वितीयश्रुतिरिति ।

आकाशस्य द्वितीयत्वमङ्गीकृत्याद्वितीयादिपदसङ्कोचः कृतः, तदपि नास्तीत्याह -

न च नभसापीति ।

धर्मसाम्ये ब्रह्मनभसोः कथं भेदः, तत्राह -

सर्गकाले त्विति ।

धर्मसाम्यादद्वितीयत्वोपचार इत्यर्थे श्रुतिमाह -

तथा चाकशेति ।

द्वितीयमाक्षेपं परिहरति -

अत एवेति ।

अभेदोपचारादेवेत्यर्थः ।

नभसो ब्रह्मतत्कार्याभ्यासभिन्नदेशकालत्वाच्च तज्ज्ञाने तज्ज्ञानमित्याह -

अपि चेति ॥५॥