ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
शब्दाच्च ॥ ४ ॥
शब्दः खल्वाकाशस्य अजत्वं ख्यापयति, यत आहवायुश्चान्तरिक्षं चैतदमृतम्’ (बृ. उ. २ । ३ । ३) इति; ह्यमृतस्योत्पत्तिरुपपद्यतेआकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) इति आकाशेन ब्रह्म सर्वगतत्वनित्यत्वाभ्यां धर्माभ्यामुपमिमानः आकाशस्यापि तौ धर्मौ सूचयति तादृशस्योत्पत्तिरुपपद्यते । ‘ यथानन्तोऽयमाकाश एवमनन्त आत्मा वेदितव्यःइति उदाहरणम्आकाशशरीरं ब्रह्म’ (तै. उ. १ । ६ । २) आकाश आत्मा’ (तै. उ. १ । ७ । १) इति ह्याकाशस्योत्पत्तिमत्त्वे ब्रह्मणस्तेन विशेषणं सम्भवतिनीलेनेवोत्पलस्यतस्मान्नित्यमेवाकाशेन साधारणं ब्रह्मेति गम्यते ॥ ४ ॥

न केवलं तर्कादाकाशस्यानुत्पत्तिः, किन्तु श्रुतितोऽपीत्याहसूत्रकारः -

शब्दाच्चेति ।

नित्यभावस्यानादित्वादिति भावः । आत्मेति च शब्द इहोदाहरणमित्यन्वयः । आकाशः शरीरमस्येति बहुव्रीहिणात्यन्तसाम्यभानाद्ब्रह्मवदाकाशस्यानादित्वमित्यर्थः ॥४॥