एतेन मातरिश्वा व्याख्यातः ।
अतिदेशत्वान्न पृथक्सङ्गत्याद्यपेक्षा । 'तत्तेजोऽसृजत' इति श्रुतेः । 'आकाशाद्वायुः' इति श्रुत्या विरोधोऽस्ति न वेति एकवाक्यत्वभावाभावाभ्यां संशये गौणपक्षपूर्वपक्षसिद्धान्तपक्षानतिदिशति -
तत्रापीत्यादिना ।
पूर्वत्र ह्याकाशानन्तर्यं तेजसः स्थापितम् , तत्र वायुतेजसोस्तुल्यवदानन्तर्ये वायोरग्निरिति क्रमश्रुतिबाधात्पौर्वापर्ये तेजःप्राथम्यभङ्गान्नैकवाक्यतेति पूर्वपक्षे गौणवाद्यभिप्रायमाह -
ततश्चेति ।
अस्तमयप्रतिषेधो मुख्योत्पत्त्यसम्भवे लिङ्गम् । 'वायुश्चान्तरिक्षं चैतदमृतम्' इति तस्यैव लिङ्गस्याभ्यासः । 'वायुरेव व्यष्टिः समष्टिश्च' इति सर्वात्मत्वलिङ्गान्तरमादिपदार्थः । तथा संवर्गविद्यायां 'वायुर्ह्येवैतान्सर्वानग्न्यादीन्संहरति' इति शब्दमात्रेणैश्वर्यश्रवणं लिङ्गान्तरं ग्राह्यम् । एतैर्लिङ्गैर्वायुरनाद्यनन्त इति प्रतीतेरुत्पत्तिर्गौणीत्यविरोधः श्रुत्योरिति प्राप्ते प्रतिपिपादयिषितप्रतिज्ञाश्रुतेर्बलीयस्त्वात्तत्साधकानां तत्र तत्र वायूत्पत्तिवाक्यानां भूयस्त्वादुक्तविभक्तत्वादिलिङ्गानुग्रहाच्च मुख्यैव वायोरुत्पत्तिः, तथा चाकाशं वायुं च सृष्ट्वा तेजोऽसृजतेति श्रुत्योरेकवाक्यतया ब्रह्मणि समन्वयः ।
लिङ्गानि तूपास्यवायुस्तावकत्वादापेक्षिकतया व्याख्येयानीति मुख्यसिद्धान्तमाह -
प्रतिज्ञेत्यादिना ।
कृतं प्रतिविधानमापेक्षिकत्वेन समाधानं यस्य तत्तथा ।
अधिकरणारम्भमाक्षिप्योक्तामधिकाशङ्कामाह -
नन्वित्यादिना ।
'वायुर्ह्येवैतान्सवार्न्संवृङ्क्ते' इत्यादिशब्दमात्रं शङ्कामूलं नार्थ इति द्योतनार्थं मात्रपदम् । तामेव शङ्कामाह -
संवर्गेति ।
व्यष्टिसमष्ट्युपास्तिः 'वायुं दिशां वत्सं वेद' इत्युपास्तिश्चादिशब्दार्थः ॥८॥